Click on words to see what they mean.

संजय उवाच ।उत्तरेषु तु कौरव्य द्वीपेषु श्रूयते कथा ।यथाश्रुतं महाराज ब्रुवतस्तन्निबोध मे ॥ १ ॥
घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः ।सुरोदः सागरश्चैव तथान्यो घर्मसागरः ॥ २ ॥
परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप ।सर्वतश्च महाराज पर्वतैः परिवारिताः ॥ ३ ॥
गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् ।पर्वतः पश्चिमः कृष्णो नारायणनिभो नृप ॥ ४ ॥
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः ।प्रजापतिमुपासीनः प्रजानां विदधे सुखम् ॥ ५ ॥
कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य ह ।संपूज्यते शल्मलिश्च द्वीपे शाल्मलिके नृप ॥ ६ ॥
क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः ।संपूज्यते महाराज चातुर्वर्ण्येन नित्यदा ॥ ७ ॥
गोमन्दः पर्वतो राजन्सुमहान्सर्वधातुमान् ।यत्र नित्यं निवसति श्रीमान्कमललोचनः ।मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः ॥ ८ ॥
कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः ।सुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः ॥ ९ ॥
द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः ।चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ॥ १० ॥
षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः ।तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः ॥ ११ ॥
औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ।तृतीयं वै रथाकारं चतुर्थं पालनं स्मृतम् ॥ १२ ॥
धृतिमत्पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरम् ।सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः ॥ १३ ॥
एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर ।विहरन्ति रमन्ते च न तेषु म्रियते जनः ॥ १४ ॥
न तेषु दस्यवः सन्ति म्लेच्छजात्योऽपि वा नृप ।गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव ॥ १५ ॥
अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर ।यथाश्रुतं महाराज तदव्यग्रमनाः शृणु ॥ १६ ॥
क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः ।क्रौञ्चात्परो वामनको वामनादन्धकारकः ॥ १७ ॥
अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः ।मैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः ॥ १८ ॥
गोविन्दात्तु परो राजन्निबिडो नाम पर्वतः ।परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन ॥ १९ ॥
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु ।क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः ॥ २० ॥
मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह ।उष्णात्परः प्रावरकः प्रावरादन्धकारकः ॥ २१ ॥
अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः ।मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः ॥ २२ ॥
सिद्धचारणसंकीर्णो गौरप्रायो जनाधिप ।एते देशा महाराज देवगन्धर्वसेविताः ॥ २३ ॥
पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान् ।तत्र नित्यं निवसति स्वयं देवः प्रजापतिः ॥ २४ ॥
तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः ।वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप ॥ २५ ॥
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत ।द्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन ॥ २६ ॥
विप्राणां ब्रह्मचर्येण सत्येन च दमेन च ।आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः ॥ २७ ॥
एको जनपदो राजन्द्वीपेष्वेतेषु भारत ।उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते ॥ २८ ॥
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः ।द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा ॥ २९ ॥
स राजा स शिवो राजन्स पिता स पितामहः ।गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः ॥ ३० ॥
भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् ।सिद्धमेव महाराज भुञ्जते तत्र नित्यदा ॥ ३१ ॥
ततः परं समा नाम दृश्यते लोकसंस्थितिः ।चतुरश्रा महाराज त्रयस्त्रिंशत्तु मण्डलम् ॥ ३२ ॥
तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः ।दिग्गजा भरतश्रेष्ठ वामनैरावतादयः ।सुप्रतीकस्तथा राजन्प्रभिन्नकरटामुखः ॥ ३३ ॥
तस्याहं परिमाणं तु न संख्यातुमिहोत्सहे ।असंख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा ॥ ३४ ॥
तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च ।असंबाधा महाराज तान्निगृह्णन्ति ते गजाः ॥ ३५ ॥
पुष्करैः पद्मसंकाशैर्वर्ष्मवद्भिर्महाप्रभैः ।ते शनैः पुनरेवाशु वायून्मुञ्चन्ति नित्यशः ॥ ३६ ॥
श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः ।आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः ॥ ३७ ॥
धृतराष्ट्र उवाच ।परो वै विस्तरोऽत्यर्थं त्वया संजय कीर्तितः ।दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि संजय ॥ ३८ ॥
संजय उवाच ।उक्ता द्वीपा महाराज ग्रहान्मे शृणु तत्त्वतः ।स्वर्भानुः कौरवश्रेष्ठ यावदेष प्रभावतः ॥ ३९ ॥
परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः ।योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै ॥ ४० ॥
परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ ।षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा ॥ ४१ ॥
चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः ।विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् ।एकोनषष्टिर्वैपुल्याच्छीतरश्मेर्महात्मनः ॥ ४२ ॥
सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन ।विष्कम्भेण ततो राजन्मण्डलं त्रिंशतं समम् ॥ ४३ ॥
अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ ।श्रूयते परमोदारः पतंगोऽसौ विभावसुः ।एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत ॥ ४४ ॥
स राहुश्छादयत्येतौ यथाकालं महत्तया ।चन्द्रादित्यौ महाराज संक्षेपोऽयमुदाहृतः ॥ ४५ ॥
इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा ।सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि ॥ ४६ ॥
यथादृष्टं मया प्रोक्तं सनिर्याणमिदं जगत् ।तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति ॥ ४७ ॥
श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् ।श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः ।आयुर्बलं च वीर्यं च तस्य तेजश्च वर्धते ॥ ४८ ॥
यः शृणोति महीपाल पर्वणीदं यतव्रतः ।प्रीयन्ते पितरस्तस्य तथैव च पितामहाः ॥ ४९ ॥
इदं तु भारतं वर्षं यत्र वर्तामहे वयम् ।पूर्वं प्रवर्तते पुण्यं तत्सर्वं श्रुतवानसि ॥ ५० ॥
« »