Click on words to see what they mean.

धृतराष्ट्र उवाच ।जम्बूखण्डस्त्वया प्रोक्तो यथावदिह संजय ।विष्कम्भमस्य प्रब्रूहि परिमाणं च तत्त्वतः ॥ १ ॥
समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शन ।शाकद्वीपं च मे ब्रूहि कुशद्वीपं च संजय ॥ २ ॥
शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च ।ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा ॥ ३ ॥
संजय उवाच ।राजन्सुबहवो द्वीपा यैरिदं संततं जगत् ।सप्त त्वहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस्तथा ॥ ४ ॥
अष्टादश सहस्राणि योजनानां विशां पते ।षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः ॥ ५ ॥
लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः ।नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ॥ ६ ॥
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः ।सिद्धचारणसंकीर्णः सागरः परिमण्डलः ॥ ७ ॥
शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव ।शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन ॥ ८ ॥
जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप ।विष्कम्भेण महाराज सागरोऽपि विभागशः ।क्षीरोदो भरतश्रेष्ठ येन संपरिवारितः ॥ ९ ॥
तत्र पुण्या जनपदा न तत्र म्रियते जनः ।कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते ॥ १० ॥
शाकद्वीपस्य संक्षेपो यथावद्भरतर्षभ ।उक्त एष महाराज किमन्यच्छ्रोतुमिच्छसि ॥ ११ ॥
धृतराष्ट्र उवाच ।शाकद्वीपस्य संक्षेपो यथावदिह संजय ।उक्तस्त्वया महाभाग विस्तरं ब्रूहि तत्त्वतः ॥ १२ ॥
संजय उवाच ।तथैव पर्वता राजन्सप्तात्र मणिभूषिताः ।रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु ।अतीवगुणवत्सर्वं तत्र पुण्यं जनाधिप ॥ १३ ॥
देवर्षिगन्धर्वयुतः परमो मेरुरुच्यते ।प्रागायतो महाराज मलयो नाम पर्वतः ।यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः ॥ १४ ॥
ततः परेण कौरव्य जलधारो महागिरिः ।यत्र नित्यमुपादत्ते वासवः परमं जलम् ।यतो वर्षं प्रभवति वर्षाकाले जनेश्वर ॥ १५ ॥
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितः ।रेवती दिवि नक्षत्रं पितामहकृतो विधिः ॥ १६ ॥
उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः ।यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर ॥ १७ ॥
धृतराष्ट्र उवाच ।सुमहान्संशयो मेऽद्य प्रोक्तं संजय यत्त्वया ।प्रजाः कथं सूतपुत्र संप्राप्ताः श्यामतामिह ॥ १८ ॥
संजय उवाच ।सर्वेष्वेव महाप्राज्ञ द्वीपेषु कुरुनन्दन ।गौरः कृष्णश्च वर्णौ द्वौ तयोर्वर्णान्तरं नृप ॥ १९ ॥
श्यामो यस्मात्प्रवृत्तो वै तत्ते वक्ष्यामि भारत ।आस्तेऽत्र भगवान्कृष्णस्तत्कान्त्या श्यामतां गतः ॥ २० ॥
ततः परं कौरवेन्द्र दुर्गशैलो महोदयः ।केसरी केसरयुतो यतो वातः प्रवायति ॥ २१ ॥
तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः ।वर्षाणि तेषु कौरव्य संप्रोक्तानि मनीषिभिः ॥ २२ ॥
महामेरुर्महाकाशो जलदः कुमुदोत्तरः ।जलधारात्परो राजन्सुकुमार इति स्मृतः ॥ २३ ॥
रैवतस्य तु कौमारः श्यामस्य तु मणीचकः ।केसरस्याथ मोदाकी परेण तु महापुमान् ॥ २४ ॥
परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च ।जम्बूद्वीपेन विख्यातस्तस्य मध्ये महाद्रुमः ॥ २५ ॥
शाको नाम महाराज तस्य द्वीपस्य मध्यगः ।तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः ॥ २६ ॥
तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च ।धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत ॥ २७ ॥
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते ।दीर्घायुषो महाराज जरामृत्युविवर्जिताः ॥ २८ ॥
प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः ।नद्यः पुण्यजलास्तत्र गङ्गा च बहुधागतिः ॥ २९ ॥
सुकुमारी कुमारी च सीता कावेरका तथा ।महानदी च कौरव्य तथा मणिजला नदी ।इक्षुवर्धनिका चैव तथा भरतसत्तम ॥ ३० ॥
ततः प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह ।सहस्राणां शतान्येव यतो वर्षति वासवः ॥ ३१ ॥
न तासां नामधेयानि परिमाणं तथैव च ।शक्यते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः ॥ ३२ ॥
तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः ।मगाश्च मशकाश्चैव मानसा मन्दगास्तथा ॥ ३३ ॥
मगा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप ।मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः ॥ ३४ ॥
मानसेषु महाराज वैश्याः कर्मोपजीविनः ।सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः ।शूद्रास्तु मन्दगे नित्यं पुरुषा धर्मशीलिनः ॥ ३५ ॥
न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः ।स्वधर्मेणैव धर्मं च ते रक्षन्ति परस्परम् ॥ ३६ ॥
एतावदेव शक्यं तु तस्मिन्द्वीपे प्रभाषितुम् ।एतावदेव श्रोतव्यं शाकद्वीपे महौजसि ॥ ३७ ॥
« »