Click on words to see what they mean.

वैशंपायन उवाच ।अथ गावल्गणिर्धीमान्समरादेत्य संजयः ।प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् ॥ १ ॥
ध्यायते धृतराष्ट्राय सहसोपेत्य दुःखितः ।आचष्ट निहतं भीष्मं भरतानाममध्यमम् ॥ २ ॥
संजयोऽहं महाराज नमस्ते भरतर्षभ ।हतो भीष्मः शांतनवो भरतानां पितामहः ॥ ३ ॥
ककुदं सर्वयोधानां धाम सर्वधनुष्मताम् ।शरतल्पगतः सोऽद्य शेते कुरुपितामहः ॥ ४ ॥
यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत् ।स शेते निहतो राजन्संख्ये भीष्मः शिखण्डिना ॥ ५ ॥
यः सर्वान्पृथिवीपालान्समवेतान्महामृधे ।जिगायैकरथेनैव काशिपुर्यां महारथः ॥ ६ ॥
जामदग्न्यं रणे राममायोध्य वसुसंभवः ।न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना ॥ ७ ॥
महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव ।समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरासमः ॥ ८ ॥
शरदंष्ट्रो धनुर्वक्त्रः खड्गजिह्वो दुरासदः ।नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः ॥ ९ ॥
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे ।प्रवेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः ॥ १० ॥
परिरक्ष्य स सेनां ते दशरात्रमनीकहा ।जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥ ११ ॥
यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः ।जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥ १२ ॥
स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः ।तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत ॥ १३ ॥
« »