Click on words to see what they mean.

संजय उवाच ।एवं ते पाण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् ।विव्यधुः समरे भीष्मं परिवार्य समन्ततः ॥ १ ॥
शतघ्नीभिः सुघोराभिः पट्टिशैः सपरश्वधैः ।मुद्गरैर्मुसलैः प्रासैः क्षेपणीभिश्च सर्वशः ॥ २ ॥
शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः ।नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च भारत ।अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः ॥ ३ ॥
स विशीर्णतनुत्राणः पीडितो बहुभिस्तदा ।विव्यथे नैव गाङ्गेयो भिद्यमानेषु मर्मसु ॥ ४ ॥
स दीप्तशरचापार्चिरस्त्रप्रसृतमारुतः ।नेमिनिर्ह्रादसंनादो महास्त्रोदयपावकः ॥ ५ ॥
चित्रचापमहाज्वालो वीरक्षयमहेन्धनः ।युगान्ताग्निसमो भीष्मः परेषां समपद्यत ॥ ६ ॥
निपत्य रथसंघानामन्तरेण विनिःसृतः ।दृश्यते स्म नरेन्द्राणां पुनर्मध्यगतश्चरन् ॥ ७ ॥
ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च ।पाण्डवानीकिनीमध्यमाससाद स वेगितः ॥ ८ ॥
ततः सात्यकिभीमौ च पाण्डवं च धनंजयम् ।द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् ॥ ९ ॥
भीमघोषैर्महावेगैर्वैरिवारणभेदिभिः ।षडेतान्षड्भिरानर्छद्भास्करप्रतिमैः शरैः ॥ १० ॥
तस्य ते निशितान्बाणान्संनिवार्य महारथाः ।दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा ॥ ११ ॥
शिखण्डी तु रणे बाणान्यान्मुमोच महाव्रते ।ते भीष्मं विविशुस्तूर्णं स्वर्णपुङ्खाः शिलाशिताः ॥ १२ ॥
ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत ।शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ॥ १३ ॥
भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः ।द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः ॥ १४ ॥
भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च ।सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः ॥ १५ ॥
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः ।अभिपेतुर्भृशं क्रुद्धाश्छादयन्त स्म पाण्डवान् ॥ १६ ॥
तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति ।उद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये ॥ १७ ॥
हतानयत गृह्णीत युध्यतापि च कृन्तत ।इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति ॥ १८ ॥
तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः ।अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ ॥ १९ ॥
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ।विराटद्रुपदौ चोभौ राक्षसश्च घटोत्कचः ॥ २० ॥
अभिमन्युश्च संक्रुद्धः सप्तैते क्रोधमूर्छिताः ।समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः ॥ २१ ॥
तेषां समभवद्युद्धं तुमुलं लोमहर्षणम् ।संग्रामे भरतश्रेष्ठ देवानां दानवैरिव ॥ २२ ॥
शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना ।अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे ।सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे ॥ २३ ॥
सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम् ।तदप्यस्य शितैर्भल्लैस्त्रिभिश्चिच्छेद फल्गुनः ॥ २४ ॥
एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः ।धनुर्भीष्मस्य चिच्छेद सव्यसाची परंतपः ॥ २५ ॥
स च्छिन्नधन्वा संक्रुद्धः सृक्किणी परिसंलिहन् ।शक्तिं जग्राह संक्रुद्धो गिरीणामपि दारणीम् ।तां च चिक्षेप संक्रुद्धः फल्गुनस्य रथं प्रति ॥ २६ ॥
तामापतन्तीं संप्रेक्ष्य ज्वलन्तीमशनीमिव ।समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः ॥ २७ ॥
तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः ।संक्रुद्धो भरतश्रेष्ठ भीष्मबाहुबलेरिताम् ॥ २८ ॥
सा पपात परिच्छिन्ना संक्रुद्धेन किरीटिना ।मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा ॥ २९ ॥
छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः ।अचिन्तयद्रणे वीरो बुद्ध्या परपुरंजयः ॥ ३० ॥
शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् ।यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः ॥ ३१ ॥
कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवैः ।अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः ॥ ३२ ॥
पित्रा तुष्टेन मे पूर्वं यदा कालीमुदावहत् ।स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा ।तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः ॥ ३३ ॥
एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः ।ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् ॥ ३४ ॥
यत्ते व्यवसितं वीर अस्माकं सुमहत्प्रियम् ।तत्कुरुष्व महेष्वास युद्धाद्बुद्धिं निवर्तय ॥ ३५ ॥
तस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः ।अनुलोमः सुगन्धी च पृषतैश्च समन्वितः ॥ ३६ ॥
देवदुन्दुभयश्चैव संप्रणेदुर्महास्वनाः ।पपात पुष्पवृष्टिश्च भीष्मस्योपरि पार्थिव ॥ ३७ ॥
न च तच्छुश्रुवे कश्चित्तेषां संवदतां नृप ।ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा ॥ ३८ ॥
संभ्रमश्च महानासीत्त्रिदशानां विशां पते ।पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा ॥ ३९ ॥
इति देवगणानां च श्रुत्वा वाक्यं महामनाः ।ततः शांतनवो भीष्मो बीभत्सुं नाभ्यवर्तत ।भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः ॥ ४० ॥
शिखण्डी तु महाराज भरतानां पितामहम् ।आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः ॥ ४१ ॥
स तेनाभिहतः संख्ये भीष्मः कुरुपितामहः ।नाकम्पत महाराज क्षितिकम्पे यथाचलः ॥ ४२ ॥
ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः ।गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समर्पयत् ॥ ४३ ॥
पुनः शरशतेनैनं त्वरमाणो धनंजयः ।सर्वगात्रेषु संक्रुद्धः सर्वमर्मस्वताडयत् ॥ ४४ ॥
एवमन्यैरपि भृशं वध्यमानो महारणे ।न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः ॥ ४५ ॥
ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत ।शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ॥ ४६ ॥
अथैनं दशभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ।सारथिं विशिखैश्चास्य दशभिः समकम्पयत् ॥ ४७ ॥
सोऽन्यत्कार्मुकमादत्त गाङ्गेयो बलवत्तरम् ।तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरुपानुदत् ।निमेषान्तरमात्रेण आत्तमात्तं महारणे ॥ ४८ ॥
एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यपि ।ततः शांतनवो भीष्मो बीभत्सुं नाभ्यवर्तत ॥ ४९ ॥
अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्दयत् ।सोऽतिविद्धो महेष्वासो दुःशासनमभाषत ॥ ५० ॥
एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः ।शरैरनेकसाहस्रैर्मामेवाभ्यसते रणे ॥ ५१ ॥
न चैष शक्यः समरे जेतुं वज्रभृता अपि ।न चापि सहिता वीरा देवदानवराक्षसाः ।मां चैव शक्ता निर्जेतुं किमु मर्त्याः सुदुर्बलाः ॥ ५२ ॥
एवं तयोः संवदतोः फल्गुनो निशितैः शरैः ।शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे ॥ ५३ ॥
ततो दुःशासनं भूयः स्मयमानोऽभ्यभाषत ।अतिविद्धः शितैर्बाणैर्भृशं गाण्डीवधन्वना ॥ ५४ ॥
वज्राशनिसमस्पर्शाः शिताग्राः संप्रवेशिताः ।विमुक्ता अव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः ॥ ५५ ॥
निकृन्तमाना मर्माणि दृढावरणभेदिनः ।मुसलानीव मे घ्नन्ति नेमे बाणाः शिखण्डिनः ॥ ५६ ॥
ब्रह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः ।मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः ॥ ५७ ॥
भुजगा इव संक्रुद्धा लेलिहाना विषोल्बणाः ।ममाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः ॥ ५८ ॥
नाशयन्तीव मे प्राणान्यमदूता इवाहिताः ।गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः ॥ ५९ ॥
कृन्तन्ति मम गात्राणि माघमासे गवामिव ।अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः ॥ ६० ॥
सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाः ।वीरं गण्डीवधन्वानमृते जिष्णुं कपिध्वजम् ॥ ६१ ॥
इति ब्रुवञ्शांतनवो दिधक्षुरिव पाण्डवम् ।सविष्फुलिङ्गां दीप्ताग्रां शक्तिं चिक्षेप भारत ॥ ६२ ॥
तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत् ।पश्यतां कुरुवीराणां सर्वेषां तत्र भारत ॥ ६३ ॥
चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् ।खड्गं चान्यतरं प्रेप्सुर्मृत्योरग्रे जयाय वा ॥ ६४ ॥
तस्य तच्छतधा चर्म व्यधमद्दंशितात्मनः ।रथादनवरूढस्य तदद्भुतमिवाभवत् ॥ ६५ ॥
विनद्योच्चैः सिंह इव स्वान्यनीकान्यचोदयत् ।अभिद्रवत गाङ्गेयं मा वोऽस्तु भयमण्वपि ॥ ६६ ॥
अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः ।पट्टिशैश्च सनिस्त्रिंशैर्नानाप्रहरणैस्तथा ॥ ६७ ॥
वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः ।सिंहनादस्ततो घोरः पाण्डवानामजायत ॥ ६८ ॥
तथैव तव पुत्राश्च राजन्भीष्मजयैषिणः ।तमेकमभ्यवर्तन्त सिंहनादांश्च नेदिरे ॥ ६९ ॥
तत्रासीत्तुमुलं युद्धं तावकानां परैः सह ।दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे ॥ ७० ॥
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव ।सैन्यानां युध्यमानानां निघ्नतामितरेतरम् ॥ ७१ ॥
अगम्यरूपा पृथिवी शोणिताक्ता तदाभवत् ।समं च विषमं चैव न प्राज्ञायत किंचन ॥ ७२ ॥
योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि ।अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु ॥ ७३ ॥
ततः सेनामुखे तस्मिन्स्थितः पार्थो धनंजयः ।मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् ॥ ७४ ॥
वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनंजयात् ।पीड्यमानाः शितैः शस्त्रैः प्रद्रवाम महारणात् ॥ ७५ ॥
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः ।अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ ७६ ॥
शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह ।द्वादशैते जनपदाः शरार्ता व्रणपीडिताः ।संग्रामे न जहुर्भीष्मं युध्यमानं किरीटिना ॥ ७७ ॥
ततस्तमेकं बहवः परिवार्य समन्ततः ।परिकाल्य कुरून्सर्वाञ्शरवर्षैरवाकिरन् ॥ ७८ ॥
निपातयत गृह्णीत विध्यताथ च कर्षत ।इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति ॥ ७९ ॥
अभिहत्य शरौघैस्तं शतशोऽथ सहस्रशः ।न तस्यासीदनिर्भिन्नं गात्रेष्वङ्गुलमात्रकम् ॥ ८० ॥
एवं विभो तव पिता शरैर्विशकलीकृतः ।शिताग्रैः फल्गुनेनाजौ प्राक्शिराः प्रापतद्रथात् ।किंचिच्छेषे दिनकरे पुत्राणां तव पश्यताम् ॥ ८१ ॥
हा हेति दिवि देवानां पार्थिवानां च सर्वशः ।पतमाने रथाद्भीष्मे बभूव सुमहान्स्वनः ॥ ८२ ॥
तं पतन्तमभिप्रेक्ष्य महात्मानं पितामहम् ।सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः ॥ ८३ ॥
स पपात महाबाहुर्वसुधामनुनादयन् ।इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् ।धरणीं नास्पृशच्चापि शरसंघैः समाचितः ॥ ८४ ॥
शरतल्पे महेष्वासं शयानं पुरुषर्षभम् ।रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् ॥ ८५ ॥
अभ्यवर्षत पर्जन्यः प्राकम्पत च मेदिनी ।पतन्स ददृशे चापि खर्वितं च दिवाकरम् ॥ ८६ ॥
संज्ञां चैवालभद्वीरः कालं संचिन्त्य भारत ।अन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः ॥ ८७ ॥
कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः ।कालं कर्ता नरव्याघ्रः संप्राप्ते दक्षिणायने ॥ ८८ ॥
स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत् ।धारयामास च प्राणान्पतितोऽपि हि भूतले ।उत्तरायणमन्विच्छन्भीष्मः कुरुपितामहः ॥ ८९ ॥
तस्य तन्मतमाज्ञाय गङ्गा हिमवतः सुता ।महर्षीन्हंसरूपेण प्रेषयामास तत्र वै ॥ ९० ॥
ततः संपातिनो हंसास्त्वरिता मानसौकसः ।आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् ।यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः ॥ ९१ ॥
ते तु भीष्मं समासाद्य मुनयो हंसरूपिणः ।अपश्यञ्शरतल्पस्थं भीष्मं कुरुपितामहम् ॥ ९२ ॥
ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम् ।गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् ॥ ९३ ॥
इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः ।भीष्म एव महात्मा सन्संस्थाता दक्षिणायने ॥ ९४ ॥
इत्युक्त्वा प्रस्थितान्हंसान्दक्षिणामभितो दिशम् ।संप्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत ॥ ९५ ॥
तानब्रवीच्छांतनवो नाहं गन्ता कथंचन ।दक्षिणावृत्त आदित्ये एतन्मे मनसि स्थितम् ॥ ९६ ॥
गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् ।उदगावृत्त आदित्ये हंसाः सत्यं ब्रवीमि वः ॥ ९७ ॥
धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया ।ऐश्वर्यभूतः प्राणानामुत्सर्गे नियतो ह्यहम् ।तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने ॥ ९८ ॥
यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना ।छन्दतो मृत्युरित्येवं तस्य चास्तु वरस्तथा ॥ ९९ ॥
धारयिष्ये ततः प्राणानुत्सर्गे नियते सति ।इत्युक्त्वा तांस्तदा हंसानशेत शरतल्पगः ॥ १०० ॥
एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि ।पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ॥ १०१ ॥
तस्मिन्हते महासत्त्वे भरतानाममध्यमे ।न किंचित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ ।संमोहश्चैव तुमुलः कुरूणामभवत्तदा ॥ १०२ ॥
नृपा दुर्योधनमुखा निःश्वस्य रुरुदुस्ततः ।विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः ॥ १०३ ॥
दध्युश्चैव महाराज न युद्धे दधिरे मनः ।ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् ॥ १०४ ॥
अवध्ये शंतनोः पुत्रे हते भीष्मे महौजसि ।अभावः सुमहान्राजन्कुरूनागादतन्द्रितः ॥ १०५ ॥
हतप्रवीराश्च वयं निकृत्ताश्च शितैः शरैः ।कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना ॥ १०६ ॥
पाण्डवास्तु जयं लब्ध्वा परत्र च परां गतिम् ।सर्वे दध्मुर्महाशङ्खाञ्शूराः परिघबाहवः ।सोमकाश्च सपञ्चालाः प्राहृष्यन्त जनेश्वर ॥ १०७ ॥
ततस्तूर्यसहस्रेषु नदत्सु सुमहाबलः ।आस्फोटयामास भृशं भीमसेनो ननर्त च ॥ १०८ ॥
सेनयोरुभयोश्चापि गाङ्गेये विनिपातिते ।संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः ॥ १०९ ॥
प्राक्रोशन्प्रापतंश्चान्ये जग्मुर्मोहं तथापरे ।क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चैकेऽभ्यपूजयन् ॥ ११० ॥
ऋषयः पितरश्चैव प्रशशंसुर्महाव्रतम् ।भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे ॥ १११ ॥
महोपनिषदं चैव योगमास्थाय वीर्यवान् ।जपञ्शांतनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् ॥ ११२ ॥
« »