Click on words to see what they mean.

धृतराष्ट्र उवाच ।कथमासंस्तदा योधा हीना भीष्मेण संजय ।बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ॥ १ ॥
तदैव निहतान्मन्ये कुरूनन्यांश्च पार्थिवान् ।न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजे ॥ २ ॥
ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति ।यदद्य पितरं श्रुत्वा निहतं मम दुर्मतेः ॥ ३ ॥
अश्मसारमयं नूनं हृदयं मम संजय ।श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते ॥ ४ ॥
पुनः पुनर्न मृष्यामि हतं देवव्रतं रणे ।न हतो जामदग्न्येन दिव्यैरस्त्रैः स्म यः पुरा ॥ ५ ॥
यदद्य निहतेनाजौ भीष्मेण जयमिच्छता ।चेष्टितं नरसिंहेन तन्मे कथय संजय ॥ ६ ॥
संजय उवाच ।सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन् ।पाञ्चालानां ददद्धर्षं कुरुवृद्धः पितामहः ॥ ७ ॥
स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा ।भीष्मो रथात्प्रपतितः प्रच्युतो धरणीतले ॥ ८ ॥
हा हेति तुमुलः शब्दो भूतानां समपद्यत ।सीमावृक्षे निपतिते कुरूणां समितिक्षये ॥ ९ ॥
उभयोः सेनयो राजन्क्षत्रियान्भयमाविशत् ।भीष्मं शंतनवं दृष्ट्वा विशीर्णकवचध्वजम् ।कुरवः पर्यवर्तन्त पाण्डवाश्च विशां पते ॥ १० ॥
खं तमोवृतमासीच्च नासीद्भानुमतः प्रभा ।ररास पृथिवी चैव भीष्मे शांतनवे हते ॥ ११ ॥
अयं ब्रह्मविदां श्रेष्ठो अयं ब्रह्मविदां गतिः ।इत्यभाषन्त भूतानि शयानं भरतर्षभम् ॥ १२ ॥
अयं पितरमाज्ञाय कामार्तं शंतनुं पुरा ।ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः ॥ १३ ॥
इति स्म शरतल्पस्थं भरतानाममध्यमम् ।ऋषयः पर्यधावन्त सहिताः सिद्धचारणैः ॥ १४ ॥
हते शांतनवे भीष्मे भरतानां पितामहे ।न किंचित्प्रत्यपद्यन्त पुत्रास्तव च भारत ॥ १५ ॥
विवर्णवदनाश्चासन्गतश्रीकाश्च भारत ।अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः ॥ १६ ॥
पाण्डवाश्च जयं लब्ध्वा संग्रामशिरसि स्थिताः ।सर्वे दध्मुर्महाशङ्खान्हेमजालपरिष्कृतान् ॥ १७ ॥
भृशं तूर्यनिनादेषु वाद्यमानेषु चानघ ।अपश्याम रणे राजन्भीमसेनं महाबलम् ।आक्रीडमानं कौन्तेयं हर्षेण महता युतम् ॥ १८ ॥
निहत्य समरे शत्रून्महाबलसमन्वितान् ।संमोहश्चापि तुमुलः कुरूणामभवत्तदा ॥ १९ ॥
कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः ।तथा निपतिते भीष्मे कौरवाणां धुरंधरे ।हाहाकारमभूत्सर्वं निर्मर्यादमवर्तत ॥ २० ॥
दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव ।उत्तमं जवमास्थाय द्रोणानीकं समाद्रवत् ॥ २१ ॥
भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः ।प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिचोदयन् ॥ २२ ॥
तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन् ।दुःशासनं महाराज किमयं वक्ष्यतीति वै ॥ २३ ॥
ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः ।द्रोणस्तदप्रियं श्रुत्वा सहसा न्यपतद्रथात् ॥ २४ ॥
स संज्ञामुपलभ्याथ भारद्वाजः प्रतापवान् ।निवारयामास तदा स्वान्यनीकानि मारिष ॥ २५ ॥
विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान् ।दूतैः शीघ्राश्वसंयुक्तैरवहारमकारयन् ॥ २६ ॥
विनिवृत्तेषु सैन्येषु पारंपर्येण सर्वशः ।विमुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः ॥ २७ ॥
व्युपारम्य ततो युद्धाद्योधाः शतसहस्रशः ।उपतस्थुर्महात्मानं प्रजापतिमिवामराः ॥ २८ ॥
ते तु भीष्मं समासाद्य शयानं भरतर्षभम् ।अभिवाद्य व्यतिष्ठन्त पाण्डवाः कुरुभिः सह ॥ २९ ॥
अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान् ।अभ्यभाषत धर्मात्मा भीष्मः शांतनवस्तदा ॥ ३० ॥
स्वागतं वो महाभागाः स्वागतं वो महारथाः ।तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः ॥ ३१ ॥
अभिनन्द्य स तानेवं शिरसा लम्बताब्रवीत् ।शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम् ॥ ३२ ॥
ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च ।उपधानानि मुख्यानि नैच्छत्तानि पितामहः ॥ ३३ ॥
अब्रवीच्च नरव्याघ्रः प्रहसन्निव तान्नृपान् ।नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः ॥ ३४ ॥
ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम् ।धनंजयं दीर्घबाहुं सर्वलोकमहारथम् ॥ ३५ ॥
धनंजय महाबाहो शिरसो मेऽस्य लम्बतः ।दीयतामुपधानं वै यद्युक्तमिह मन्यसे ॥ ३६ ॥
स संन्यस्य महच्चापमभिवाद्य पितामहम् ।नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ ३७ ॥
आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर ।प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह ॥ ३८ ॥
तमब्रवीच्छांतनवः शिरो मे तात लम्बते ।उपधानं कुरुश्रेष्ठ फल्गुनोपनयस्व मे ।शयनस्यानुरूपं हि शीघ्रं वीर प्रयच्छ मे ॥ ३९ ॥
त्वं हि पार्थ महाबाहो श्रेष्ठः सर्वधनुष्मताम् ।क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः ॥ ४० ॥
फल्गुनस्तु तथेत्युक्त्वा व्यवसायपुरोजवः ।प्रगृह्यामन्त्र्य गाण्डीवं शरांश्च नतपर्वणः ॥ ४१ ॥
अनुमान्य महात्मानं भरतानाममध्यमम् ।त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः ॥ ४२ ॥
अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना ।अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् ॥ ४३ ॥
उपधानेन दत्तेन प्रत्यनन्दद्धनंजयम् ।कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् ॥ ४४ ॥
अनुरूपं शयानस्य पाण्डवोपहितं त्वया ।यद्यन्यथा प्रवर्तेथाः शपेयं त्वामहं रुषा ॥ ४५ ॥
एवमेतन्महाबाहो धर्मेषु परिनिष्ठितम् ।स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै ॥ ४६ ॥
एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः ।राज्ञश्च राजपुत्रांश्च पाण्डवेनाभि संस्थितान् ॥ ४७ ॥
शयेयमस्यां शय्यायां यावदावर्तनं रवेः ।ये तदा पारयिष्यन्ति ते मां द्रक्ष्यन्ति वै नृपाः ॥ ४८ ॥
दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः ।अर्चिष्मान्प्रतपँल्लोकान्रथेनोत्तमतेजसा ।विमोक्ष्येऽहं तदा प्राणान्सुहृदः सुप्रियानपि ॥ ४९ ॥
परिखा खन्यतामत्र ममावसदने नृपाः ।उपासिष्ये विवस्वन्तमेवं शरशताचितः ।उपारमध्वं संग्रामाद्वैराण्युत्सृज्य पार्थिवाः ॥ ५० ॥
उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः ।सर्वोपकरणैर्युक्ताः कुशलास्ते सुशिक्षिताः ॥ ५१ ॥
तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच वचनं तदा ।दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः ॥ ५२ ॥
एवंगते न हीदानीं वैद्यैः कार्यमिहास्ति मे ।क्षत्रधर्मप्रशस्तां हि प्राप्तोऽस्मि परमां गतिम् ॥ ५३ ॥
नैष धर्मो महीपालाः शरतल्पगतस्य मे ।एतैरेव शरैश्चाहं दग्धव्योऽन्ते नराधिपाः ॥ ५४ ॥
तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव ।वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः ॥ ५५ ॥
ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः ।स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः ॥ ५६ ॥
उपधानं ततो दत्त्वा पितुस्तव जनेश्वर ।सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः ॥ ५७ ॥
उपगम्य महात्मानं शयानं शयने शुभे ।तेऽभिवाद्य ततो भीष्मं कृत्वा चाभिप्रदक्षिणम् ॥ ५८ ॥
विधाय रक्षां भीष्मस्य सर्व एव समन्ततः ।वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः ।निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः ॥ ५९ ॥
निविष्टान्पाण्डवांश्चापि प्रीयमाणान्महारथान् ।भीष्मस्य पतनाद्धृष्टानुपगम्य महारथान् ।उवाच यादवः काले धर्मपुत्रं युधिष्ठिरम् ॥ ६० ॥
दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः ।अवध्यो मानुषैरेष सत्यसंधो महारथः ॥ ६१ ॥
अथ वा दैवतैः पार्थ सर्वशस्त्रास्त्रपारगः ।त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा ॥ ६२ ॥
एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम् ।तव प्रसादाद्विजयः क्रोधात्तव पराजयः ।त्वं हि नः शरणं कृष्ण भक्तानामभयंकरः ॥ ६३ ॥
अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव ।रक्षिता समरे नित्यं नित्यं चापि हिते रतः ।सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः ॥ ६४ ॥
एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः ।त्वय्येवैतद्युक्तरूपं वचनं पार्थिवोत्तम ॥ ६५ ॥
« »