Click on words to see what they mean.

संजय उवाच ।एवं व्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु ।ब्रह्मलोकपराः सर्वे समपद्यन्त भारत ॥ १ ॥
न ह्यनीकमनीकेन समसज्जत संकुले ।न रथा रथिभिः सार्धं न पदाताः पदातिभिः ॥ २ ॥
अश्वा नाश्वैरयुध्यन्त न गजा गजयोधिभिः ।महान्व्यतिकरो रौद्रः सेनयोः समपद्यत ॥ ३ ॥
नरनागरथेष्वेवं व्यवकीर्णेषु सर्वशः ।क्षये तस्मिन्महारौद्रे निर्विशेषमजायत ॥ ४ ॥
ततः शल्यः कृपश्चैव चित्रसेनश्च भारत ।दुःशासनो विकर्णश्च रथानास्थाय सत्वराः ।पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् ॥ ५ ॥
सा वध्यमाना समरे पाण्डुसेना महात्मभिः ।त्रातारं नाध्यगच्छद्वै मज्जमानेव नौर्जले ॥ ६ ॥
यथा हि शैशिरः कालो गवां मर्माणि कृन्तति ।तथा पाण्डुसुतानां वै भीष्मो मर्माण्यकृन्तत ॥ ७ ॥
अतीव तव सैन्यस्य पार्थेन च महात्मना ।नगमेघप्रतीकाशाः पातिता बहुधा गजाः ॥ ८ ॥
मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः ।इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः ॥ ९ ॥
पेतुरार्तस्वरं कृत्वा तत्र तत्र महागजाः ।आबद्धाभरणैः कायैर्निहतानां महात्मनाम् ॥ १० ॥
छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः ।तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये ।भीष्मे च युधि विक्रान्ते पाण्डवे च धनंजये ॥ ११ ॥
ते पराक्रान्तमालोक्य राजन्युधि पितामहम् ।न न्यवर्तन्त कौरव्या ब्रह्मलोकपुरस्कृताः ॥ १२ ॥
इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम् ।पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षये ॥ १३ ॥
पाण्डवापि महाराज स्मरन्तो विविधान्बहून् ।क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप ॥ १४ ॥
भयं त्यक्त्वा रणे शूरा ब्रह्मलोकपुरस्कृताः ।तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत् ॥ १५ ॥
सेनापतिस्तु समरे प्राह सेनां महारथः ।अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह ॥ १६ ॥
सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः ।अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः ॥ १७ ॥
वध्यमानस्ततो राजन्पिता शांतनवस्तव ।अमर्षवशमापन्नो योधयामास सृञ्जयान् ॥ १८ ॥
तस्य कीर्तिमतस्तात पुरा रामेण धीमता ।संप्रदत्तास्त्रशिक्षा वै परानीकविनाशिनी ॥ १९ ॥
स तां शिक्षामधिष्ठाय कृत्वा परबलक्षयम् ।अहन्यहनि पार्थानां वृद्धः कुरुपितामहः ।भीष्मो दश सहस्राणि जघान परवीरहा ॥ २० ॥
तस्मिंस्तु दिवसे प्राप्ते दशमे भरतर्षभ ।भीष्मेणैकेन मत्स्येषु पाञ्चालेषु च संयुगे ।गजाश्वममितं हत्वा हताः सप्त महारथाः ॥ २१ ॥
हत्वा पञ्च सहस्राणि रथिनां प्रपितामहः ।नराणां च महायुद्धे सहस्राणि चतुर्दश ॥ २२ ॥
तथा दन्तिसहस्रं च हयानामयुतं पुनः ।शिक्षाबलेन निहतं पित्रा तव विशां पते ॥ २३ ॥
ततः सर्वमहीपानां क्षोभयित्वा वरूथिनीम् ।विराटस्य प्रियो भ्राता शतानीको निपातितः ॥ २४ ॥
शतानीकं च समरे हत्वा भीष्मः प्रतापवान् ।सहस्राणि महाराज राज्ञां भल्लैर्न्यपातयत् ॥ २५ ॥
ये च केचन पार्थानामभियाता धनंजयम् ।राजानो भीष्ममासाद्य गतास्ते यमसादनम् ॥ २६ ॥
एवं दश दिशो भीष्मः शरजालैः समन्ततः ।अतीत्य सेनां पार्थानामवतस्थे चमूमुखे ॥ २७ ॥
स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि ।सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः ॥ २८ ॥
न चैनं पार्थिवा राजञ्शेकुः केचिन्निरीक्षितुम् ।मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि ॥ २९ ॥
यथा दैत्यचमूं शक्रस्तापयामास संयुगे ।तथा भीष्मः पाण्डवेयांस्तापयामास भारत ॥ ३० ॥
तथा च तं पराक्रान्तमालोक्य मधुसूदनः ।उवाच देवकीपुत्रः प्रीयमाणो धनंजयम् ॥ ३१ ॥
एष शांतनवो भीष्मः सेनयोरन्तरे स्थितः ।नानिहत्य बलादेनं विजयस्ते भविष्यति ॥ ३२ ॥
यत्तः संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः ।न हि भीष्मशरानन्यः सोढुमुत्सहते विभो ॥ ३३ ॥
ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः ।सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः ॥ ३४ ॥
स चापि कुरुमुख्यानामृषभः पाण्डवेरितान् ।शरव्रातैः शरव्रातान्बहुधा विदुधाव तान् ॥ ३५ ॥
तेन पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान् ।पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ ३६ ॥
यमौ च चेकितानश्च केकयाः पञ्च चैव ह ।सात्यकिश्च महाराज सौभद्रोऽथ घटोत्कचः ॥ ३७ ॥
द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् ।सुशर्मा च विराटश्च पाण्डवेया महाबलाः ॥ ३८ ॥
एते चान्ये च बहवः पीडिता भीष्मसायकैः ।समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे ॥ ३९ ॥
ततः शिखण्डी वेगेन प्रगृह्य परमायुधम् ।भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना ॥ ४० ॥
ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित् ।भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः ॥ ४१ ॥
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः ।विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ ।दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना ॥ ४२ ॥
अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः ।दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः ॥ ४३ ॥
ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः ।बहुधा भीष्ममानर्छन्मार्गणैः कृतमार्गणाः ॥ ४४ ॥
विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः ।पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् ।कृत्वा शरविघातं च क्रीडन्निव पितामहः ॥ ४५ ॥
नाभिसंधत्त पाञ्चाल्यं स्मयमानो मुहुर्मुहुः ।स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिनः ।जघान द्रुपदानीके रथान्सप्त महारथः ॥ ४६ ॥
ततः किलकिलाशब्दः क्षणेन समपद्यत ।मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम् ॥ ४७ ॥
ते वराश्वरथव्रातैर्वारणैः सपदातिभिः ।तमेकं छादयामासुर्मेघा इव दिवाकरम् ।भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून् ॥ ४८ ॥
ततस्तस्य च तेषां च युद्धे देवासुरोपमे ।किरीटी भीष्ममानर्छत्पुरस्कृत्य शिखण्डिनम् ॥ ४९ ॥
« »