Click on words to see what they mean.

संजय उवाच ।अभिमन्युर्महाराज तव पुत्रमयोधयत् ।महत्या सेनया युक्तो भीष्महेतोः पराक्रमी ॥ १ ॥
दुर्योधनो रणे कार्ष्णिं नवभिर्नतपर्वभिः ।आजघान रणे क्रुद्धः पुनश्चैनं त्रिभिः शरैः ॥ २ ॥
तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्घोरामिव स्वसाम् ।प्रेषयामास संक्रुद्धो दुर्योधनरथं प्रति ॥ ३ ॥
तामापतन्तीं सहसा घोररूपां विशां पते ।द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः ॥ ४ ॥
तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः ।दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ ५ ॥
पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे ।दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् ॥ ६ ॥
तद्युद्धमभवद्घोरं चित्ररूपं च भारत ।ईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम् ॥ ७ ॥
भीष्मस्य निधनार्थाय पार्थस्य विजयाय च ।युयुधाते रणे वीरौ सौभद्रकुरुपुंगवौ ॥ ८ ॥
सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुंगवः ।आजघानोरसि क्रुद्धो नाराचेन परंतपः ॥ ९ ॥
शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत ।अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः ॥ १० ॥
अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः ।त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् ॥ ११ ॥
सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्वतः ।द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः ॥ १२ ॥
पौरवो धृष्टकेतुं च शरैरासाद्य संयुगे ।बहुधा दारयां चक्रे महेष्वासं महारथम् ॥ १३ ॥
तथैव पौरवं युद्धे धृष्टकेतुर्महारथः ।त्रिंशता निशितैर्बाणैर्विव्याध सुमहाबलः ॥ १४ ॥
पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः ।ननाद बलवन्नादं विव्याध दशभिः शरैः ॥ १५ ॥
सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः ।आजघान महाराज त्रिसप्तत्या शिलीमुखैः ॥ १६ ॥
तौ तु तत्र महेष्वासौ महामात्रौ महारथौ ।महता शरवर्षेण परस्परमवर्षताम् ॥ १७ ॥
अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत ।विरथावसियुद्धाय संगतौ तौ महारथौ ॥ १८ ॥
आर्षभे चर्मणी चित्रे शतचन्द्रपरिष्कृते ।तारकाशतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ ॥ १९ ॥
प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ ।वाशितासंगमे यत्तौ सिंहाविव महावने ॥ २० ॥
मण्डलानि विचित्राणि गतप्रत्यागतानि च ।चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् ॥ २१ ॥
पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना ।ताडयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ २२ ॥
चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् ।आजघान शिताग्रेण जत्रुदेशे महासिना ॥ २३ ॥
तावन्योन्यं महाराज समासाद्य महाहवे ।अन्योन्यवेगाभिहतौ निपेततुररिंदमौ ॥ २४ ॥
ततः स्वरथमारोप्य पौरवं तनयस्तव ।जयत्सेनो रथे राजन्नपोवाह रणाजिरात् ॥ २५ ॥
धृष्टकेतुं च समरे माद्रीपुत्रः परंतपः ।अपोवाह रणे राजन्सहदेवः प्रतापवान् ॥ २६ ॥
चित्रसेनः सुशर्माणं विद्ध्वा नवभिराशुगैः ।पुनर्विव्याध तं षष्ट्या पुनश्च नवभिः शरैः ॥ २७ ॥
सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशां पते ।दशभिर्दशभिश्चैव विव्याध निशितैः शरैः ॥ २८ ॥
चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वणाम् ।आजघान रणे क्रुद्धः स च तं प्रत्यविध्यत ।भीष्मस्य समरे राजन्यशो मानं च वर्धयन् ॥ २९ ॥
सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् ।आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः ।पुनर्विव्याध विंशत्या शरैः संनतपर्वभिः ॥ ३० ॥
बृहद्बलं च सौभद्रो विद्ध्वा नवभिरायसैः ।नाकम्पयत संग्रामे विव्याध च पुनः पुनः ॥ ३१ ॥
कौसल्यस्य पुनश्चापि धनुश्चिच्छेद फाल्गुणिः ।आजघान शरैश्चैव त्रिंशता कङ्कपत्रिभिः ॥ ३२ ॥
सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः ।फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः ॥ ३३ ॥
तयोर्युद्धं समभवद्भीष्महेतोः परंतप ।संरब्धयोर्महाराज समरे चित्रयोधिनोः ।यथा देवासुरे युद्धे मयवासवयोरभूत् ॥ ३४ ॥
भीमसेनो गजानीकं योधयन्बह्वशोभत ।यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् ॥ ३५ ॥
ते वध्यमाना भीमेन मातङ्गा गिरिसंनिभाः ।निपेतुरुर्व्यां सहिता नादयन्तो वसुंधराम् ॥ ३६ ॥
गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः ।विरेजुर्वसुधां प्राप्य विकीर्णा इव पर्वताः ॥ ३७ ॥
युधिष्ठिरो महेष्वासो मद्रराजानमाहवे ।महत्या सेनया गुप्तं पीडयामास संगतः ॥ ३८ ॥
मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् ।पीडयामास संरब्धो भीष्महेतोः पराक्रमी ॥ ३९ ॥
विराटं सैन्धवो राजा विद्ध्वा संनतपर्वभिः ।नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरर्दयत् ॥ ४० ॥
विराटश्च महाराज सैन्धवं वाहिनीमुखे ।त्रिंशता निशितैर्बाणैराजघान स्तनान्तरे ॥ ४१ ॥
चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ ।रेजतुश्चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ ॥ ४२ ॥
द्रोणः पाञ्चालपुत्रेण समागम्य महारणे ।महासमुदयं चक्रे शरैः संनतपर्वभिः ॥ ४३ ॥
ततो द्रोणो महाराज पार्षतस्य महद्धनुः ।छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत ॥ ४४ ॥
सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा ।द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् ॥ ४५ ॥
ताञ्शराञ्शरसंघैस्तु संनिवार्य महारथः ।द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् ॥ ४६ ॥
तस्य क्रुद्धो महाराज पार्षतः परवीरहा ।द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे ॥ ४७ ॥
तामापतन्तीं सहसा हेमपट्टविभूषिताम् ।शरैः पञ्चाशता द्रोणो वारयामास संयुगे ॥ ४८ ॥
सा छिन्ना बहुधा राजन्द्रोणचापच्युतैः शरैः ।चूर्णीकृता विशीर्यन्ती पपात वसुधातले ॥ ४९ ॥
गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनः ।द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् ॥ ५० ॥
तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत ।पार्षतं च महेष्वासं पीडयामास संयुगे ॥ ५१ ॥
एवमेतन्महद्युद्धं द्रोणपार्षतयोरभूत् ।भीष्मं प्रति महाराज घोररूपं भयानकम् ॥ ५२ ॥
अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः ।अभ्यद्रवत संयत्तं वने मत्तमिव द्विपम् ॥ ५३ ॥
प्रत्युद्ययौ च तं पार्थं भगदत्तः प्रतापवान् ।त्रिधा भिन्नेन नागेन मदान्धेन महाबलः ॥ ५४ ॥
तमापतन्तं सहसा महेन्द्रगजसंनिभम् ।परं यत्नं समास्थाय बीभत्सुः प्रत्यपद्यत ॥ ५५ ॥
ततो गजगतो राजा भगदत्तः प्रतापवान् ।अर्जुनं शरवर्षेण वारयामास संयुगे ॥ ५६ ॥
अर्जुनस्तु रणे नागमायान्तं रजतोपमम् ।विमलैरायसैस्तीक्ष्णैरविध्यत महारणे ॥ ५७ ॥
शिखण्डिनं च कौन्तेयो याहि याहीत्यचोदयत् ।भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् ॥ ५८ ॥
प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज ।प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति ॥ ५९ ॥
ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम् ।शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत ॥ ६० ॥
ततस्ते तावकाः शूराः पाण्डवं रभसं रणे ।सर्वेऽभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् ॥ ६१ ॥
नानाविधान्यनीकानि पुत्राणां ते जनाधिप ।अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥ ६२ ॥
शिखण्डी तु समासाद्य भरतानां पितामहम् ।इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् ॥ ६३ ॥
सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान् ।न्यवारयत सैन्यं च पाण्डवानां महारथः ॥ ६४ ॥
रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः ।शरसंघमहाज्वालः क्षत्रियान्समरेऽदहत् ॥ ६५ ॥
यथा हि सुमहानग्निः कक्षे चरति सानिलः ।तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् ॥ ६६ ॥
सुवर्णपुङ्खैरिषुभिः शितैः संनतपर्वभिः ।नादयन्स दिशो भीष्मः प्रदिशश्च महायशाः ॥ ६७ ॥
पातयन्रथिनो राजन्गजांश्च सह सादिभिः ।मुण्डतालवनानीव चकार स रथव्रजान् ॥ ६८ ॥
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे ।चकार स तदा भीष्मः सर्वशस्त्रभृतां वरः ॥ ६९ ॥
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः ॥ ७० ॥
अमोघा ह्यपतन्बाणाः पितुस्ते मनुजेश्वर ।नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः ॥ ७१ ॥
निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैः ।वातायमानान्पश्याम ह्रियमाणान्विशां पते ॥ ७२ ॥
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश ।महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥ ७३ ॥
अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः ।संग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः ।जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम् ॥ ७४ ॥
न तत्रासीन्महाराज सोमकानां महारथः ।यः संप्राप्य रणे भीष्मं जीविते स्म मनो दधे ॥ ७५ ॥
तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति ।नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् ॥ ७६ ॥
न कश्चिदेनं समरे प्रत्युद्याति महारथः ।ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् ।शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् ॥ ७७ ॥
शिखण्डी तु रणे भीष्ममासाद्य भरतर्षभ ।दशभिर्दशभिर्बाणैराजघान महाहवे ॥ ७८ ॥
शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा ।अवैक्षत कटाक्षेण निर्दहन्निव भारत ॥ ७९ ॥
स्त्रीत्वं तत्संस्मरन्राजन्सर्वलोकस्य पश्यतः ।न जघान रणे भीष्मः स च तं नावबुद्धवान् ॥ ८० ॥
अर्जुनस्तु महाराज शिखण्डिनमभाषत ।अभित्वरस्व त्वरितो जहि चैनं पितामहम् ॥ ८१ ॥
किं ते विवक्षया वीर जहि भीष्मं महारथम् ।न ह्यन्यमनुपश्यामि कंचिद्यौधिष्ठिरे बले ॥ ८२ ॥
यः शक्तः समरे भीष्मं योधयेत पितामहम् ।ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते ॥ ८३ ॥
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ ।शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत् ॥ ८४ ॥
अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव ।अर्जुनं समरे क्रुद्धं वारयामास सायकैः ॥ ८५ ॥
तथैव च चमूं सर्वां पाण्डवानां महारथः ।अप्रैषीत्समरे तीक्ष्णैः परलोकाय मारिष ॥ ८६ ॥
तथैव पाण्डवा राजन्सैन्येन महता वृताः ।भीष्मं प्रच्छादयामासुर्मेघा इव दिवाकरम् ॥ ८७ ॥
स समन्तात्परिवृतो भारतो भरतर्षभ ।निर्ददाह रणे शूरान्वनं वह्निरिव ज्वलन् ॥ ८८ ॥
तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् ।अयोधयत यत्पार्थं जुगोप च यतव्रतम् ॥ ८९ ॥
कर्मणा तेन समरे तव पुत्रस्य धन्विनः ।दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः ॥ ९० ॥
यदेकः समरे पार्थान्सानुगान्समयोधयत् ।न चैनं पाण्डवा युद्धे वारयामासुरुल्बणम् ॥ ९१ ॥
दुःशासनेन समरे रथिनो विरथीकृताः ।सादिनश्च महाराज दन्तिनश्च महाबलाः ॥ ९२ ॥
विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्धरणीतले ।शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः ॥ ९३ ॥
यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणः ।तथा जज्वाल पुत्रस्ते पाण्डवान्वै विनिर्दहन् ॥ ९४ ॥
तं भारतमहामात्रं पाण्डवानां महारथः ।जेतुं नोत्सहते कश्चिन्नाप्युद्यातुं कथंचन ।ऋते महेन्द्रतनयं श्वेताश्वं कृष्णसारथिम् ॥ ९५ ॥
स हि तं समरे राजन्विजित्य विजयोऽर्जुनः ।भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः ॥ ९६ ॥
विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः ।पुनः पुनः समाश्वस्य प्रायुध्यत रणोत्कटः ।अर्जुनं च रणे राजन्योधयन्स व्यराजत ॥ ९७ ॥
शिखण्डी तु रणे राजन्विव्याधैव पितामहम् ।शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः ॥ ९८ ॥
न च तेऽस्य रुजं चक्रुः पितुस्तव जनेश्वर ।स्मयमानश्च गाङ्गेयस्तान्बाणाञ्जगृहे तदा ॥ ९९ ॥
उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति ।तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः ॥ १०० ॥
तं क्षत्रिया महाराज ददृशुर्घोरमाहवे ।भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम् ॥ १०१ ॥
ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष ।अभिद्रवत संग्रामे फल्गुनं सर्वतो रथैः ॥ १०२ ॥
भीष्मो वः समरे सर्वान्पालयिष्यति धर्मवित् ।ते भयं सुमहत्त्यक्त्वा पाण्डवान्प्रतियुध्यत ॥ १०३ ॥
एष तालेन दीप्तेन भीष्मस्तिष्ठति पालयन् ।सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च ॥ १०४ ॥
त्रिदशापि समुद्युक्ता नालं भीष्मं समासितुम् ।किमु पार्था महात्मानं मर्त्यभूतास्तथाबलाः ।तस्माद्द्रवत हे योधाः फल्गुनं प्राप्य संयुगे ॥ १०५ ॥
अहमद्य रणे यत्तो योधयिष्यामि फल्गुनम् ।सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपाः ॥ १०६ ॥
तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः ।अर्जुनं प्रति संयत्ता बलवन्तो महारथाः ॥ १०७ ॥
ते विदेहाः कलिङ्गाश्च दाशेरकगणैः सह ।अभिपेतुर्निषादाश्च सौवीराश्च महारणे ॥ १०८ ॥
बाह्लिका दरदाश्चैव प्राच्योदीच्याश्च मालवाः ।अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ १०९ ॥
शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह ।अभिपेतू रणे पार्थं पतंगा इव पावकम् ॥ ११० ॥
स तान्सर्वान्सहानीकान्महाराज महारथान् ।दिव्यान्यस्त्राणि संचिन्त्य प्रसंधाय धनंजयः ॥ १११ ॥
स तैरस्त्रैर्महावेगैर्ददाहाशु महाबलः ।शरप्रतापैर्बीभत्सुः पतंगानिव पावकः ॥ ११२ ॥
तस्य बाणसहस्राणि सृजतो दृढधन्विनः ।दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत ॥ ११३ ॥
ते शरार्ता महाराज विप्रकीर्णरथध्वजाः ।नाभ्यवर्तन्त राजानः सहिता वानरध्वजम् ॥ ११४ ॥
सध्वजा रथिनः पेतुर्हयारोहा हयैः सह ।गजाः सह गजारोहैः किरीटिशरताडिताः ॥ ११५ ॥
ततोऽर्जुनभुजोत्सृष्टैरावृतासीद्वसुंधरा ।विद्रवद्भिश्च बहुधा बलै राज्ञां समन्ततः ॥ ११६ ॥
अथ पार्थो महाबाहुर्द्रावयित्वा वरूथिनीम् ।दुःशासनाय समरे प्रेषयामास सायकान् ॥ ११७ ॥
ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः ।धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः ।हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत् ॥ ११८ ॥
विविंशतिं च विंशत्या विरथं कृतवान्प्रभो ।आजघान भृशं चैव पञ्चभिर्नतपर्वभिः ॥ ११९ ॥
कृपं शल्यं विकर्णं च विद्ध्वा बहुभिरायसैः ।चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः ॥ १२० ॥
एवं ते विरथाः पञ्च कृपः शल्यश्च मारिष ।दुःशासनो विकर्णश्च तथैव च विविंशतिः ।संप्राद्रवन्त समरे निर्जिताः सव्यसाचिना ॥ १२१ ॥
पूर्वाह्णे तु तथा राजन्पराजित्य महारथान् ।प्रजज्वाल रणे पार्थो विधूम इव पावकः ॥ १२२ ॥
तथैव शरवर्षेण भास्करो रश्मिवानिव ।अन्यानपि महाराज पातयामास पार्थिवान् ॥ १२३ ॥
पराङ्मुखीकृत्य तदा शरवर्षैर्महारथान् ।प्रावर्तयत संग्रामे शोणितोदां महानदीम् ।मध्येन कुरुसैन्यानां पाण्डवानां च भारत ॥ १२४ ॥
गजाश्च रथसंघाश्च बहुधा रथिभिर्हताः ।रथाश्च निहता नागैर्नागा हयपदातिभिः ॥ १२५ ॥
अन्तरा छिध्यमानानि शरीराणि शिरांसि च ।निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम् ॥ १२६ ॥
छन्नमायोधनं रेजे कुण्डलाङ्गदधारिभिः ।पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः ॥ १२७ ॥
रथनेमिनिकृत्ताश्च गजैश्चैवावपोथिताः ।पादाताश्चाप्यदृश्यन्त साश्वाः सहयसादिनः ॥ १२८ ॥
गजाश्वरथसंघाश्च परिपेतुः समन्ततः ।विशीर्णाश्च रथा भूमौ भग्नचक्रयुगध्वजाः ॥ १२९ ॥
तद्गजाश्वरथौघानां रुधिरेण समुक्षितम् ।छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् ॥ १३० ॥
श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह ।प्रणेदुर्भक्ष्यमासाद्य विकृताश्च मृगद्विजाः ॥ १३१ ॥
ववुर्बहुविधाश्चैव दिक्षु सर्वासु मारुताः ।दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च ॥ १३२ ॥
काञ्चनानि च दामानि पताकाश्च महाधनाः ।धूमायमाना दृश्यन्ते सहसा मारुतेरिताः ॥ १३३ ॥
श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः ।विनिकीर्णाः स्म दृश्यन्ते शतशोऽथ सहस्रशः ।सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः ॥ १३४ ॥
क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः ।समन्ततो व्यदृश्यन्त पतिता धरणीतले ॥ १३५ ॥
ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन् ।अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् ॥ १३६ ॥
तं शिखण्डी रणे यत्तमभ्यधावत दंशितः ।संजहार ततो भीष्मस्तदस्त्रं पावकोपमम् ॥ १३७ ॥
एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनः ।निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम् ॥ १३८ ॥
« »