Click on words to see what they mean.

धृतराष्ट्र उवाच ।कथं शांतनवो भीष्मो दशमेऽहनि संजय ।अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः ॥ १ ॥
कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन् ।आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः ॥ २ ॥
संजय उवाच ।कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत ।यथा च तदभूद्युद्धं तत्ते वक्ष्यामि शृण्वतः ॥ ३ ॥
प्रेषिताः परलोकाय परमास्त्रैः किरीटिना ।अहन्यहनि संप्राप्तास्तावकानां रथव्रजाः ॥ ४ ॥
यथाप्रतिज्ञं कौरव्यः स चापि समितिंजयः ।पार्थानामकरोद्भीष्मः सततं समितिक्षयम् ॥ ५ ॥
कुरुभिः सहितं भीष्मं युध्यमानं महारथम् ।अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः ॥ ६ ॥
दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे ।अवर्तत महारौद्रः सततं समितिक्षयः ॥ ७ ॥
तस्मिन्नयुतशो राजन्भूयश्च स परंतपः ।भीष्मः शांतनवो योधाञ्जघान परमास्त्रवित् ॥ ८ ॥
येषामज्ञातकल्पानि नामगोत्राणि पार्थिव ।ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः ॥ ९ ॥
दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम् ।निरविद्यत धर्मात्मा जीवितेन परंतपः ॥ १० ॥
स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुखं रणे ।न हन्यां मानवश्रेष्ठान्संग्रामेऽभिमुखानिति ॥ ११ ॥
चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव ।अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् ॥ १२ ॥
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद ।शृणु मे वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः ॥ १३ ॥
निर्विण्णोऽस्मि भृशं तात देहेनानेन भारत ।घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे ॥ १४ ॥
तस्मात्पार्थं पुरोधाय पाञ्चालान्सृञ्जयांस्तथा ।मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम् ॥ १५ ॥
तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः ।भीष्मं प्रतिययौ यत्तः संग्रामे सह सृञ्जयैः ॥ १६ ॥
धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः ।श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् ॥ १७ ॥
अभिद्रवत युध्यध्वं भीष्मं जयत संयुगे ।रक्षिताः सत्यसंधेन जिष्णुना रिपुजिष्णुना ॥ १८ ॥
अयं चापि महेष्वासः पार्षतो वाहिनीपतिः ।भीमसेनश्च समरे पालयिष्यति वो ध्रुवम् ॥ १९ ॥
न वै भीष्माद्भयं किंचित्कर्तव्यं युधि सृञ्जयाः ।ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् ॥ २० ॥
तथा तु समयं कृत्वा दशमेऽहनि पाण्डवाः ।ब्रह्मलोकपरा भूत्वा संजग्मुः क्रोधमूर्छिताः ॥ २१ ॥
शिखण्डिनं पुरस्कृत्य पाण्डवं च धनंजयम् ।भीष्मस्य पातने यत्नं परमं ते समास्थिताः ॥ २२ ॥
ततस्तव सुतादिष्टा नानाजनपदेश्वराः ।द्रोणेन सहपुत्रेण सहसेना महाबलाः ॥ २३ ॥
दुःशासनश्च बलवान्सह सर्वैः सहोदरैः ।भीष्मं समरमध्यस्थं पालयां चक्रिरे तदा ॥ २४ ॥
ततस्तु तावकाः शूराः पुरस्कृत्य यतव्रतम् ।शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ॥ २५ ॥
चेदिभिश्च सपाञ्चालैः सहितो वानरध्वजः ।ययौ शांतनवं भीष्मं पुरस्कृत्य शिखण्डिनम् ॥ २६ ॥
द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् ।युधामन्युः सहामात्यं दुर्योधनमयोधयत् ॥ २७ ॥
विराटस्तु सहानीकः सहसेनं जयद्रथम् ।वृद्धक्षत्रस्य दायादमाससाद परंतपः ॥ २८ ॥
मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः ।भीमसेनाभिगुप्तश्च नागानीकमुपाद्रवत् ॥ २९ ॥
अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम् ।द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोमकैः ॥ ३० ॥
कर्णिकारध्वजं चापि सिंहकेतुररिंदमः ।प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः ॥ ३१ ॥
शिखण्डिनं च पुत्रास्ते पाण्डवं च धनंजयम् ।राजभिः समरे सार्धमभिपेतुर्जिघांसवः ॥ ३२ ॥
तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे ।संप्रधावत्स्वनीकेषु मेदिनी समकम्पत ॥ ३३ ॥
तान्यनीकान्यनीकेषु समसज्जन्त भारत ।तावकानां परेषां च दृष्ट्वा शांतनवं रणे ॥ ३४ ॥
ततस्तेषां प्रयततामन्योन्यमभिधावताम् ।प्रादुरासीन्महाञ्शब्दो दिक्षु सर्वासु भारत ॥ ३५ ॥
शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः ।सिंहनादैश्च सैन्यानां दारुणः समपद्यत ॥ ३६ ॥
सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा ।वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत ॥ ३७ ॥
रजोमेघाश्च संजज्ञुः शस्त्रविद्युद्भिरावृताः ।धनुषां चैव निर्घोषो दारुणः समपद्यत ॥ ३८ ॥
बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः ।रथघोषश्च संजग्मुः सेनयोरुभयोरपि ॥ ३९ ॥
प्रासशक्त्यृष्टिसंघैश्च बाणौघैश्च समाकुलम् ।निष्प्रकाशमिवाकाशं सेनयोः समपद्यत ॥ ४० ॥
अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे ।कुञ्जराः कुञ्जराञ्जघ्नुः पदातींश्च पदातयः ॥ ४१ ॥
तदासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह ।भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा ॥ ४२ ॥
तयोः समागमो घोरो बभूव युधि भारत ।अन्योन्यस्य वधार्थाय जिगीषूणां रणाजिरे ॥ ४३ ॥
« »