Click on words to see what they mean.

संजय उवाच ।अर्जुनस्तु रणे शल्यं यतमानं महारथम् ।छादयामास समरे शरैः संनतपर्वभिः ॥ १ ॥
सुशर्माणं कृपं चैव त्रिभिस्त्रिभिरविध्यत ।प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् ॥ २ ॥
चित्रसेनं विकर्णं च कृतवर्माणमेव च ।दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ ॥ ३ ॥
एकैकं त्रिभिरानर्छत्कङ्कबर्हिणवाजितैः ।शरैरतिरथो युद्धे पीडयन्वाहिनीं तव ॥ ४ ॥
जयद्रथो रणे पार्थं भित्त्वा भारत सायकैः ।भीमं विव्याध तरसा चित्रसेनरथे स्थितः ॥ ५ ॥
शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः ।विव्यधाते महाबाहुं बहुधा मर्मभेदिभिः ॥ ६ ॥
चित्रसेनादयश्चैव पुत्रास्तव विशां पते ।पञ्चभिः पञ्चभिस्तूर्णं संयुगे निशितैः शरैः ।आजघ्नुरर्जुनं संख्ये भीमसेनं च मारिष ॥ ७ ॥
तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ ।अपीडयेतां समरे त्रिगर्तानां महद्बलम् ॥ ८ ॥
सुशर्मापि रणे पार्थं विद्ध्वा बहुभिरायसैः ।ननाद बलवन्नादं नादयन्वै नभस्तलम् ॥ ९ ॥
अन्ये च रथिनः शूरा भीमसेनधनंजयौ ।विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः ॥ १० ॥
तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ ।क्रीडमानौ रथोदारौ चित्ररूपौ व्यरोचताम् ।आमिषेप्सू गवां मध्ये सिंहाविव बलोत्कटौ ॥ ११ ॥
छित्त्वा धनूंषि वीराणां शरांश्च बहुधा रणे ।पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् ॥ १२ ॥
रथाश्च बहवो भग्ना हयाश्च शतशो हताः ।गजाश्च सगजारोहाः पेतुरुर्व्यां महामृधे ॥ १३ ॥
रथिनः सादिनश्चैव तत्र तत्र निसूदिताः ।दृश्यन्ते बहुधा राजन्वेष्टमानाः समन्ततः ॥ १४ ॥
हतैर्गजपदात्योघैर्वाजिभिश्च निसूदितैः ।रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी ॥ १५ ॥
छत्रैश्च बहुधा छिन्नैर्ध्वजैश्च विनिपातितैः ।अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत ॥ १६ ॥
केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा ।उष्णीषैरपविद्धैश्च चामरव्यजनैरपि ॥ १७ ॥
तत्र तत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः ।ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी ॥ १८ ॥
तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् ।शरैः संवार्य तान्वीरान्निजघान बलं तव ॥ १९ ॥
पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनसमागमम् ।गाङ्गेयस्य रथाभ्याशमुपजग्मे महाभये ॥ २० ॥
कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः ।विन्दानुविन्दावावन्त्यावाजग्मुः संयुगं तदा ॥ २१ ॥
ततो भीमो महेष्वासः फल्गुनश्च महारथः ।कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे ॥ २२ ॥
ततो बर्हिणवाजानामयुतान्यर्बुदानि च ।धनंजयरथे तूर्णं पातयन्ति स्म संयुगे ॥ २३ ॥
ततस्ताञ्शरजालेन संनिवार्य महारथान् ।पार्थः समन्तात्समरे प्रेषयामास मृत्यवे ॥ २४ ॥
शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः ।आजघानोरसि क्रुद्धो भल्लैः संनतपर्वभिः ॥ २५ ॥
तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः ।अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि ॥ २६ ॥
अथान्यद्धनुरादाय समरे भारसाधनम् ।मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः ॥ २७ ॥
त्रिभिः शरैर्महाराज वासुदेवं च पञ्चभिः ।भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् ॥ २८ ॥
ततो द्रोणो महाराज मागधश्च महारथः ।दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः ॥ २९ ॥
यत्र पार्थो महाराज भीमसेनश्च पाण्डवः ।कौरव्यस्य महासेनां जघ्नतुस्तौ महारथौ ॥ ३० ॥
जयत्सेनस्तु समरे भीमं भीमायुधं युवा ।विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ ॥ ३१ ॥
तं भीमो दशभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ।सारथिं चास्य भल्लेन रथनीडादपाहरत् ॥ ३२ ॥
उद्भ्रान्तैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः ।मागधोऽपहृतो राजा सर्वसैन्यस्य पश्यतः ॥ ३३ ॥
द्रोणस्तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः ।विव्याध बाणैः सुशितैः पञ्चषष्ट्या तमायसैः ॥ ३४ ॥
तं भीमः समरश्लाघी गुरुं पितृसमं रणे ।विव्याध नवभिर्भल्लैस्तथा षष्ट्या च भारत ॥ ३५ ॥
अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः ।व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथानिलः ॥ ३६ ॥
ततो भीष्मश्च राजा च सौबलश्च बृहद्बलः ।अभ्यद्रवन्त संक्रुद्धा भीमसेनधनंजयौ ॥ ३७ ॥
तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः ।अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् ॥ ३८ ॥
शिखण्डी तु समासाद्य भारतानां पितामहम् ।अभ्यद्रवत संहृष्टो भयं त्यक्त्वा यतव्रतम् ॥ ३९ ॥
युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् ।अयोधयन्रणे भीष्मं संहताः सह सृञ्जयैः ॥ ४० ॥
तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् ।शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ॥ ४१ ॥
ततः प्रववृते युद्धं कौरवाणां भयावहम् ।तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति ॥ ४२ ॥
तावकानां रणे भीष्मो ग्लह आसीद्विशां पते ।तत्र हि द्यूतमायातं विजयायेतराय वा ॥ ४३ ॥
धृष्टद्युम्नो महाराज सर्वसैन्यान्यचोदयत् ।अभिद्रवत गाङ्गेयं मा भैष्ट नरसत्तमाः ॥ ४४ ॥
सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी ।भीष्ममेवाभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे ॥ ४५ ॥
भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् ।आपतन्तीं महाराज वेलामिव महोदधिः ॥ ४६ ॥
« »