Click on words to see what they mean.

संजय उवाच ।भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः ।विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः ॥ १ ॥
चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा ।दशैते तावका योधा भीमसेनमयोधयन् ॥ २ ॥
महत्या सेनया युक्ता नानादेशसमुत्थया ।भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः ॥ ३ ॥
शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत् ।कृतवर्मा त्रिभिर्बाणैः कृपश्च नवभिः शरैः ॥ ४ ॥
चित्रसेनो विकर्णश्च भगदत्तश्च मारिष ।दशभिर्दशभिर्भल्लैर्भीमसेनमताडयन् ॥ ५ ॥
सैन्धवश्च त्रिभिर्बाणैर्जत्रुदेशेऽभ्यताडयत् ।विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः ।दुर्मर्षणश्च विंशत्या पाण्डवं निशितैः शरैः ॥ ६ ॥
स तान्सर्वान्महाराज भ्राजमानान्पृथक्पृथक् ।प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् ।विव्याध बहुभिर्बाणैर्भीमसेनो महाबलः ॥ ७ ॥
शल्यं पञ्चाशता विद्ध्वा कृतवर्माणमष्टभिः ।कृपस्य सशरं चापं मध्ये चिच्छेद भारत ।अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः ॥ ८ ॥
विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत् ।दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः ॥ ९ ॥
विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम् ।विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः ॥ १० ॥
अथान्यद्धनुरादाय गौतमो रथिनां वरः ।भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः ॥ ११ ॥
स विद्धो बहुभिर्बाणैस्तोत्त्रैरिव महाद्विपः ।ततः क्रुद्धो महाबाहुर्भीमसेनः प्रतापवान् ।गौतमं ताडयामास शरैर्बहुभिराहवे ॥ १२ ॥
सैन्धवस्य तथाश्वांश्च सारथिं च त्रिभिः शरैः ।प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः ॥ १३ ॥
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ।शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे ॥ १४ ॥
तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद भारत ।भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः ॥ १५ ॥
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।चित्रसेनरथं राजन्नारुरोह त्वरान्वितः ॥ १६ ॥
अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः ।महारथाञ्शरैर्विद्ध्वा वारयित्वा महारथः ।विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः ॥ १७ ॥
नातीव ममृषे शल्यो भीमसेनस्य विक्रमम् ।स संधाय शरांस्तीक्ष्णान्कर्मारपरिमार्जितान् ।भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत् ॥ १८ ॥
कृपश्च कृतवर्मा च भगदत्तश्च मारिष ।विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे ॥ १९ ॥
दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान् ।भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिंदमाः ॥ २० ॥
स तु तान्प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः ।शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः ॥ २१ ॥
तं शल्यो नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ।सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि ॥ २२ ॥
विशोकं वीक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् ।मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ २३ ॥
तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ।ताडयामास समरे सिंहवच्च ननाद च ॥ २४ ॥
ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम् ।त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन् ॥ २५ ॥
सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे ।पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः ॥ २६ ॥
शल्यं च नवभिर्बाणैर्भृशं विद्ध्वा महायशाः ।प्राग्ज्योतिषं शतेनाजौ राजन्विव्याध वै दृढम् ॥ २७ ॥
ततस्तु सशरं चापं सात्वतस्य महात्मनः ।क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् ॥ २८ ॥
अथान्यद्धनुरादाय कृतवर्मा वृकोदरम् ।आजघान भ्रुवोर्मध्ये नाराचेन परंतप ॥ २९ ॥
भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः ।भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः ॥ ३० ॥
द्वाभ्यां द्वाभ्यां च विव्याध गौतमप्रभृतीन्रथान् ।ते तु तं समरे राजन्विव्यधुर्निशितैः शरैः ॥ ३१ ॥
स तथा पीड्यमानोऽपि सर्वतस्तैर्महारथैः ।मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः ॥ ३२ ॥
ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान् ।प्रेषयामासुरव्यग्राः शतशोऽथ सहस्रशः ॥ ३३ ॥
तस्य शक्तिं महावेगां भगदत्तो महारथः ।चिक्षेप समरे वीरः स्वर्णदण्डां महाधनाम् ॥ ३४ ॥
तोमरं सैन्धवो राजा पट्टिशं च महाभुजः ।शतघ्नीं च कृपो राजञ्शरं शल्यश्च संयुगे ॥ ३५ ॥
अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् ।भीमसेनं समुद्दिश्य प्रेषयामासुरोजसा ॥ ३६ ॥
तोमरं स द्विधा चक्रे क्षुरप्रेणानिलात्मजः ।पट्टिशं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् ॥ ३७ ॥
स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः ।मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः ॥ ३८ ॥
शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे ।तथेतराञ्शरान्घोराञ्शरैः संनतपर्वभिः ॥ ३९ ॥
भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत् ।तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत् ॥ ४० ॥
ततो धनंजयस्तत्र वर्तमाने महारणे ।जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम् ।निघ्नन्तं समरे शत्रून्योधयानं च सायकैः ॥ ४१ ॥
तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ ।नाशशंसुर्जयं तत्र तावकाः पुरुषर्षभ ॥ ४२ ॥
अथार्जुनो रणे भीष्मं योधयन्वै महारथम् ।भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम् ॥ ४३ ॥
आससाद रणे योधांस्तावकान्दश भारत ।ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः ।बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया ॥ ४४ ॥
ततो दुर्योधनो राजा सुशर्माणमचोदयत् ।अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः ॥ ४५ ॥
सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः ।जहि पाण्डुसुतावेतौ धनंजयवृकोदरौ ॥ ४६ ॥
तच्छ्रुत्वा शासनं तस्य त्रिगर्तः प्रस्थलाधिपः ।अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ ॥ ४७ ॥
रथैरनेकसाहस्रैः परिवव्रे समन्ततः ।ततः प्रववृते युद्धमर्जुनस्य परैः सह ॥ ४८ ॥
« »