Click on words to see what they mean.

संजय उवाच ।सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा ।आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे ॥ १ ॥
माधवस्तु सुसंक्रुद्धो राक्षसं नवभिः शरैः ।आजघान रणे राजन्प्रहसन्निव भारत ॥ २ ॥
तथैव राक्षसो राजन्माधवं निशितैः शरैः ।अर्दयामास राजेन्द्र संक्रुद्धः शिनिपुंगवम् ॥ ३ ॥
शैनेयः शरसंघं तु प्रेषयामास संयुगे ।राक्षसाय सुसंक्रुद्धो माधवः परवीरहा ॥ ४ ॥
ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम् ।विव्याध विशिखैस्तीक्ष्णैः सिंहनादं ननाद च ॥ ५ ॥
माधवस्तु भृशं विद्धो राक्षसेन रणे तदा ।धैर्यमालम्ब्य तेजस्वी जहास च ननाद च ॥ ६ ॥
भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः ।ताडयामास समरे तोत्त्रैरिव महागजम् ॥ ७ ॥
विहाय राक्षसं युद्धे शैनेयो रथिनां वरः ।प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः ॥ ८ ॥
तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः ।चिच्छेद शितधारेण भल्लेन कृतहस्तवत् ॥ ९ ॥
अथान्यद्धनुरादाय वेगवत्परवीरहा ।भगदत्तं रणे क्रुद्धो विव्याध निशितैः शरैः ॥ १० ॥
सोऽतिविद्धो महेष्वासः सृक्किणी संलिहन्मुहुः ।शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम् ।यमदण्डोपमां घोरां प्राहिणोत्सात्यकाय वै ॥ ११ ॥
तामापतन्तीं सहसा तस्य बाहोर्बलेरिताम् ।सात्यकिः समरे राजंस्त्रिधा चिच्छेद सायकैः ।सा पपात तदा भूमौ महोल्केव हतप्रभा ॥ १२ ॥
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते ।महता रथवंशेन वारयामास माधवम् ॥ १३ ॥
तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम् ।दुर्योधनो भृशं हृष्टो भ्रातॄन्सर्वानुवाच ह ॥ १४ ॥
तथा कुरुत कौरव्या यथा वः सात्यको युधि ।न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् ।अस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् ॥ १५ ॥
तत्तथेति वचस्तस्य परिगृह्य महारथाः ।शैनेयं योधयामासुर्भीष्मस्य प्रमुखे तदा ॥ १६ ॥
अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे ।काम्बोजराजो बलवान्वारयामास संयुगे ॥ १७ ॥
आर्जुनिर्नृपतिं विद्ध्वा शरैः संनतपर्वभिः ।पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृपम् ॥ १८ ॥
सुदक्षिणस्तु समरे कार्ष्णिं विव्याध पञ्चभिः ।सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् ॥ १९ ॥
तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे ।यदभ्यधावद्गाङ्गेयं शिखण्डी शत्रुतापनः ॥ २० ॥
विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम् ।भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ ॥ २१ ॥
अश्वत्थामा ततः क्रुद्धः समायाद्रथसत्तमः ।ततः प्रववृते युद्धं तव तेषां च भारत ॥ २२ ॥
विराटो दशभिर्भल्लैराजघान परंतप ।यतमानं महेष्वासं द्रौणिमाहवशोभिनम् ॥ २३ ॥
द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तथा ।गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम् ॥ २४ ॥
अश्वत्थामा ततस्तौ तु विव्याध दशभिः शरैः ।विराटद्रुपदौ वृद्धौ भीष्मं प्रति समुद्यतौ ॥ २५ ॥
तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत् ।यद्द्रौणेः सायकान्घोरान्प्रत्यवारयतां युधि ॥ २६ ॥
सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात् ।यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् ॥ २७ ॥
कृपश्च समरे राजन्माद्रीपुत्रं महारथम् ।आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः ॥ २८ ॥
तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः ।अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः ॥ २९ ॥
सोऽन्यत्कार्मुकमादाय समरे भारसाधनम् ।माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः ।आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् ॥ ३० ॥
तथैव पाण्डवो राजञ्शारद्वतममर्षणम् ।आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया ।तयोर्युद्धं समभवद्घोररूपं भयावहम् ॥ ३१ ॥
नकुलं तु रणे क्रुद्धं विकर्णः शत्रुतापनः ।विव्याध सायकैः षष्ट्या रक्षन्भीष्मस्य जीवितम् ॥ ३२ ॥
नकुलोऽपि भृशं विद्धस्तव पुत्रेण धन्विना ।विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः ॥ ३३ ॥
तत्र तौ नरशार्दूलौ भीष्महेतोः परंतपौ ।अन्योन्यं जघ्नतुर्वीरौ गोष्ठे गोवृषभाविव ॥ ३४ ॥
घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम् ।दुर्मुखः समरे प्रायाद्भीष्महेतोः पराक्रमी ॥ ३५ ॥
हैडिम्बस्तु ततो राजन्दुर्मुखं शत्रुतापनम् ।आजघानोरसि क्रुद्धो नवत्या निशितैः शरैः ॥ ३६ ॥
भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः ।षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि ॥ ३७ ॥
धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम् ।हार्दिक्यो वारयामास रक्षन्भीष्मस्य जीवितम् ॥ ३८ ॥
वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिरायसैः ।पुनः पञ्चाशता तूर्णमाजघान स्तनान्तरे ॥ ३९ ॥
तथैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः ।विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ॥ ४० ॥
तयोः समभवद्युद्धं भीष्महेतोर्महारणे ।अन्योन्यातिशयैर्युक्तं यथा वृत्रमहेन्द्रयोः ॥ ४१ ॥
भीमसेनमथायान्तं भीष्मं प्रति महाबलम् ।भूरिश्रवाभ्ययात्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ४२ ॥
सौमदत्तिरथो भीममाजघान स्तनान्तरे ।नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे ॥ ४३ ॥
उरःस्थेन बभौ तेन भीमसेनः प्रतापवान् ।स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम ॥ ४४ ॥
तौ शरान्सूर्यसंकाशान्कर्मारपरिमार्जितान् ।अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते मुहुर्मुहुः ॥ ४५ ॥
भीमो भीष्मवधाकाङ्क्षी सौमदत्तिं महारथम् ।तथा भीष्मजये गृध्नुः सौमदत्तिश्च पाण्डवम् ।कृतप्रतिकृते यत्तौ योधयामासतू रणे ॥ ४६ ॥
युधिष्ठिरं महाराज महत्या सेनया वृतम् ।भीष्मायाभिमुखं यान्तं भारद्वाजो न्यवारयत् ॥ ४७ ॥
द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् ।श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष ॥ ४८ ॥
सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे ।द्रोणेन वारिता यत्ता न चचाल पदात्पदम् ॥ ४९ ॥
चेकितानं रणे क्रुद्धं भीष्मं प्रति जनेश्वर ।चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् ॥ ५० ॥
भीष्महेतोः पराक्रान्तश्चित्रसेनो महारथः ।चेकितानं परं शक्त्या योधयामास भारत ॥ ५१ ॥
तथैव चेकितानोऽपि चित्रसेनमयोधयत् ।तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे ॥ ५२ ॥
अर्जुनो वार्यमाणस्तु बहुशस्तनयेन ते ।विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह ॥ ५३ ॥
दुःशासनोऽपि परया शक्त्या पार्थमवारयत् ।कथं भीष्मं परो हन्यादिति निश्चित्य भारत ॥ ५४ ॥
सा वध्यमाना समरे पुत्रस्य तव वाहिनी ।लोड्यते रथिभिः श्रेष्ठैस्तत्र तत्रैव भारत ॥ ५५ ॥
« »