Click on words to see what they mean.

संजय उवाच ।अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् ।शिखण्डिनमथोवाच समभ्येहि पितामहम् ॥ १ ॥
न चापि भीस्त्वया कार्या भीष्मादद्य कथंचन ।अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् ॥ २ ॥
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ ।अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥ ३ ॥
धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः ।हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् ॥ ४ ॥
विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः ।अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः ॥ ५ ॥
नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् ।तथेतराणि सैन्यानि सर्वाण्येव विशां पते ।समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥ ६ ॥
प्रत्युद्ययुस्तावकाश्च समेतास्तान्महारथान् ।यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु ॥ ७ ॥
चित्रसेनो महाराज चेकितानं समभ्ययात् ।भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा ॥ ८ ॥
धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम् ।त्वरमाणो रणे यत्तं कृतवर्मा न्यवारयत् ॥ ९ ॥
भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम् ।त्वरमाणो महाराज सौमदत्तिर्न्यवारयत् ॥ १० ॥
तथैव नकुलं वीरं किरन्तं सायकान्बहून् ।विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम् ॥ ११ ॥
सहदेवं तथा यान्तं यत्तं भीष्मरथं प्रति ।वारयामास संक्रुद्धः कृपः शारद्वतो युधि ॥ १२ ॥
राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम् ।भीष्मस्य निधनं प्रेप्सुं दुर्मुखोऽभ्यद्रवद्बली ॥ १३ ॥
सात्यकिं समरे क्रुद्धमार्श्यशृङ्गिरवारयत् ।अभिमन्युं महाराज यान्तं भीष्मरथं प्रति ।सुदक्षिणो महाराज काम्बोजः प्रत्यवारयत् ॥ १४ ॥
विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ ।अश्वत्थामा ततः क्रुद्धो वारयामास भारत ॥ १५ ॥
तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् ।भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत् ॥ १६ ॥
अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् ।भीष्मप्रेप्सुं महाराज तापयन्तं दिशो दश ।दुःशासनो महेष्वासो वारयामास संयुगे ॥ १७ ॥
अन्ये च तावका योधाः पाण्डवानां महारथान् ।भीष्मायाभिमुखं यातान्वारयामासुराहवे ॥ १८ ॥
धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशत पुनः पुनः ।अभिद्रवत संरब्धा भीष्ममेकं महाबलम् ॥ १९ ॥
एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः ।अभिद्रवत मा भैष्ट भीष्मो न प्राप्स्यते हि वः ॥ २० ॥
अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः ।किमु भीष्मो रणे वीरा गतसत्त्वोऽल्पजीवितः ॥ २१ ॥
इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः ।अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति ॥ २२ ॥
आगच्छतस्तान्समरे वार्योघान्प्रबलानिव ।न्यवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः ॥ २३ ॥
दुःशासनो महाराज भयं त्यक्त्वा महारथः ।भीष्मस्य जीविताकाङ्क्षी धनंजयमुपाद्रवत् ॥ २४ ॥
तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति ।अभ्यद्रवन्त संग्रामे तव पुत्रान्महारथान् ॥ २५ ॥
तत्राद्भुतमपश्याम चित्ररूपं विशां पते ।दुःशासनरथं प्राप्तो यत्पार्थो नात्यवर्तत ॥ २६ ॥
यथा वारयते वेला क्षुभितं वै महार्णवम् ।तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत् ॥ २७ ॥
उभौ हि रथिनां श्रेष्ठावुभौ भारत दुर्जयौ ।उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत ॥ २८ ॥
तौ तथा जातसंरम्भावन्योन्यवधकाङ्क्षिणौ ।समीयतुर्महासंख्ये मयशक्रौ यथा पुरा ॥ २९ ॥
दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः ।वासुदेवं च विंशत्या ताडयामास संयुगे ॥ ३० ॥
ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम् ।दुःशासनं शतेनाजौ नाराचानां समार्पयत् ।ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥ ३१ ॥
दुःशासनस्ततः क्रुद्धः पार्थं विव्याध पञ्चभिः ।ललाटे भरतश्रेष्ठ शरैः संनतपर्वभिः ॥ ३२ ॥
ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवोत्तमः ।यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः ॥ ३३ ॥
सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना ।व्यराजत रणे पार्थः किंशुकः पुष्पवानिव ॥ ३४ ॥
दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः ।पर्वणीव सुसंक्रुद्धो राहुरुग्रो निशाकरम् ॥ ३५ ॥
पीड्यमानो बलवता पुत्रस्तव विशां पते ।विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः ॥ ३६ ॥
तस्य पार्थो धनुश्छित्त्वा त्वरमाणः पराक्रमी ।आजघान ततः पश्चात्पुत्रं ते नवभिः शरैः ॥ ३७ ॥
सोऽन्यत्कार्मुकमादाय भीष्मस्य प्रमुखे स्थितः ।अर्जुनं पञ्चविंशत्या बाह्वोरुरसि चार्पयत् ॥ ३८ ॥
तस्य क्रुद्धो महाराज पाण्डवः शत्रुकर्शनः ।अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून् ॥ ३९ ॥
अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव ।यतमानस्य पार्थस्य तदद्भुतमिवाभवत् ।पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव ॥ ४० ॥
ततः क्रुद्धो रणे पार्थः शरान्संधाय कार्मुके ।प्रेषयामास समरे स्वर्णपुङ्खाञ्शिलाशितान् ॥ ४१ ॥
न्यमज्जंस्ते महाराज तस्य काये महात्मनः ।यथा हंसा महाराज तडागं प्राप्य भारत ॥ ४२ ॥
पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना ।हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाश्रयत् ।अगाधे मज्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा ॥ ४३ ॥
प्रतिलभ्य ततः संज्ञां पुत्रस्तव विशां पते ।अवारयत्ततः शूरो भूय एव पराक्रमी ॥ ४४ ॥
शरैः सुनिशितैः पार्थं यथा वृत्रः पुरंदरम् ।निर्बिभेद महावीर्यो विव्यथे नैव चार्जुनात् ॥ ४५ ॥
« »