Click on words to see what they mean.

संजय उवाच ।अथ वीरो महेष्वासो मत्तवारणविक्रमः ।समादाय महच्चापं मत्तवारणवारणम् ॥ १ ॥
विधुन्वानो धनुः श्रेष्ठं द्रावयाणो महारथान् ।पृतनां पाण्डवेयानां पातयानो महारथः ॥ २ ॥
निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् ।प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत ॥ ३ ॥
अयं स दिवसस्तात यत्र पार्थो महारथः ।जिघांसुः समरे भीष्मं परं यत्नं करिष्यति ॥ ४ ॥
उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव मे ।योगमस्त्राणि गच्छन्ति क्रूरे मे वर्तते मतिः ॥ ५ ॥
दिक्षु शान्तासु घोराणि व्याहरन्ति मृगद्विजाः ।नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति ॥ ६ ॥
नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः ।रसते व्यथते भूमिरनुष्टनति वाहनम् ॥ ७ ॥
कङ्का गृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः ।शिवाश्चाशिवनिर्घोषा वेदयन्त्यो महद्भयम् ॥ ८ ॥
पपात महती चोल्का मध्येनादित्यमण्डलात् ।सकबन्धश्च परिघो भानुमावृत्य तिष्ठति ॥ ९ ॥
परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत् ।वेदयानो भयं घोरं राज्ञां देहावकर्तनम् ॥ १० ॥
देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः ।कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च ॥ ११ ॥
अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं निशाकरम् ।अवाक्शिराश्च भगवानुदतिष्ठत चन्द्रमाः ॥ १२ ॥
वपूंषि च नरेन्द्राणां विगतानीव लक्षये ।धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताः ॥ १३ ॥
सेनयोरुभयोश्चैव समन्ताच्छ्रूयते महान् ।पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः ॥ १४ ॥
ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे ।अपास्यान्यान्रणे योधानभ्यस्यति पितामहम् ॥ १५ ॥
हृष्यन्ति रोमकूपानि सीदतीव च मे मनः ।चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् ॥ १६ ॥
तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् ।पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः ॥ १७ ॥
अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् ।स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् ॥ १८ ॥
अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महारथः ।न चामङ्गलकेतोः स प्रहरेदापगासुतः ॥ १९ ॥
एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् ।अद्यैव तु रणे पार्थः कुरुवृद्धमुपाद्रवत् ॥ २० ॥
युधिष्ठिरस्य च क्रोधो भीष्मार्जुनसमागमः ।मम चास्त्राभिसंरम्भः प्रजानामशुभं ध्रुवम् ॥ २१ ॥
मनस्वी बलवाञ्शूरः कृतास्त्रो दृढविक्रमः ।दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः ॥ २२ ॥
अजेयः समरे चैव देवैरपि सवासवैः ।बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः ॥ २३ ॥
विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः ।तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रतम् ॥ २४ ॥
पश्य चैतन्महाबाहो वैशसं समुपस्थितम् ।हेमचित्राणि शूराणां महान्ति च शुभानि च ॥ २५ ॥
कवचान्यवदीर्यन्ते शरैः संनतपर्वभिः ।छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च ॥ २६ ॥
प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः ।वैजयन्त्यश्च नागानां संक्रुद्धेन किरीटिना ॥ २७ ॥
नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः ।याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च ॥ २८ ॥
हयनागरथावर्तां महाघोरां सुदुस्तराम् ।रथेन संग्रामनदीं तरत्येष कपिध्वजः ॥ २९ ॥
ब्रह्मण्यता दमो दानं तपश्च चरितं महत् ।इहैव दृश्यते राज्ञो भ्राता यस्य धनंजयः ॥ ३० ॥
भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ ।वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः ॥ ३१ ॥
तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः ।तपोदग्धशरीरस्य कोपो दहति भारतान् ॥ ३२ ॥
एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः ।दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः ॥ ३३ ॥
एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना ।महोर्मिनद्धं सुमहत्तिमिनेव नदीमुखम् ॥ ३४ ॥
हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे ।याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम् ॥ ३५ ॥
दुर्लभं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः ।समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः ॥ ३६ ॥
सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ ।परिरक्षन्ति राजानं यमौ च मनुजेश्वरम् ॥ ३७ ॥
उपेन्द्रसदृशः श्यामो महाशाल इवोद्गतः ।एष गच्छत्यनीकानि द्वितीय इव फल्गुनः ॥ ३८ ॥
उत्तमास्त्राणि चादत्स्व गृहीत्वान्यन्महद्धनुः ।पार्श्वतो याहि राजानं युध्यस्व च वृकोदरम् ॥ ३९ ॥
को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः ।क्षत्रधर्मं पुरस्कृत्य ततस्त्वा विनियुज्महे ॥ ४० ॥
एष चापि रणे भीष्मो दहते वै महाचमूम् ।युद्धे सुसदृशस्तात यमस्य वरुणस्य च ॥ ४१ ॥
« »