Click on words to see what they mean.

धृतराष्ट्र उवाच ।कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम् ।पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् ॥ १ ॥
केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधम् ।त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः ॥ २ ॥
कथं शांतनवो भीष्मः स तस्मिन्दशमेऽहनि ।अयुध्यत महावीर्यः पाण्डवैः सहसृञ्जयैः ॥ ३ ॥
न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिनम् ।कच्चिन्न रथभङ्गोऽस्य धनुर्वाशीर्यतास्यतः ॥ ४ ॥
संजय उवाच ।नाशीर्यत धनुस्तस्य रथभङ्गो न चाप्यभूत् ।युध्यमानस्य संग्रामे भीष्मस्य भरतर्षभ ।निघ्नतः समरे शत्रूञ्शरैः संनतपर्वभिः ॥ ५ ॥
अनेकशतसाहस्रास्तावकानां महारथाः ।रथदन्तिगणा राजन्हयाश्चैव सुसज्जिताः ।अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् ॥ ६ ॥
यथाप्रतिज्ञं कौरव्य स चापि समितिंजयः ।पार्थानामकरोद्भीष्मः सततं समितिक्षयम् ॥ ७ ॥
युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः ।पाञ्चालाः पाण्डवैः सार्धं सर्व एवाभ्यवारयन् ॥ ८ ॥
दशमेऽहनि संप्राप्ते तताप रिपुवाहिनीम् ।कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः ॥ ९ ॥
न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज ।अशक्नुवन्रणे जेतुं पाशहस्तमिवान्तकम् ॥ १० ॥
अथोपायान्महाराज सव्यसाची परंतपः ।त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः ॥ ११ ॥
सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः ।शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे ॥ १२ ॥
तस्य शब्देन वित्रस्तास्तावका भरतर्षभ ।सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात् ॥ १३ ॥
जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् ।दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः ॥ १४ ॥
एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः ।दहते मामकान्सर्वान्कृष्णवर्त्मेव काननम् ॥ १५ ॥
पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः ।पाण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे ॥ १६ ॥
यथा पशुगणान्पालः संकालयति कानने ।तथेदं मामकं सैन्यं काल्यते शत्रुतापन ॥ १७ ॥
धनंजयशरैर्भग्नं द्रवमाणमितस्ततः ।भीमो ह्येष दुराधर्षो विद्रावयति मे बलम् ॥ १८ ॥
सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ ।अभिमन्युश्च विक्रान्तो वाहिनीं दहते मम ॥ १९ ॥
धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः ।व्यद्रावयेतां सहसा सैन्यं मम महाबलौ ॥ २० ॥
वध्यमानस्य सैन्यस्य सर्वैरेतैर्महाबलैः ।नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत ॥ २१ ॥
ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रम ।पर्याप्तश्च भवान्क्षिप्रं पीडितानां गतिर्भव ॥ २२ ॥
एवमुक्तो महाराज पिता देवव्रतस्तव ।चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः ।तव संधारयन्पुत्रमब्रवीच्छंतनोः सुतः ॥ २३ ॥
दुर्योधन विजानीहि स्थिरो भव विशां पते ।पूर्वकालं तव मया प्रतिज्ञातं महाबल ॥ २४ ॥
हत्वा दश सहस्राणि क्षत्रियाणां महात्मनाम् ।संग्रामाद्व्यपयातव्यमेतत्कर्म ममाह्निकम् ।इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ ॥ २५ ॥
अद्य चापि महत्कर्म प्रकरिष्ये महाहवे ।अहं वा निहतः शेष्ये हनिष्ये वाद्य पाण्डवान् ॥ २६ ॥
अद्य ते पुरुषव्याघ्र प्रतिमोक्ष्ये ऋणं महत् ।भर्तृपिण्डकृतं राजन्निहतः पृतनामुखे ॥ २७ ॥
इत्युक्त्वा भरतश्रेष्ठः क्षत्रियान्प्रतपञ्शरैः ।आससाद दुराधर्षः पाण्डवानामनीकिनीम् ॥ २८ ॥
अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ ।आशीविषमिव क्रुद्धं पाण्डवाः पर्यवारयन् ॥ २९ ॥
दशमेऽहनि तस्मिंस्तु दर्शयञ्शक्तिमात्मनः ।राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन ॥ ३० ॥
पञ्चालानां च ये श्रेष्ठा राजपुत्रा महाबलाः ।तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः ॥ ३१ ॥
हत्वा दश सहस्राणि कुञ्जराणां तरस्विनाम् ।सारोहाणां महाराज हयानां चायुतं पुनः ॥ ३२ ॥
पूर्णे शतसहस्रे द्वे पदातीनां नरोत्तमः ।प्रजज्वाल रणे भीष्मो विधूम इव पावकः ॥ ३३ ॥
न चैनं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम् ।उत्तरं मार्गमास्थाय तपन्तमिव भास्करम् ॥ ३४ ॥
ते पाण्डवेयाः संरब्धा महेष्वासेन पीडिताः ।वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः ॥ ३५ ॥
स युध्यमानो बहुभिर्भीष्मः शांतनवस्तदा ।अवकीर्णो महाबाहुः शैलो मेघैरिवासितैः ॥ ३६ ॥
पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन् ।महत्या सेनया सार्धं ततो युद्धमवर्तत ॥ ३७ ॥
« »