Click on words to see what they mean.

संजय उवाच ।युध्यतामेव तेषां तु भास्करेऽस्तमुपागते ।संध्या समभवद्घोरा नापश्याम ततो रणम् ॥ १ ॥
ततो युधिष्ठिरो राजा संध्यां संदृश्य भारत ।वध्यमानं बलं चापि भीष्मेणामित्रघातिना ॥ २ ॥
मुक्तशस्त्रं परावृत्तं पलायनपरायणम् ।भीष्मं च युधि संरब्धमनुयान्तं महारथान् ॥ ३ ॥
सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान् ।चिन्तयित्वा चिरं ध्यात्वा अवहारमरोचयत् ॥ ४ ॥
ततोऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः ।तथैव तव सैन्यानामवहारो ह्यभूत्तदा ॥ ५ ॥
ततोऽवहारं सैन्यानां कृत्वा तत्र महारथाः ।न्यविशन्त कुरुश्रेष्ठ संग्रामे क्षतविक्षताः ॥ ६ ॥
भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः ।नालभन्त तदा शान्तिं भृशं भीष्मेण पीडिताः ॥ ७ ॥
भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयैः ।पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत ॥ ८ ॥
न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः ।ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी ॥ ९ ॥
तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह ।सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् ॥ १० ॥
आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः ।मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः ॥ ११ ॥
ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप ।वासुदेवं समुद्वीक्ष्य वाक्यमेतदुवाच ह ॥ १२ ॥
पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम् ।गजं नलवनानीव विमृद्नन्तं बलं मम ॥ १३ ॥
न चैवैनं महात्मानमुत्सहामो निरीक्षितुम् ।लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम् ॥ १४ ॥
यथा घोरो महानागस्तक्षको वै विषोल्बणः ।तथा भीष्मो रणे कृष्ण तीक्ष्णशस्त्रः प्रतापवान् ॥ १५ ॥
गृहीतचापः समरे विमुञ्चंश्च शिताञ्शरान् ।शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् ॥ १६ ॥
वरुणः पाशभृद्वापि सगदो वा धनेश्वरः ।न तु भीष्मः सुसंक्रुद्धः शक्यो जेतुं महाहवे ॥ १७ ॥
सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे ।आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे ॥ १८ ॥
वनं यास्यामि दुर्धर्ष श्रेयो मे तत्र वै गतम् ।न युद्धं रोचये कृष्ण हन्ति भीष्मो हि नः सदा ॥ १९ ॥
यथा प्रज्वलितं वह्निं पतंगः समभिद्रवन् ।एकतो मृत्युमभ्येति तथाहं भीष्ममीयिवान् ॥ २० ॥
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी ।भ्रातरश्चैव मे शूराः सायकैर्भृशपीडिताः ॥ २१ ॥
मत्कृते भ्रातृसौहार्दाद्राज्यात्प्रभ्रंशनं गताः ।परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन ॥ २२ ॥
जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् ।जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् ॥ २३ ॥
यदि तेऽहमनुग्राह्यो भ्रातृभिः सह केशव ।स्वधर्मस्याविरोधेन तदुदाहर केशव ॥ २४ ॥
एतच्छ्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम् ।प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् ॥ २५ ॥
धर्मपुत्र विषादं त्वं मा कृथाः सत्यसंगर ।यस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः ॥ २६ ॥
अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ ।माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिवेश्वरौ ॥ २७ ॥
मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव ।त्वत्प्रयुक्तो ह्यहं राजन्किं न कुर्यां महाहवे ॥ २८ ॥
हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् ।पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः ॥ २९ ॥
यदि भीष्मे हते राजञ्जयं पश्यसि पाण्डव ।हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम् ॥ ३० ॥
पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे ।विमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात् ॥ ३१ ॥
यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः ।मदर्था भवदर्था ये ये मदीयास्तवैव ते ॥ ३२ ॥
तव भ्राता मम सखा संबन्धी शिष्य एव च ।मांसान्युत्कृत्य वै दद्यामर्जुनार्थे महीपते ॥ ३३ ॥
एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत् ।एष नः समयस्तात तारयेम परस्परम् ।स मां नियुङ्क्ष्व राजेन्द्र यावद्द्वीपो भवाम्यहम् ॥ ३४ ॥
प्रतिज्ञातमुपप्लव्ये यत्तत्पार्थेन पूर्वतः ।घातयिष्यामि गाङ्गेयमित्युलूकस्य संनिधौ ॥ ३५ ॥
परिरक्ष्यं च मम तद्वचः पार्थस्य धीमतः ।अनुज्ञातं तु पार्थेन मया कार्यं न संशयः ॥ ३६ ॥
अथ वा फल्गुनस्यैष भारः परिमितो रणे ।निहनिष्यति संग्रामे भीष्मं परपुरंजयम् ॥ ३७ ॥
अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः ।त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः ।निहन्यादर्जुनः संख्ये किमु भीष्मं नराधिप ॥ ३८ ॥
विपरीतो महावीर्यो गतसत्त्वोऽल्पजीवितः ।भीष्मः शांतनवो नूनं कर्तव्यं नावबुध्यते ॥ ३९ ॥
युधिष्ठिर उवाच ।एवमेतन्महाबाहो यथा वदसि माधव ।सर्वे ह्येते न पर्याप्तास्तव वेगनिवारणे ॥ ४० ॥
नियतं समवाप्स्यामि सर्वमेव यथेप्सितम् ।यस्य मे पुरुषव्याघ्र भवान्नाथो महाबलः ॥ ४१ ॥
सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर ।त्वया नाथेन गोविन्द किमु भीष्मं महाहवे ॥ ४२ ॥
न तु त्वामनृतं कर्तुमुत्सहे स्वार्थगौरवात् ।अयुध्यमानः साहाय्यं यथोक्तं कुरु माधव ॥ ४३ ॥
समयस्तु कृतः कश्चिद्भीष्मेण मम माधव ।मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथंचन ।दुर्योधनार्थे योत्स्यामि सत्यमेतदिति प्रभो ॥ ४४ ॥
स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव ।तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः ।भवता सहिताः सर्वे पृच्छामो मधुसूदन ॥ ४५ ॥
तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् ।रुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम् ॥ ४६ ॥
स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन ।यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे ॥ ४७ ॥
स नो जयस्य दाता च मन्त्रस्य च धृतव्रतः ।बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम् ॥ ४८ ॥
तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव ।पितुः पितरमिष्टं वै धिगस्तु क्षत्रजीविकाम् ॥ ४९ ॥
संजय उवाच ।ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् ।रोचते मे महाबाहो सततं तव भाषितम् ॥ ५० ॥
देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत् ।गम्यतां स वधोपायं प्रष्टुं सागरगासुतः ।वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः ॥ ५१ ॥
ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् ।प्रणम्य शिरसा चैनं मन्त्रं पृच्छाम माधव ।स नो दास्यति यं मन्त्रं तेन योत्स्यामहे परान् ॥ ५२ ॥
एवं संमन्त्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज ।जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् ।विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति ॥ ५३ ॥
प्रविश्य च तदा भीष्मं शिरोभिः प्रतिपेदिरे ।पूजयन्तो महाराज पाण्डवा भरतर्षभ ।प्रणम्य शिरसा चैनं भीष्मं शरणमन्वयुः ॥ ५४ ॥
तानुवाच महाबाहुर्भीष्मः कुरुपितामहः ।स्वागतं तव वार्ष्णेय स्वागतं ते धनंजय ।स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा ॥ ५५ ॥
किं कार्यं वः करोम्यद्य युष्मत्प्रीतिविवर्धनम् ।सर्वात्मना च कर्तास्मि यद्यपि स्यात्सुदुष्करम् ॥ ५६ ॥
तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनः ।उवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः ॥ ५७ ॥
कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि ।प्रजानां संक्षयो न स्यात्कथं तन्मे वदाभिभो ॥ ५८ ॥
भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः ।भवन्तं समरे राजन्विषहेम कथं वयम् ॥ ५९ ॥
न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह ।मण्डलेनैव धनुषा सदा दृश्योऽसि संयुगे ॥ ६० ॥
नाददानं संदधानं विकर्षन्तं धनुर्न च ।पश्यामस्त्वा महाबाहो रथे सूर्यमिव स्थितम् ॥ ६१ ॥
नराश्वरथनागानां हन्तारं परवीरहन् ।क इवोत्सहते हन्तुं त्वां पुमान्भरतर्षभ ॥ ६२ ॥
वर्षता शरवर्षाणि महान्ति पुरुषोत्तम ।क्षयं नीता हि पृतना भवता महती मम ॥ ६३ ॥
यथा युधि जयेयं त्वां यथा राज्यं भवेन्मम ।भवेत्सैन्यस्य वा शान्तिस्तन्मे ब्रूहि पितामह ॥ ६४ ॥
ततोऽब्रवीच्छांतनवः पाण्डवान्पाण्डुपूर्वज ।न कथंचन कौन्तेय मयि जीवति संयुगे ।युष्मासु दृश्यते वृद्धिः सत्यमेतद्ब्रवीमि वः ॥ ६५ ॥
निर्जिते मयि युद्धे तु ध्रुवं जेष्यथ कौरवान् ।क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् ।अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् ॥ ६६ ॥
एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् ।हते मयि हतं सर्वं तस्मादेवं विधीयताम् ॥ ६७ ॥
युधिष्ठिर उवाच ।ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि ।भवन्तं समरे क्रुद्धं दण्डपाणिमिवान्तकम् ॥ ६८ ॥
शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा ।न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः ॥ ६९ ॥
भीष्म उवाच ।सत्यमेतन्महाबाहो यथा वदसि पाण्डव ।नाहं शक्यो रणे जेतुं सेन्द्रैरपि सुरासुरैः ॥ ७० ॥
आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः ।न्यस्तशस्त्रं तु मां राजन्हन्युर्युधि महारथाः ॥ ७१ ॥
निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे ।द्रवमाणे च भीते च तवास्मीति च वादिनि ॥ ७२ ॥
स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रके ।अप्रसूते च दुष्प्रेक्ष्ये न युद्धं रोचते मम ॥ ७३ ॥
इमं च शृणु मे पार्थ संकल्पं पूर्वचिन्तितम् ।अमङ्गल्यध्वजं दृष्ट्वा न युध्येयं कथंचन ॥ ७४ ॥
य एष द्रौपदो राजंस्तव सैन्ये महारथः ।शिखण्डी समराकाङ्क्षी शूरश्च समितिंजयः ॥ ७५ ॥
यथाभवच्च स्त्री पूर्वं पश्चात्पुंस्त्वमुपागतः ।जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् ॥ ७६ ॥
अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम् ।मामेव विशिखैस्तूर्णमभिद्रवतु दंशितः ॥ ७७ ॥
अमङ्गल्यध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः ।न प्रहर्तुमभीप्सामि गृहीतेषुं कथंचन ॥ ७८ ॥
तदन्तरं समासाद्य पाण्डवो मां धनंजयः ।शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ ॥ ७९ ॥
न तं पश्यामि लोकेषु यो मां हन्यात्समुद्यतम् ।ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनंजयात् ॥ ८० ॥
एष तस्मात्पुरोधाय कंचिदन्यं ममाग्रतः ।मां पातयतु बीभत्सुरेवं ते विजयो भवेत् ॥ ८१ ॥
एतत्कुरुष्व कौन्तेय यथोक्तं वचनं मम ।ततो जेष्यसि संग्रामे धार्तराष्ट्रान्समागतान् ॥ ८२ ॥
संजय उवाच ।तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति ।अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् ॥ ८३ ॥
तथोक्तवति गाङ्गेये परलोकाय दीक्षिते ।अर्जुनो दुःखसंतप्तः सव्रीडमिदमब्रवीत् ॥ ८४ ॥
गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता ।पितामहेन संग्रामे कथं योत्स्यामि माधव ॥ ८५ ॥
क्रीडता हि मया बाल्ये वासुदेव महामनाः ।पांसुरूषितगात्रेण महात्मा परुषीकृतः ॥ ८६ ॥
यस्याहमधिरुह्याङ्कं बालः किल गदाग्रज ।तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः ॥ ८७ ॥
नाहं तातस्तव पितुस्तातोऽस्मि तव भारत ।इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया ॥ ८८ ॥
कामं वध्यतु मे सैन्यं नाहं योत्स्ये महात्मना ।जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे ॥ ८९ ॥
श्रीकृष्ण उवाच ।प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे ।क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि ॥ ९० ॥
पातयैनं रथात्पार्थ वज्राहतमिव द्रुमम् ।नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति ॥ ९१ ॥
दिष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते ।हन्ता भीष्मस्य पूर्वेन्द्र इति तन्न तदन्यथा ॥ ९२ ॥
न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् ।त्वदन्यः शक्नुयाद्धन्तुमपि वज्रधरः स्वयम् ॥ ९३ ॥
जहि भीष्मं महाबाहो शृणु चेदं वचो मम ।यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः ॥ ९४ ॥
ज्यायांसमपि चेच्छक्र गुणैरपि समन्वितम् ।आततायिनमामन्त्र्य हन्याद्घातकमागतम् ॥ ९५ ॥
शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनंजय ।योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः ॥ ९६ ॥
अर्जुन उवाच ।शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् ।दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते ॥ ९७ ॥
ते वयं प्रमुखे तस्य स्थापयित्वा शिखण्डिनम् ।गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः ॥ ९८ ॥
अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः ।शिखण्ड्यपि युधां श्रेष्ठो भीष्ममेवाभियास्यतु ॥ ९९ ॥
श्रुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् ।कन्या ह्येषा पुरा जाता पुरुषः समपद्यत ॥ १०० ॥
संजय उवाच ।इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः ।शयनानि यथास्वानि भेजिरे पुरुषर्षभाः ॥ १०१ ॥
« »