Click on words to see what they mean.

संजय उवाच ।ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः ।आजघान रणे पार्थान्सहसेनान्समन्ततः ॥ १ ॥
भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः ।नकुलं च त्रिभिर्बाणैः सहदेवं च सप्तभिः ॥ २ ॥
युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत् ।धृष्टद्युम्नं ततो विद्ध्वा विननाद महाबलः ॥ ३ ॥
तं द्वादशार्धैर्नकुलो माधवश्च त्रिभिः शरैः ।धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च पञ्चभिः ।युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् ॥ ४ ॥
द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत ।एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः ॥ ५ ॥
तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः ।तोत्त्रैरिव महानागं द्रोणं ब्राह्मणपुंगवम् ॥ ६ ॥
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः ।अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ।संग्रामे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः ॥ ७ ॥
तथैवान्ये वध्यमानाः पाण्डवेयैर्महात्मभिः ।पाण्डवानभ्यवर्तन्त विविधायुधपाणयः ।तथैव पाण्डवा राजन्परिवव्रुः पितामहम् ॥ ८ ॥
स समन्तात्परिवृतो रथौघैरपराजितः ।गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् ॥ ९ ॥
रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः ।शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान् ॥ १० ॥
सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः ।कर्णिनालीकनाराचैश्छादयामास तद्बलम् ॥ ११ ॥
अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः ।मुण्डतालवनानीव चकार स रथव्रजान् ॥ १२ ॥
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे ।अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः ॥ १३ ॥
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।निशम्य सर्वभूतानि समकम्पन्त भारत ॥ १४ ॥
अमोघा ह्यपतन्बाणाः पितुस्ते भरतर्षभ ।नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः ॥ १५ ॥
हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः ।अपश्याम महाराज ह्रियमाणान्रणाजिरे ॥ १६ ॥
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश ।महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ।अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः ॥ १७ ॥
संग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम् ।निमग्नाः परलोकाय सवाजिरथकुञ्जराः ॥ १८ ॥
भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च सर्वशः ।अपश्याम रथान्राजञ्शतशोऽथ सहस्रशः ॥ १९ ॥
सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः ।शरैः सुकवचैश्छिन्नैः पट्टिशैश्च विशां पते ॥ २० ॥
गदाभिर्मुसलैश्चैव निस्त्रिंशैश्च शिलीमुखैः ।अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष ॥ २१ ॥
बाहुभिः कार्मुकैः खड्गैः शिरोभिश्च सकुण्डलैः ।तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः ।चापैश्च बहुधा छिन्नैः समास्तीर्यत मेदिनी ॥ २२ ॥
हतारोहा गजा राजन्हयाश्च हतसादिनः ।परिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः ॥ २३ ॥
यतमानाश्च ते वीरा द्रवमाणान्महारथान् ।नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् ॥ २४ ॥
महेन्द्रसमवीर्येण वध्यमाना महाचमूः ।अभज्यत महाराज न च द्वौ सह धावतः ॥ २५ ॥
आविद्धरथनागाश्वं पतितध्वजकूबरम् ।अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ॥ २६ ॥
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा ।प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः ॥ २७ ॥
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः ।प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत ॥ २८ ॥
तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथकुञ्जरम् ।ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ॥ २९ ॥
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः ।उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ॥ ३० ॥
अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस्तव ।प्रहरास्मै नरव्याघ्र न चेन्मोहात्प्रमुह्यसे ॥ ३१ ॥
यत्पुरा कथितं वीर त्वया राज्ञां समागमे ।विराटनगरे पार्थ संजयस्य समीपतः ॥ ३२ ॥
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् ।सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे ॥ ३३ ॥
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदम ।क्षत्रधर्ममनुस्मृत्य युध्यस्व भरतर्षभ ॥ ३४ ॥
इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः ।अकाम इव बीभत्सुरिदं वचनमब्रवीत् ॥ ३५ ॥
अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् ।दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् ॥ ३६ ॥
चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव ।पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् ॥ ३७ ॥
ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः ।यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव ॥ ३८ ॥
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् ।दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे ॥ ३९ ॥
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः ।धनंजयरथं शीघ्रं शरवर्षैरवाकिरत् ॥ ४० ॥
क्षणेन स रथस्तस्य सहयः सहसारथिः ।शरवर्षेण महता न प्राज्ञायत किंचन ॥ ४१ ॥
वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सात्वतः ।चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः ॥ ४२ ॥
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् ।पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः ॥ ४३ ॥
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः ।निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ॥ ४४ ॥
विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम् ।अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ॥ ४५ ॥
तस्य तत्पूजयामास लाघवं शंतनोः सुतः ।साधु पार्थ महाबाहो साधु कुन्तीसुतेति च ॥ ४६ ॥
समाभाष्यैनमपरं प्रगृह्य रुचिरं धनुः ।मुमोच समरे भीष्मः शरान्पार्थरथं प्रति ॥ ४७ ॥
अदर्शयद्वासुदेवो हययाने परं बलम् ।मोघान्कुर्वञ्शरांस्तस्य मण्डलानि विदर्शयन् ॥ ४८ ॥
शुशुभाते नरव्याघ्रौ भीष्मपार्थौ शरक्षतौ ।गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ ॥ ४९ ॥
वासुदेवस्तु संप्रेक्ष्य पार्थस्य मृदुयुद्धताम् ।भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ॥ ५० ॥
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ।वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ॥ ५१ ॥
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ।नामृष्यत महाबाहुर्माधवः परवीरहा ॥ ५२ ॥
उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष ।क्रुद्धो नाम महायोगी प्रचस्कन्द महारथात् ।अभिदुद्राव भीष्मं स भुजप्रहरणो बली ॥ ५३ ॥
प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः ।दारयन्निव पद्भ्यां स जगतीं जगतीश्वरः ॥ ५४ ॥
क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः ।ग्रसन्निव च चेतांसि तावकानां महाहवे ॥ ५५ ॥
दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यन्तमाहवे ।हतो भीष्मो हतो भीष्म इति तत्र स्म सैनिकाः ।क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयान्नराः ॥ ५६ ॥
पीतकौशेयसंवीतो मणिश्यामो जनार्दनः ।शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः ॥ ५७ ॥
स सिंह इव मातङ्गं यूथर्षभ इवर्षभम् ।अभिदुद्राव तेजस्वी विनदन्यादवर्षभः ॥ ५८ ॥
तमापतन्तं संप्रेक्ष्य पुण्डरीकाक्षमाहवे ।असंभ्रमं रणे भीष्मो विचकर्ष महद्धनुः ।उवाच चैनं गोविन्दमसंभ्रान्तेन चेतसा ॥ ५९ ॥
एह्येहि पुण्डरीकाक्ष देवदेव नमोऽस्तु ते ।मामद्य सात्वतश्रेष्ठ पातयस्व महाहवे ॥ ६० ॥
त्वया हि देव संग्रामे हतस्यापि ममानघ ।श्रेय एव परं कृष्ण लोकेऽमुष्मिन्निहैव च ।संभावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे ॥ ६१ ॥
अन्वगेव ततः पार्थस्तमनुद्रुत्य केशवम् ।निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै ॥ ६२ ॥
निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः ।जगाम चैनमादाय वेगेन पुरुषोत्तमः ॥ ६३ ॥
पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा ।निजघ्राह हृषीकेशं कथंचिद्दशमे पदे ॥ ६४ ॥
तत एनमुवाचार्तः क्रोधपर्याकुलेक्षणम् ।निःश्वसन्तं यथा नागमर्जुनः परवीरहा ॥ ६५ ॥
निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि ।यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव ॥ ६६ ॥
मिथ्यावादीति लोकस्त्वां कथयिष्यति माधव ।ममैष भारः सर्वो हि हनिष्यामि यतव्रतम् ॥ ६७ ॥
शपे माधव सख्येन सत्येन सुकृतेन च ।अन्तं यथा गमिष्यामि शत्रूणां शत्रुकर्शन ॥ ६८ ॥
अद्यैव पश्य दुर्धर्षं पात्यमानं महाव्रतम् ।तारापतिमिवापूर्णमन्तकाले यदृच्छया ॥ ६९ ॥
माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनः ।नकिंचिदुक्त्वा सक्रोध आरुरोह रथं पुनः ॥ ७० ॥
तौ रथस्थौ नरव्याघ्रौ भीष्मः शांतनवः पुनः ।ववर्ष शरवर्षेण मेघो वृष्ट्या यथाचलौ ॥ ७१ ॥
प्राणांश्चादत्त योधानां पिता देवव्रतस्तव ।गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये ॥ ७२ ॥
यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवः ।तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता ॥ ७३ ॥
हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः ।निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे ।मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा ॥ ७४ ॥
ते वध्यमाना भीष्मेण कालेनेव युगक्षये ।वीक्षां चक्रुर्महाराज पाण्डवा भयपीडिताः ॥ ७५ ॥
त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव ।पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे ॥ ७६ ॥
महारथं भारत दुष्प्रधर्षं शरौघिणं प्रतपन्तं नरेन्द्रान् ।भीष्मं न शेकुः प्रतिवीक्षितुं ते शरार्चिषं सूर्यमिवातपन्तम् ॥ ७७ ॥
विमृद्नतस्तस्य तु पाण्डुसेनामस्तं जगामाथ सहस्ररश्मिः ।ततो बलानां श्रमकर्शितानां मनोऽवहारं प्रति संबभूव ॥ ७८ ॥
« »