Click on words to see what they mean.

धृतराष्ट्र उवाच ।कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे ।पाण्डवाश्च तथा भीष्मं तन्ममाचक्ष्व संजय ॥ १ ॥
संजय उवाच ।ततः प्रभाते विमले सूर्यस्योदयनं प्रति ।वाद्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ॥ २ ॥
ध्मायत्सु दधिवर्णेषु जलजेषु समन्ततः ।शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि ॥ ३ ॥
कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् ।शिखण्डी सर्वसैन्यानामग्र आसीद्विशां पते ॥ ४ ॥
चक्ररक्षौ ततस्तस्य भीमसेनधनंजयौ ।पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् ॥ ५ ॥
सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः ।धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः ॥ ६ ॥
ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः ।प्रययौ सिंहनादेन नादयन्भरतर्षभ ॥ ७ ॥
विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृतः ।द्रुपदश्च महाराज ततः पश्चादुपाद्रवत् ॥ ८ ॥
केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् ।जघनं पालयामास पाण्डुसैन्यस्य भारत ॥ ९ ॥
एवं व्यूह्य महत्सैन्यं पाण्डवास्तव वाहिनीम् ।अभ्यद्रवन्त संग्रामे त्यक्त्वा जीवितमात्मनः ॥ १० ॥
तथैव कुरवो राजन्भीष्मं कृत्वा महाबलम् ।अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति ॥ ११ ॥
पुत्रैस्तव दुराधर्षै रक्षितः सुमहाबलैः ।ततो द्रोणो महेष्वासः पुत्रश्चास्य महारथः ॥ १२ ॥
भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः ।कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ ॥ १३ ॥
काम्बोजराजो बलवांस्ततः पश्चात्सुदक्षिणः ।मागधश्च जयत्सेनः सौबलश्च बृहद्बलः ॥ १४ ॥
तथेतरे महेष्वासाः सुशर्मप्रमुखा नृपाः ।जघनं पालयामासुस्तव सैन्यस्य भारत ॥ १५ ॥
दिवसे दिवसे प्राप्ते भीष्मः शांतनवो युधि ।आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् ॥ १६ ॥
ततः प्रववृते युद्धं तव तेषां च भारत ।अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम् ॥ १७ ॥
अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् ।भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान् ॥ १८ ॥
तत्र भारत भीमेन पीडितास्तावकाः शरैः ।रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा ॥ १९ ॥
नकुलः सहदेवश्च सात्यकिश्च महारथः ।तव सैन्यं समासाद्य पीडयामासुरोजसा ॥ २० ॥
ते वध्यमानाः समरे तावका भरतर्षभ ।नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् ॥ २१ ॥
ततस्तु तावकं सैन्यं वध्यमानं समन्ततः ।संप्राद्रवद्दिशो राजन्काल्यमानं महारथैः ॥ २२ ॥
त्रातारं नाध्यगच्छन्त तावका भरतर्षभ ।वध्यमानाः शितैर्बाणैः पाण्डवैः सहसृञ्जयैः ॥ २३ ॥
धृतराष्ट्र उवाच ।पीड्यमानं बलं पार्थैर्दृष्ट्वा भीष्मः पराक्रमी ।यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व संजय ॥ २४ ॥
कथं वा पाण्डवान्युद्धे प्रत्युद्यातः परंतपः ।विनिघ्नन्सोमकान्वीरांस्तन्ममाचक्ष्व संजय ॥ २५ ॥
संजय उवाच ।आचक्षे ते महाराज यदकार्षीत्पितामहः ।पीडिते तव पुत्रस्य सैन्ये पाण्डवसृञ्जयैः ॥ २६ ॥
प्रहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज ।अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् ॥ २७ ॥
तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् ।नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः ॥ २८ ॥
स पाण्डवान्महेष्वासः पाञ्चालांश्च ससृञ्जयान् ।अभ्यद्रवत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः ॥ २९ ॥
स पाण्डवानां प्रवरान्पञ्च राजन्महारथान् ।आत्तशस्त्रान्रणे यत्तान्वारयामास सायकैः ।नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा ॥ ३० ॥
निजघ्ने समरे क्रुद्धो हस्त्यश्वममितं बहु ।रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभः ॥ ३१ ॥
सादिनश्चाश्वपृष्ठेभ्यः पदातींश्च समागतान् ।गजारोहान्गजेभ्यश्च परेषां विदधद्भयम् ॥ ३२ ॥
तमेकं समरे भीष्मं त्वरमाणं महारथम् ।पाण्डवाः समवर्तन्त वज्रपाणिमिवासुराः ॥ ३३ ॥
शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्शरान् ।दिक्ष्वदृश्यत सर्वासु घोरं संधारयन्वपुः ॥ ३४ ॥
मण्डलीकृतमेवास्य नित्यं धनुरदृश्यत ।संग्रामे युध्यमानस्य शक्रचापनिभं महत् ॥ ३५ ॥
तद्दृष्ट्वा समरे कर्म तव पुत्रा विशां पते ।विस्मयं परमं प्राप्ताः पितामहमपूजयन् ॥ ३६ ॥
पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव ।युध्यमानं रणे शूरं विप्रचित्तिमिवामराः ।न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् ॥ ३७ ॥
दशमेऽहनि संप्राप्ते रथानीकं शिखण्डिनः ।अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम् ॥ ३८ ॥
तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ।आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् ॥ ३९ ॥
स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् ।अनिच्छन्नपि संक्रुद्धः प्रहसन्निदमब्रवीत् ॥ ४० ॥
काममभ्यस वा मा वा न त्वां योत्स्ये कथंचन ।यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी ॥ ४१ ॥
तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्छितः ।उवाच भीष्मं समरे सृक्किणी परिलेलिहन् ॥ ४२ ॥
जानामि त्वां महाबाहो क्षत्रियाणां क्षयंकरम् ।मया श्रुतं च ते युद्धं जामदग्न्येन वै सह ॥ ४३ ॥
दिव्यश्च ते प्रभावोऽयं स मया बहुशः श्रुतः ।जानन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह ॥ ४४ ॥
पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम ।अद्य त्वा योधयिष्यामि रणे पुरुषसत्तम ॥ ४५ ॥
ध्रुवं च त्वा हनिष्यामि शपे सत्येन तेऽग्रतः ।एतच्छ्रुत्वा वचो मह्यं यत्क्षमं तत्समाचर ॥ ४६ ॥
काममभ्यस वा मा वा न मे जीवन्विमोक्ष्यसे ।सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिंजय ॥ ४७ ॥
एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः ।अविध्यत रणे राजन्प्रणुन्नं वाक्यसायकैः ॥ ४८ ॥
तस्य तद्वचनं श्रुत्वा सव्यसाची परंतपः ।कालोऽयमिति संचिन्त्य शिखण्डिनमचोदयत् ॥ ४९ ॥
अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः ।अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् ॥ ५० ॥
न हि ते संयुगे पीडां शक्तः कर्तुं महाबलः ।तस्मादद्य महाबाहो वीर भीष्ममभिद्रव ॥ ५१ ॥
अहत्वा समरे भीष्मं यदि यास्यसि मारिष ।अवहास्योऽस्य लोकस्य भविष्यसि मया सह ॥ ५२ ॥
नावहास्या यथा वीर भवेम परमाहवे ।तथा कुरु रणे यत्नं साधयस्व पितामहम् ॥ ५३ ॥
अहं ते रक्षणं युद्धे करिष्यामि परंतप ।वारयन्रथिनः सर्वान्साधयस्व पितामहम् ॥ ५४ ॥
द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् ।चित्रसेनं विकर्णं च सैन्धवं च जयद्रथम् ॥ ५५ ॥
विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् ।भगदत्तं तथा शूरं मागधं च महारथम् ॥ ५६ ॥
सौमदत्तिं रणे शूरमार्श्यशृङ्गिं च राक्षसम् ।त्रिगर्तराजं च रणे सह सर्वैर्महारथैः ।अहमावारयिष्यामि वेलेव मकरालयम् ॥ ५७ ॥
कुरूंश्च सहितान्सर्वान्ये चैषां सैनिकाः स्थिताः ।निवारयिष्यामि रणे साधयस्व पितामहम् ॥ ५८ ॥
« »