Click on words to see what they mean.

संजय उवाच ।अर्जुनस्तु नरव्याघ्र सुशर्मप्रमुखान्नृपान् ।अनयत्प्रेतराजस्य भवनं सायकैः शितैः ॥ १ ॥
सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे ।वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः ॥ २ ॥
तान्निवार्य शरौघेण शक्रसूनुर्महारथः ।सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम् ॥ ३ ॥
ते वध्यमानाः पार्थेन कालेनेव युगक्षये ।व्यद्रवन्त रणे राजन्भये जाते महारथाः ॥ ४ ॥
उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष ।गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश ॥ ५ ॥
अपरे तुद्यमानास्तु वाजिनागरथा रणात् ।त्वरया परया युक्ताः प्राद्रवन्त विशां पते ॥ ६ ॥
पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे ।निरपेक्षा व्यधावन्त तेन तेन स्म भारत ॥ ७ ॥
वार्यमाणाः स्म बहुशस्त्रैगर्तेन सुशर्मणा ।तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे ॥ ८ ॥
तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव ।पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम् ॥ ९ ॥
सर्वोद्योगेन महता धनंजयमुपाद्रवत् ।त्रिगर्ताधिपतेरर्थे जीवितस्य विशां पते ॥ १० ॥
स एकः समरे तस्थौ किरन्बहुविधाञ्शरान् ।भ्रातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः ॥ ११ ॥
तथैव पाण्डवा राजन्सर्वोद्योगेन दंशिताः ।प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः ॥ १२ ॥
जानन्तोऽपि रणे शौर्यं घोरं गाण्डीवधन्वनः ।हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः ॥ १३ ॥
ततस्तालध्वजः शूरः पाण्डवानामनीकिनीम् ।छादयामास समरे शरैः संनतपर्वभिः ॥ १४ ॥
एकीभूतास्ततः सर्वे कुरवः पाण्डवैः सह ।अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे ॥ १५ ॥
सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिरायसैः ।अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः ॥ १६ ॥
तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः ।पुनर्विव्याध सप्तत्या सारथिं चास्य सप्तभिः ॥ १७ ॥
भीमसेनस्तु राजानं बाह्लिकं प्रपितामहम् ।विद्ध्वानदन्महानादं शार्दूल इव कानने ॥ १८ ॥
आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः ।चित्रसेनं त्रिभिर्बाणैर्विव्याध हृदये भृशम् ॥ १९ ॥
समागतौ तौ तु रणे महामात्रौ व्यरोचताम् ।यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ ॥ २० ॥
तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः ।ननाद बलवन्नादं सौभद्रः परवीरहा ॥ २१ ॥
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ।आरुरोह रथं तूर्णं दुर्मुखस्य विशां पते ॥ २२ ॥
द्रोणश्च द्रुपदं विद्ध्वा शरैः संनतपर्वभिः ।सारथिं चास्य विव्याध त्वरमाणः पराक्रमी ॥ २३ ॥
पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे ।अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन् ॥ २४ ॥
भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम् ।व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः ॥ २५ ॥
ससंभ्रमो महाराज संशयं परमं गतः ।अवप्लुत्य ततो वाहाद्बाह्लिकः पुरुषोत्तमः ।आरुरोह रथं तूर्णं लक्ष्मणस्य महारथः ॥ २६ ॥
सात्यकिः कृतवर्माणं वारयित्वा महारथः ।शरैर्बहुविधै राजन्नाससाद पितामहम् ॥ २७ ॥
स विद्ध्वा भारतं षष्ट्या निशितैर्लोमवाहिभिः ।ननर्तेव रथोपस्थे विधुन्वानो महद्धनुः ॥ २८ ॥
तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः ।हेमचित्रां महावेगां नागकन्योपमां शुभाम् ॥ २९ ॥
तामापतन्तीं सहसा मृत्युकल्पां सुतेजनाम् ।ध्वंसयामास वार्ष्णेयो लाघवेन महायशाः ॥ ३० ॥
अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा ।न्यपतद्धरणीपृष्ठे महोल्केव गतप्रभा ॥ ३१ ॥
वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं घोरदर्शनाम् ।वेगवद्गृह्य चिक्षेप पितामहरथं प्रति ॥ ३२ ॥
वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे ।अभिदुद्राव वेगेन कालरात्रिर्यथा नरम् ॥ ३३ ॥
तामापतन्तीं सहसा द्विधा चिच्छेद भारत ।क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले ॥ ३४ ॥
छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैः ।आजघानोरसि क्रुद्धः प्रहसञ्शत्रुकर्शनः ॥ ३५ ॥
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज ।परिवव्रू रणे भीष्मं माधवत्राणकारणात् ॥ ३६ ॥
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।पाण्डवानां कुरूणां च समरे विजयैषिणाम् ॥ ३७ ॥
« »