Click on words to see what they mean.

कण्व उवाच ।मातलिस्तु व्रजन्मार्गे नारदेन महर्षिणा ।वरुणं गच्छता द्रष्टुं समागच्छद्यदृच्छया ॥ १ ॥
नारदोऽथाब्रवीदेनं क्व भवान्गन्तुमुद्यतः ।स्वेन वा सूत कार्येण शासनाद्वा शतक्रतोः ॥ २ ॥
मातलिर्नारदेनैवं संपृष्टः पथि गच्छता ।यथावत्सर्वमाचष्ट स्वकार्यं वरुणं प्रति ॥ ३ ॥
तमुवाचाथ स मुनिर्गच्छावः सहिताविति ।सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः ॥ ४ ॥
अहं ते सर्वमाख्यास्ये दर्शयन्वसुधातलम् ।दृष्ट्वा तत्र वरं कंचिद्रोचयिष्याव मातले ॥ ५ ॥
अवगाह्य ततो भूमिमुभौ मातलिनारदौ ।ददृशाते महात्मानौ लोकपालमपां पतिम् ॥ ६ ॥
तत्र देवर्षिसदृशीं पूजां प्राप स नारदः ।महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत ॥ ७ ॥
तावुभौ प्रीतमनसौ कार्यवत्तां निवेद्य ह ।वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः ॥ ८ ॥
नारदः सर्वभूतानामन्तर्भूमिनिवासिनाम् ।जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः ॥ ९ ॥
नारद उवाच ।दृष्टस्ते वरुणस्तात पुत्रपौत्रसमावृतः ।पश्योदकपतेः स्थानं सर्वतोभद्रमृद्धिमत् ॥ १० ॥
एष पुत्रो महाप्राज्ञो वरुणस्येह गोपतेः ।एष तं शीलवृत्तेन शौचेन च विशिष्यते ॥ ११ ॥
एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः ।रूपवान्दर्शनीयश्च सोमपुत्र्या वृतः पतिः ॥ १२ ॥
ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतः श्रियम् ।आदित्यस्यैव गोः पुत्रो ज्येष्ठः पुत्रः कृतः स्मृतः ॥ १३ ॥
भवनं पश्य वारुण्या यदेतत्सर्वकाञ्चनम् ।यां प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे ॥ १४ ॥
एतानि हृतराज्यानां दैतेयानां स्म मातले ।दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत ॥ १५ ॥
अक्षयाणि किलैतानि विवर्तन्ते स्म मातले ।अनुभावप्रयुक्तानि सुरैरवजितानि ह ॥ १६ ॥
अत्र राक्षसजात्यश्च भूतजात्यश्च मातले ।दिव्यप्रहरणाश्चासन्पूर्वदैवतनिर्मिताः ॥ १७ ॥
अग्निरेष महार्चिष्माञ्जागर्ति वरुणह्रदे ।वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता ॥ १८ ॥
एष गाण्डीमयश्चापो लोकसंहारसंभृतः ।रक्ष्यते दैवतैर्नित्यं यतस्तद्गाण्डिवं धनुः ॥ १९ ॥
एष कृत्ये समुत्पन्ने तत्तद्धारयते बलम् ।सहस्रशतसंख्येन प्राणेन सततं ध्रुवम् ॥ २० ॥
अशास्यानपि शास्त्येष रक्षोबन्धुषु राजसु ।सृष्टः प्रथमजो दण्डो ब्रह्मणा ब्रह्मवादिना ॥ २१ ॥
एतच्छत्रं नरेन्द्राणां महच्छक्रेण भाषितम् ।पुत्राः सलिलराजस्य धारयन्ति महोदयम् ॥ २२ ॥
एतत्सलिलराजस्य छत्रं छत्रगृहे स्थितम् ।सर्वतः सलिलं शीतं जीमूत इव वर्षति ॥ २३ ॥
एतच्छत्रात्परिभ्रष्टं सलिलं सोमनिर्मलम् ।तमसा मूर्छितं याति येन नार्छति दर्शनम् ॥ २४ ॥
बहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले ।तव कार्योपरोधस्तु तस्माद्गच्छाव माचिरम् ॥ २५ ॥
« »