Click on words to see what they mean.

वैशंपायन उवाच ।जामदग्न्यवचः श्रुत्वा कण्वोऽपि भगवानृषिः ।दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥ १ ॥
अक्षयश्चाव्ययश्चैव ब्रह्मा लोकपितामहः ।तथैव भगवन्तौ तौ नरनारायणावृषी ॥ २ ॥
आदित्यानां हि सर्वेषां विष्णुरेकः सनातनः ।अजय्यश्चाव्ययश्चैव शाश्वतः प्रभुरीश्वरः ॥ ३ ॥
निमित्तमरणास्त्वन्ये चन्द्रसूर्यौ मही जलम् ।वायुरग्निस्तथाकाशं ग्रहास्तारागणास्तथा ॥ ४ ॥
ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा ।क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः ॥ ५ ॥
मुहूर्तमरणास्त्वन्ये मानुषा मृगपक्षिणः ।तिर्यग्योन्यश्च ये चान्ये जीवलोकचराः स्मृताः ॥ ६ ॥
भूयिष्ठेन तु राजानः श्रियं भुक्त्वायुषः क्षये ।मरणं प्रतिगच्छन्ति भोक्तुं सुकृतदुष्कृतम् ॥ ७ ॥
स भवान्धर्मपुत्रेण शमं कर्तुमिहार्हति ।पाण्डवाः कुरवश्चैव पालयन्तु वसुंधराम् ॥ ८ ॥
बलवानहमित्येव न मन्तव्यं सुयोधन ।बलवन्तो हि बलिभिर्दृश्यन्ते पुरुषर्षभ ॥ ९ ॥
न बलं बलिनां मध्ये बलं भवति कौरव ।बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः ॥ १० ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।मातलेर्दातुकामस्य कन्यां मृगयतो वरम् ॥ ११ ॥
मतस्त्रैलोक्यराजस्य मातलिर्नाम सारथिः ।तस्यैकैव कुले कन्या रूपतो लोकविश्रुता ॥ १२ ॥
गुणकेशीति विख्याता नाम्ना सा देवरूपिणी ।श्रिया च वपुषा चैव स्त्रियोऽन्याः सातिरिच्यते ॥ १३ ॥
तस्याः प्रदानसमयं मातलिः सह भार्यया ।ज्ञात्वा विममृशे राजंस्तत्परः परिचिन्तयन् ॥ १४ ॥
धिक्खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम् ।नराणामृद्धसत्त्वानां कुले कन्याप्ररोहणम् ॥ १५ ॥
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते ।कुलत्रयं संशयितं कुरुते कन्यका सताम् ॥ १६ ॥
देवमानुषलोकौ द्वौ मानसेनैव चक्षुषा ।अवगाह्यैव विचितौ न च मे रोचते वरः ॥ १७ ॥
न देवान्नैव दितिजान्न गन्धर्वान्न मानुषान् ।अरोचयं वरकृते तथैव बहुलानृषीन् ॥ १८ ॥
भार्यया तु स संमन्त्र्य सह रात्रौ सुधर्मया ।मातलिर्नागलोकाय चकार गमने मतिम् ॥ १९ ॥
न मे देवमनुष्येषु गुणकेश्याः समो वरः ।रूपतो दृश्यते कश्चिन्नागेषु भविता ध्रुवम् ॥ २० ॥
इत्यामन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम् ।कन्यां शिरस्युपाघ्राय प्रविवेश महीतलम् ॥ २१ ॥
« »