Click on words to see what they mean.

दुर्योधन उवाच ।यदाह विदुरः कृष्णे सर्वं तत्सत्यमुच्यते ।अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः ॥ १ ॥
यत्तु सत्कारसंयुक्तं देयं वसु जनार्दने ।अनेकरूपं राजेन्द्र न तद्देयं कदाचन ॥ २ ॥
देशः कालस्तथायुक्तो न हि नार्हति केशवः ।मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति ॥ ३ ॥
अवमानश्च यत्र स्यात्क्षत्रियस्य विशां पते ।न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः ॥ ४ ॥
स हि पूज्यतमो देवः कृष्णः कमललोचनः ।त्रयाणामपि लोकानां विदितं मम सर्वथा ॥ ५ ॥
न तु तस्मिन्प्रदेयं स्यात्तथा कार्यगतिः प्रभो ।विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात् ॥ ६ ॥
वैशंपायन उवाच ।तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः ।वैचित्रवीर्यं राजानमिदं वचनमब्रवीत् ॥ ७ ॥
सत्कृतोऽसत्कृतो वापि न क्रुध्येत जनार्दनः ।नालमन्यमवज्ञातुमवज्ञातोऽपि केशवः ॥ ८ ॥
यत्तु कार्यं महाबाहो मनसा कार्यतां गतम् ।सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा ॥ ९ ॥
स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया ।वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः ॥ १० ॥
धर्म्यमर्थ्यं स धर्मात्मा ध्रुवं वक्ता जनार्दनः ।तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह ॥ ११ ॥
दुर्योधन उवाच ।न पर्यायोऽस्ति यद्राजञ्श्रियं निष्केवलामहम् ।तैः सहेमामुपाश्नीयां जीवञ्जीवैः पितामह ॥ १२ ॥
इदं तु सुमहत्कार्यं शृणु मे यत्समर्थितम् ।परायणं पाण्डवानां नियंस्यामि जनार्दनम् ॥ १३ ॥
तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा ।पाण्डवाश्च विधेया मे स च प्रातरिहेष्यति ॥ १४ ॥
अत्रोपायं यथा सम्यङ्न बुध्येत जनार्दनः ।न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे ॥ १५ ॥
वैशंपायन उवाच ।तस्य तद्वचनं श्रुत्वा घोरं कृष्णाभिसंहितम् ।धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत् ॥ १६ ॥
ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः ।मैवं वोचः प्रजापाल नैष धर्मः सनातनः ॥ १७ ॥
दूतश्च हि हृषीकेशः संबन्धी च प्रियश्च नः ।अपापः कौरवेयेषु कथं बन्धनमर्हति ॥ १८ ॥
भीष्म उवाच ।परीतो धृतराष्ट्रायं तव पुत्रः सुमन्दधीः ।वृणोत्यनर्थं न त्वर्थं याच्यमानः सुहृद्गणैः ॥ १९ ॥
इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम् ।वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे ॥ २० ॥
कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः ।तव पुत्रः सहामात्यः क्षणेन न भविष्यति ॥ २१ ॥
पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः ।नोत्सहेऽनर्थसंयुक्तां वाचं श्रोतुं कथंचन ॥ २२ ॥
वैशंपायन उवाच ।इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् ।उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः ॥ २३ ॥
« »