Click on words to see what they mean.

वैशंपायन उवाच ।प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम् ।ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति ॥ १ ॥
तं प्रयान्तं महाबाहुमनुज्ञाप्य ततो नृप ।पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः ॥ २ ॥
धार्तराष्ट्रास्तमायान्तं प्रत्युज्जग्मुः स्वलंकृताः ।दुर्योधनमृते सर्वे भीष्मद्रोणकृपादयः ॥ ३ ॥
पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः ।यानैर्बहुविधैरन्ये पद्भिरेव तथापरे ॥ ४ ॥
स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा ।द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ ॥ ५ ॥
कृष्णसंमाननार्थं च नगरं समलंकृतम् ।बभूवू राजमार्गाश्च बहुरत्नसमाचिताः ॥ ६ ॥
न स्म कश्चिद्गृहे राजंस्तदासीद्भरतर्षभ ।न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया ॥ ७ ॥
राजमार्गे नरा न स्म संभवन्त्यवनिं गताः ।तथा हि सुमहद्राजन्हृषीकेशप्रवेशने ॥ ८ ॥
आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि ।प्रचलन्तीव भारेण दृश्यन्ते स्म महीतले ॥ ९ ॥
तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः ।प्रनष्टगतयोऽभूवन्राजमार्गे नरैर्वृते ॥ १० ॥
स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः ।पाण्डुरं पुण्डरीकाक्षः प्रासादैरुपशोभितम् ॥ ११ ॥
तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः ।वैचित्रवीर्यं राजानमभ्यगच्छदरिंदमः ॥ १२ ॥
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वरः ।सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः ॥ १३ ॥
कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः ।आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ॥ १४ ॥
ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम् ।स भीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा ॥ १५ ॥
तेषु धर्मानुपूर्वीं तां प्रयुज्य मधुसूदनः ।यथावयः समीयाय राजभिस्तत्र माधवः ॥ १६ ॥
अथ द्रोणं सपुत्रं स बाह्लीकं च यशस्विनम् ।कृपं च सोमदत्तं च समीयाय जनार्दनः ॥ १७ ॥
तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम् ।शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः ॥ १८ ॥
अथ गां मधुपर्कं चाप्युदकं च जनार्दने ।उपजह्रुर्यथान्यायं धृतराष्ट्रपुरोहिताः ॥ १९ ॥
कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून् ।आस्ते संबन्धकं कुर्वन्कुरुभिः परिवारितः ॥ २० ॥
सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः ।राजानं समनुज्ञाप्य निराक्रामदरिंदमः ॥ २१ ॥
तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि ।विदुरावसथं रम्यमुपातिष्ठत माधवः ॥ २२ ॥
विदुरः सर्वकल्याणैरभिगम्य जनार्दनम् ।अर्चयामास दाशार्हं सर्वकामैरुपस्थितम् ॥ २३ ॥
कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित् ।कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम् ॥ २४ ॥
प्रीयमाणस्य सुहृदो विदुषो बुद्धिसत्तमः ।धर्मनित्यस्य च तदा गतदोषस्य धीमतः ॥ २५ ॥
तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम् ।क्षत्तुराचष्ट दाशार्हः सर्वप्रत्यक्षदर्शिवान् ॥ २६ ॥
« »