Click on words to see what they mean.

वैशंपायन उवाच ।प्रयान्तं देवकीपुत्रं परवीररुजो दश ।महारथा महाबाहुमन्वयुः शस्त्रपाणयः ॥ १ ॥
पदातीनां सहस्रं च सादिनां च परंतप ।भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोऽपरे ॥ २ ॥
जनमेजय उवाच ।कथं प्रयातो दाशार्हो महात्मा मधुसूदनः ।कानि वा व्रजतस्तस्य निमित्तानि महौजसः ॥ ३ ॥
वैशंपायन उवाच ।तस्य प्रयाणे यान्यासन्नद्भुतानि महात्मनः ।तानि मे शृणु दिव्यानि दैवान्यौत्पातिकानि च ॥ ४ ॥
अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत ।अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम् ॥ ५ ॥
प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसत्तमाः ।विपरीता दिशः सर्वा न प्राज्ञायत किंचन ॥ ६ ॥
प्राज्वलन्नग्नयो राजन्पृथिवी समकम्पत ।उदपानाश्च कुम्भाश्च प्रासिञ्चञ्शतशो जलम् ॥ ७ ॥
तमःसंवृतमप्यासीत्सर्वं जगदिदं तदा ।न दिशो नादिशो राजन्प्रज्ञायन्ते स्म रेणुना ॥ ८ ॥
प्रादुरासीन्महाञ्शब्दः खे शरीरं न दृश्यते ।सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत् ॥ ९ ॥
प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः ।आरुजन्गणशो वृक्षान्परुषो भीमनिस्वनः ॥ १० ॥
यत्र यत्र तु वार्ष्णेयो वर्तते पथि भारत ।तत्र तत्र सुखो वायुः सर्वं चासीत्प्रदक्षिणम् ॥ ११ ॥
ववर्ष पुष्पवर्षं च कमलानि च भूरिशः ।समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः ॥ १२ ॥
स गच्छन्ब्राह्मणै राजंस्तत्र तत्र महाभुजः ।अर्च्यते मधुपर्कैश्च सुमनोभिर्वसुप्रदः ॥ १३ ॥
तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः ।स्त्रियः पथि समागम्य सर्वभूतहिते रतम् ॥ १४ ॥
स शालिभवनं रम्यं सर्वसस्यसमाचितम् ।सुखं परमधर्मिष्ठमत्यगाद्भरतर्षभ ॥ १५ ॥
पश्यन्बहुपशून्ग्रामान्रम्यान्हृदयतोषणान् ।पुराणि च व्यतिक्रामन्राष्ट्राणि विविधानि च ॥ १६ ॥
नित्यहृष्टाः सुमनसो भारतैरभिरक्षिताः ।नोद्विग्नाः परचक्राणामनयानामकोविदाः ॥ १७ ॥
उपप्लव्यादथायान्तं जनाः पुरनिवासिनः ।पथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया ॥ १८ ॥
ते तु सर्वे सुनामानमग्निमिद्धमिव प्रभुम् ।अर्चयामासुरर्च्यं तं देशातिथिमुपस्थितम् ॥ १९ ॥
वृकस्थलं समासाद्य केशवः परवीरहा ।प्रकीर्णरश्मावादित्ये विमले लोहितायति ॥ २० ॥
अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि ।रथमोचनमादिश्य संध्यामुपविवेश ह ॥ २१ ॥
दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः ।मुमोच सर्वं वर्माणि मुक्त्वा चैनानवासृजत् ॥ २२ ॥
अभ्यतीत्य तु तत्सर्वमुवाच मधुसूदनः ।युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे क्षपाम् ॥ २३ ॥
तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः ।क्षणेन चान्नपानानि गुणवन्ति समार्जयन् ॥ २४ ॥
तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप ।आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः ॥ २५ ॥
तेऽभिगम्य महात्मानं हृषीकेशमरिंदमम् ।पूजां चक्रुर्यथान्यायमाशीर्मङ्गलसंयुताम् ॥ २६ ॥
ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम् ।न्यवेदयन्त वेश्मानि रत्नवन्ति महात्मने ॥ २७ ॥
तान्प्रभुः कृतमित्युक्त्वा सत्कृत्य च यथार्हतः ।अभ्येत्य तेषां वेश्मानि पुनरायात्सहैव तैः ॥ २८ ॥
सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः ।भुक्त्वा च सह तैः सर्वैरवसत्तां क्षपां सुखम् ॥ २९ ॥
« »