Click on words to see what they mean.

अर्जुन उवाच ।कुरूणामद्य सर्वेषां भवान्सुहृदनुत्तमः ।संबन्धी दयितो नित्यमुभयोः पक्षयोरपि ॥ १ ॥
पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम् ।समर्थः प्रशमं चैषां कर्तुं त्वमसि केशव ॥ २ ॥
त्वमितः पुण्डरीकाक्ष सुयोधनममर्षणम् ।शान्त्यर्थं भारतं ब्रूया यत्तद्वाच्यममित्रहन् ॥ ३ ॥
त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम् ।हितं नादास्यते बालो दिष्टस्य वशमेष्यति ॥ ४ ॥
भगवानुवाच ।धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम् ।एष यास्यामि राजानं धृतराष्ट्रमभीप्सया ॥ ५ ॥
वैशंपायन उवाच ।ततो व्यपेते तमसि सूर्ये विमल उद्गते ।मैत्रे मुहूर्ते संप्राप्ते मृद्वर्चिषि दिवाकरे ॥ ६ ॥
कौमुदे मासि रेवत्यां शरदन्ते हिमागमे ।स्फीतसस्यसुखे काले कल्यः सत्त्ववतां वरः ॥ ७ ॥
मङ्गल्याः पुण्यनिर्घोषा वाचः शृण्वंश्च सूनृताः ।ब्राह्मणानां प्रतीतानामृषीणामिव वासवः ॥ ८ ॥
कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिरलंकृतः ।उपतस्थे विवस्वन्तं पावकं च जनार्दनः ॥ ९ ॥
ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च ।अग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः ॥ १० ॥
तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः ।शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम् ॥ ११ ॥
रथ आरोप्यतां शङ्खश्चक्रं च गदया सह ।उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च ॥ १२ ॥
दुर्योधनो हि दुष्टात्मा कर्णश्च सहसौबलः ।न च शत्रुरवज्ञेयः प्राकृतोऽपि बलीयसा ॥ १३ ॥
ततस्तन्मतमाज्ञाय केशवस्य पुरःसराः ।प्रसस्रुर्योजयिष्यन्तो रथं चक्रगदाभृतः ॥ १४ ॥
तं दीप्तमिव कालाग्निमाकाशगमिवाध्वगम् ।चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलंकृतम् ॥ १५ ॥
अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैः समृगपक्षिभिः ।पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः ॥ १६ ॥
तरुणादित्यसंकाशं बृहन्तं चारुदर्शनम् ।मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम् ॥ १७ ॥
सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम् ।यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम् ॥ १८ ॥
वाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैः ।स्नातैः संपादयां चक्रुः संपन्नैः सर्वसंपदा ॥ १९ ॥
महिमानं तु कृष्णस्य भूय एवाभिवर्धयन् ।सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः ॥ २० ॥
तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम् ।आरुरोह रथं शौरिर्विमानमिव पुण्यकृत् ॥ २१ ॥
ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः ।पृथिवीं चान्तरिक्षं च रथघोषेण नादयन् ॥ २२ ॥
व्यपोढाभ्रघनः कालः क्षणेन समपद्यत ।शिवश्चानुववौ वायुः प्रशान्तमभवद्रजः ॥ २३ ॥
प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः ।प्रयाणे वासुदेवस्य बभूवुरनुयायिनः ॥ २४ ॥
मङ्गल्यार्थपदैः शब्दैरन्ववर्तन्त सर्वशः ।सारसाः शतपत्राश्च हंसाश्च मधुसूदनम् ॥ २५ ॥
मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकः ।प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत ॥ २६ ॥
वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः ।शुक्रनारदवाल्मीका मरुतः कुशिको भृगुः ॥ २७ ॥
ब्रह्मदेवर्षयश्चैव कृष्णं यदुसुखावहम् ।प्रदक्षिणमवर्तन्त सहिता वासवानुजम् ॥ २८ ॥
एवमेतैर्महाभागैर्महर्षिगणसाधुभिः ।पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति ॥ २९ ॥
तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः ।भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ ॥ ३० ॥
चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः ।द्रुपदः काशिराजश्च शिखण्डी च महारथः ॥ ३१ ॥
धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह ।संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम् ॥ ३२ ॥
ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः ।राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा ॥ ३३ ॥
यो नैव कामान्न भयान्न लोभान्नार्थकारणात् ।अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः ॥ ३४ ॥
धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवः ।ईश्वरः सर्वभूतानां देवदेवः प्रतापवान् ॥ ३५ ॥
तं सर्वगुणसंपन्नं श्रीवत्सकृतलक्षणम् ।संपरिष्वज्य कौन्तेयः संदेष्टुमुपचक्रमे ॥ ३६ ॥
या सा बाल्यात्प्रभृत्यस्मान्पर्यवर्धयताबला ।उपवासतपःशीला सदा स्वस्त्ययने रता ॥ ३७ ॥
देवतातिथिपूजासु गुरुशुश्रूषणे रता ।वत्सला प्रियपुत्रा च प्रियास्माकं जनार्दन ॥ ३८ ॥
सुयोधनभयाद्या नोऽत्रायतामित्रकर्शन ।महतो मृत्युसंबाधादुत्तरन्नौरिवार्णवात् ॥ ३९ ॥
अस्मत्कृते च सततं यया दुःखानि माधव ।अनुभूतान्यदुःखार्हा तां स्म पृच्छेरनामयम् ॥ ४० ॥
भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम् ।अभिवाद्य स्वजेथाश्च पाण्डवान्परिकीर्तयन् ॥ ४१ ॥
ऊढात्प्रभृति दुःखानि श्वशुराणामरिंदम ।निकारानतदर्हा च पश्यन्ती दुःखमश्नुते ॥ ४२ ॥
अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययः ।यदहं मातरं क्लिष्टां सुखे दध्यामरिंदम ॥ ४३ ॥
प्रव्रजन्तोऽन्वधावत्सा कृपणा पुत्रगृद्धिनी ।रुदतीमपहायैनामुपगच्छाम यद्वनम् ॥ ४४ ॥
न नूनं म्रियते दुःखैः सा चेज्जीवति केशव ।तथा पुत्राधिभिर्गाढमार्ता ह्यानर्तसत्कृता ॥ ४५ ॥
अभिवाद्या तु सा कृष्ण त्वया मद्वचनाद्विभो ।धृतराष्ट्रश्च कौरव्यो राजानश्च वयोऽधिकाः ॥ ४६ ॥
भीष्मं द्रोणं कृपं चैव महाराजं च बाह्लिकम् ।द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक् ॥ ४७ ॥
विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम् ।अगाधबुद्धिं धर्मज्ञं स्वजेथा मधुसूदन ॥ ४८ ॥
इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः ।अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम् ॥ ४९ ॥
व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम् ।अब्रवीत्परवीरघ्नं दाशार्हमपराजितम् ॥ ५० ॥
यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये ।अर्धराज्यस्य गोविन्द विदितं सर्वराजसु ॥ ५१ ॥
तच्चेद्दद्यादसङ्गेन सत्कृत्यानवमन्य च ।प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात् ॥ ५२ ॥
अतश्चेदन्यथा कर्ता धार्तराष्ट्रोऽनुपायवित् ।अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन ॥ ५३ ॥
एवमुक्ते पाण्डवेन पर्यहृष्यद्वृकोदरः ।मुहुर्मुहुः क्रोधवशात्प्रावेपत च पाण्डवः ॥ ५४ ॥
वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रवान् ।धनंजयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम् ॥ ५५ ॥
तस्य तं निनदं श्रुत्वा संप्रावेपन्त धन्विनः ।वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ॥ ५६ ॥
इत्युक्त्वा केशवं तत्र तथा चोक्त्वा विनिश्चयम् ।अनुज्ञातो निववृते परिष्वज्य जनार्दनम् ॥ ५७ ॥
तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः ।तूर्णमभ्यपतद्धृष्टः सैन्यसुग्रीववाहनः ॥ ५८ ॥
ते हया वासुदेवस्य दारुकेण प्रचोदिताः ।पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम् ॥ ५९ ॥
अथापश्यन्महाबाहुरृषीनध्वनि केशवः ।ब्राह्म्या श्रिया दीप्यमानान्स्थितानुभयतः पथि ॥ ६० ॥
सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनः ।यथावत्तानृषीन्सर्वानभ्यभाषत पूजयन् ॥ ६१ ॥
कच्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितः ।ब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने ॥ ६२ ॥
तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः ।भगवन्तः क्व संसिद्धाः का वीथी भवतामिह ॥ ६३ ॥
किं वा भगवतां कार्यमहं किं करवाणि वः ।केनार्थेनोपसंप्राप्ता भगवन्तो महीतलम् ॥ ६४ ॥
तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम् ।परिष्वज्य च गोविन्दं पुरा सुचरिते सखा ॥ ६५ ॥
देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः ।राजर्षयश्च दाशार्ह मानयन्तस्तपस्विनः ॥ ६६ ॥
देवासुरस्य द्रष्टारः पुराणस्य महाद्युते ।समेतं पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः ॥ ६७ ॥
सभासदश्च राजानस्त्वां च सत्यं जनार्दन ।एतन्महत्प्रेक्षणीयं द्रष्टुं गच्छाम केशव ॥ ६८ ॥
धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव ।त्वयोच्यमानाः कुरुषु राजमध्ये परंतप ॥ ६९ ॥
भीष्मद्रोणादयश्चैव विदुरश्च महामतिः ।त्वं च यादवशार्दूल सभायां वै समेष्यथ ॥ ७० ॥
तव वाक्यानि दिव्यानि तत्र तेषां च माधव ।श्रोतुमिच्छाम गोविन्द सत्यानि च शुभानि च ॥ ७१ ॥
आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम् ।याह्यविघ्नेन वै वीर द्रक्ष्यामस्त्वां सभागतम् ॥ ७२ ॥
« »