Click on words to see what they mean.

वैशंपायन उवाच ।तथा दूतैः समाज्ञाय आयान्तं मधुसूदनम् ।धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम् ॥ १ ॥
द्रोणं च संजयं चैव विदुरं च महामतिम् ।दुर्योधनं च सामात्यं हृष्टरोमाब्रवीदिदम् ॥ २ ॥
अद्भुतं महदाश्चर्यं श्रूयते कुरुनन्दन ।स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहे गृहे ॥ ३ ॥
सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः ।पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च ॥ ४ ॥
उपयास्यति दाशार्हः पाण्डवार्थे पराक्रमी ।स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः ॥ ५ ॥
तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरो हि सः ।तस्मिन्धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे ॥ ६ ॥
स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः ।पूजितो हि सुखाय स्यादसुखः स्यादपूजितः ॥ ७ ॥
स चेत्तुष्यति दाशार्ह उपचारैररिंदमः ।कृत्स्नान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ॥ ८ ॥
तस्य पूजार्थमद्यैव संविधत्स्व परंतप ।सभाः पथि विधीयन्तां सर्वकामसमाहिताः ॥ ९ ॥
यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै ।तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे ॥ १० ॥
ततो भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम् ।ऊचुः परममित्येवं पूजयन्तोऽस्य तद्वचः ॥ ११ ॥
तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा ।सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे ॥ १२ ॥
ततो देशेषु देशेषु रमणीयेषु भागशः ।सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः ॥ १३ ॥
आसनानि विचित्राणि युक्तानि विविधैर्गुणैः ।स्त्रियो गन्धानलंकारान्सूक्ष्माणि वसनानि च ॥ १४ ॥
गुणवन्त्यन्नपानानि भोज्यानि विविधानि च ।माल्यानि च सुगन्धीनि तानि राजा ददौ ततः ॥ १५ ॥
विशेषतश्च वासार्थं सभां ग्रामे वृकस्थले ।विदधे कौरवो राजा बहुरत्नां मनोरमाम् ॥ १६ ॥
एतद्विधाय वै सर्वं देवार्हमतिमानुषम् ।आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा ॥ १७ ॥
ताः सभाः केशवः सर्वा रत्नानि विविधानि च ।असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत् ॥ १८ ॥
« »