Click on words to see what they mean.

वैशंपायन उवाच ।राज्ञस्तु वचनं श्रुत्वा धर्मार्थसहितं हितम् ।कृष्णा दाशार्हमासीनमब्रवीच्छोककर्षिता ॥ १ ॥
सुता द्रुपदराजस्य स्वसितायतमूर्धजा ।संपूज्य सहदेवं च सात्यकिं च महारथम् ॥ २ ॥
भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः ।अश्रुपूर्णेक्षणा वाक्यमुवाचेदं मनस्विनी ॥ ३ ॥
विदितं ते महाबाहो धर्मज्ञ मधुसूदन ।यथा निकृतिमास्थाय भ्रंशिताः पाण्डवाः सुखात् ॥ ४ ॥
धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन ।यथा च संजयो राज्ञा मन्त्रं रहसि श्रावितः ॥ ५ ॥
युधिष्ठिरेण दाशार्ह तच्चापि विदितं तव ।यथोक्तः संजयश्चैव तच्च सर्वं श्रुतं त्वया ॥ ६ ॥
पञ्च नस्तात दीयन्तां ग्रामा इति महाद्युते ।कुशस्थलं वृकस्थलमासन्दी वारणावतम् ॥ ७ ॥
अवसानं महाबाहो किंचिदेव तु पञ्चमम् ।इति दुर्योधनो वाच्यः सुहृदश्चास्य केशव ॥ ८ ॥
तच्चापि नाकरोद्वाक्यं श्रुत्वा कृष्ण सुयोधनः ।युधिष्ठिरस्य दाशार्ह ह्रीमतः संधिमिच्छतः ॥ ९ ॥
अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः ।संधिमिच्छेन्न कर्तव्यस्तत्र गत्वा कथंचन ॥ १० ॥
शक्ष्यन्ति हि महाबाहो पाण्डवाः सृञ्जयैः सह ।धार्तराष्ट्रबलं घोरं क्रुद्धं प्रतिसमासितुम् ॥ ११ ॥
न हि साम्ना न दानेन शक्योऽर्थस्तेषु कश्चन ।तस्मात्तेषु न कर्तव्या कृपा ते मधुसूदन ॥ १२ ॥
साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः ।मोक्तव्यस्तेषु दण्डः स्याज्जीवितं परिरक्षता ॥ १३ ॥
तस्मात्तेषु महादण्डः क्षेप्तव्यः क्षिप्रमच्युत ।त्वया चैव महाबाहो पाण्डवैः सह सृञ्जयैः ॥ १४ ॥
एतत्समर्थं पार्थानां तव चैव यशस्करम् ।क्रियमाणं भवेत्कृष्ण क्षत्रस्य च सुखावहम् ॥ १५ ॥
क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभमास्थितः ।अक्षत्रियो वा दाशार्ह स्वधर्ममनुतिष्ठता ॥ १६ ॥
अन्यत्र ब्राह्मणात्तात सर्वपापेष्ववस्थितात् ।गुरुर्हि सर्ववर्णानां ब्राह्मणः प्रसृताग्रभुक् ॥ १७ ॥
यथावध्ये भवेद्दोषो वध्यमाने जनार्दन ।स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः ॥ १८ ॥
यथा त्वां न स्पृशेदेष दोषः कृष्ण तथा कुरु ।पाण्डवैः सह दाशार्ह सृञ्जयैश्च ससैनिकैः ॥ १९ ॥
पुनरुक्तं च वक्ष्यामि विश्रम्भेण जनार्दन ।का नु सीमन्तिनी मादृक्पृथिव्यामस्ति केशव ॥ २० ॥
सुता द्रुपदराजस्य वेदिमध्यात्समुत्थिता ।धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी ॥ २१ ॥
आजमीढकुलं प्राप्ता स्नुषा पाण्डोर्महात्मनः ।महिषी पाण्डुपुत्राणां पञ्चेन्द्रसमवर्चसाम् ॥ २२ ॥
सुता मे पञ्चभिर्वीरैः पञ्च जाता महारथाः ।अभिमन्युर्यथा कृष्ण तथा ते तव धर्मतः ॥ २३ ॥
साहं केशग्रहं प्राप्ता परिक्लिष्टा सभां गता ।पश्यतां पाण्डुपुत्राणां त्वयि जीवति केशव ॥ २४ ॥
जीवत्सु कौरवेयेषु पाञ्चालेष्वथ वृष्णिषु ।दासीभूतास्मि पापानां सभामध्ये व्यवस्थिता ॥ २५ ॥
निरामर्षेष्वचेष्टेषु प्रेक्षमाणेषु पाण्डुषु ।त्राहि मामिति गोविन्द मनसा काङ्क्षितोऽसि मे ॥ २६ ॥
यत्र मां भगवान्राजा श्वशुरो वाक्यमब्रवीत् ।वरं वृणीष्व पाञ्चालि वरार्हासि मतासि मे ॥ २७ ॥
अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति ।मयोक्ते यत्र निर्मुक्ता वनवासाय केशव ॥ २८ ॥
एवंविधानां दुःखानामभिज्ञोऽसि जनार्दन ।त्राहि मां पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवाम् ॥ २९ ॥
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः ।स्नुषा भवामि धर्मेण साहं दासीकृताभवम् ॥ ३० ॥
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् ।यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ॥ ३१ ॥
यदि तेऽहमनुग्राह्या यदि तेऽस्ति कृपा मयि ।धार्तराष्ट्रेषु वै कोपः सर्वः कृष्ण विधीयताम् ॥ ३२ ॥
इत्युक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम् ।सुनीलमसितापाङ्गी पुण्यगन्धाधिवासितम् ॥ ३३ ॥
सर्वलक्षणसंपन्नं महाभुजगवर्चसम् ।केशपक्षं वरारोहा गृह्य सव्येन पाणिना ॥ ३४ ॥
पद्माक्षी पुण्डरीकाक्षमुपेत्य गजगामिनी ।अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनमब्रवीत् ॥ ३५ ॥
अयं ते पुण्डरीकाक्ष दुःशासनकरोद्धृतः ।स्मर्तव्यः सर्वकालेषु परेषां संधिमिच्छता ॥ ३६ ॥
यदि भीमार्जुनौ कृष्ण कृपणौ संधिकामुकौ ।पिता मे योत्स्यते वृद्धः सह पुत्रैर्महारथैः ॥ ३७ ॥
पञ्च चैव महावीर्याः पुत्रा मे मधुसूदन ।अभिमन्युं पुरस्कृत्य योत्स्यन्ति कुरुभिः सह ॥ ३८ ॥
दुःशासनभुजं श्यामं संछिन्नं पांसुगुण्ठितम् ।यद्यहं तं न पश्यामि का शान्तिर्हृदयस्य मे ॥ ३९ ॥
त्रयोदश हि वर्षाणि प्रतीक्षन्त्या गतानि मे ।निधाय हृदये मन्युं प्रदीप्तमिव पावकम् ॥ ४० ॥
विदीर्यते मे हृदयं भीमवाक्शल्यपीडितम् ।योऽयमद्य महाबाहुर्धर्मं समनुपश्यति ॥ ४१ ॥
इत्युक्त्वा बाष्पसन्नेन कण्ठेनायतलोचना ।रुरोद कृष्णा सोत्कम्पं सस्वरं बाष्पगद्गदम् ॥ ४२ ॥
स्तनौ पीनायतश्रोणी सहितावभिवर्षती ।द्रवीभूतमिवात्युष्णमुत्सृजद्वारि नेत्रजम् ॥ ४३ ॥
तामुवाच महाबाहुः केशवः परिसान्त्वयन् ।अचिराद्द्रक्ष्यसे कृष्णे रुदतीर्भरतस्त्रियः ॥ ४४ ॥
एवं ता भीरु रोत्स्यन्ति निहतज्ञातिबान्धवाः ।हतमित्रा हतबला येषां क्रुद्धासि भामिनि ॥ ४५ ॥
अहं च तत्करिष्यामि भीमार्जुनयमैः सह ।युधिष्ठिरनियोगेन दैवाच्च विधिनिर्मितात् ॥ ४६ ॥
धार्तराष्ट्राः कालपक्वा न चेच्छृण्वन्ति मे वचः ।शेष्यन्ते निहता भूमौ श्वशृगालादनीकृताः ॥ ४७ ॥
चलेद्धि हिमवाञ्शैलो मेदिनी शतधा भवेत् ।द्यौः पतेच्च सनक्षत्रा न मे मोघं वचो भवेत् ॥ ४८ ॥
सत्यं ते प्रतिजानामि कृष्णे बाष्पो निगृह्यताम् ।हतामित्राञ्श्रिया युक्तानचिराद्द्रक्ष्यसे पतीन् ॥ ४९ ॥
« »