Click on words to see what they mean.

सहदेव उवाच ।यदेतत्कथितं राज्ञा धर्म एष सनातनः ।यथा तु युद्धमेव स्यात्तथा कार्यमरिंदम ॥ १ ॥
यदि प्रशममिच्छेयुः कुरवः पाण्डवैः सह ।तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः ॥ २ ॥
कथं नु दृष्ट्वा पाञ्चालीं तथा क्लिष्टां सभागताम् ।अवधेन प्रशाम्येत मम मन्युः सुयोधने ॥ ३ ॥
यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः ।धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संयुगे ॥ ४ ॥
सात्यकिरुवाच ।सत्यमाह महाबाहो सहदेवो महामतिः ।दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत् ॥ ५ ॥
जानासि हि यथा दृष्ट्वा चीराजिनधरान्वने ।तवापि मन्युरुद्भूतो दुःखितान्प्रेक्ष्य पाण्डवान् ॥ ६ ॥
तस्मान्माद्रीसुतः शूरो यदाह पुरुषर्षभः ।वचनं सर्वयोधानां तन्मतं पुरुषोत्तम ॥ ७ ॥
वैशंपायन उवाच ।एवं वदति वाक्यं तु युयुधाने महामतौ ।सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः ॥ ८ ॥
सर्वे हि सर्वतो वीरास्तद्वचः प्रत्यपूजयन् ।साधु साध्विति शैनेयं हर्षयन्तो युयुत्सवः ॥ ९ ॥
« »