Click on words to see what they mean.

नकुल उवाच ।उक्तं बहुविधं वाक्यं धर्मराजेन माधव ।धर्मज्ञेन वदान्येन धर्मयुक्तं च तत्त्वतः ॥ १ ॥
मतमाज्ञाय राज्ञश्च भीमसेनेन माधव ।संशमो बाहुवीर्यं च ख्यापितं माधवात्मनः ॥ २ ॥
तथैव फल्गुनेनापि यदुक्तं तत्त्वया श्रुतम् ।आत्मनश्च मतं वीर कथितं भवतासकृत् ॥ ३ ॥
सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान् ।यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम ॥ ४ ॥
तस्मिंस्तस्मिन्निमित्ते हि मतं भवति केशव ।प्राप्तकालं मनुष्येण स्वयं कार्यमरिंदम ॥ ५ ॥
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा ।अनित्यमतयो लोके नराः पुरुषसत्तम ॥ ६ ॥
अन्यथा बुद्धयो ह्यासन्नस्मासु वनवासिषु ।अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा ॥ ७ ॥
अस्माकमपि वार्ष्णेय वने विचरतां तदा ।न तथा प्रणयो राज्ये यथा संप्रति वर्तते ॥ ८ ॥
निवृत्तवनवासान्नः श्रुत्वा वीर समागताः ।अक्षौहिण्यो हि सप्तेमास्त्वत्प्रसादाज्जनार्दन ॥ ९ ॥
इमान्हि पुरुषव्याघ्रानचिन्त्यबलपौरुषान् ।आत्तशस्त्रान्रणे दृष्ट्वा न व्यथेदिह कः पुमान् ॥ १० ॥
स भवान्कुरुमध्ये तं सान्त्वपूर्वं भयान्वितम् ।ब्रूयाद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः ॥ ११ ॥
युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम् ।सहदेवं च मां चैव त्वां च रामं च केशव ॥ १२ ॥
सात्यकिं च महावीर्यं विराटं च सहात्मजम् ।द्रुपदं च सहामात्यं धृष्टद्युम्नं च पार्षतम् ॥ १३ ॥
काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम् ।मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि ॥ १४ ॥
स भवान्गमनादेव साधयिष्यत्यसंशयम् ।इष्टमर्थं महाबाहो धर्मराजस्य केवलम् ॥ १५ ॥
विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः ।श्रेयः समर्था विज्ञातुमुच्यमानं त्वयानघ ॥ १६ ॥
ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम् ।तं च पापसमाचारं सहामात्यं सुयोधनम् ॥ १७ ॥
श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन ।कमिवार्थं विवर्तन्तं स्थापयेतां न वर्त्मनि ॥ १८ ॥
« »