Click on words to see what they mean.

भगवानुवाच ।एवमेतन्महाबाहो यथा वदसि पाण्डव ।सर्वं त्विदं समायत्तं बीभत्सो कर्मणोर्द्वयोः ॥ १ ॥
क्षेत्रं हि रसवच्छुद्धं कर्षकेणोपपादितम् ।ऋते वर्षं न कौन्तेय जातु निर्वर्तयेत्फलम् ॥ २ ॥
तत्र वै पौरुषं ब्रूयुरासेकं यत्नकारितम् ।तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम् ॥ ३ ॥
तदिदं निश्चितं बुद्ध्या पूर्वैरपि महात्मभिः ।दैवे च मानुषे चैव संयुक्तं लोककारणम् ॥ ४ ॥
अहं हि तत्करिष्यामि परं पुरुषकारतः ।दैवं तु न मया शक्यं कर्म कर्तुं कथंचन ॥ ५ ॥
स हि धर्मं च सत्यं च त्यक्त्वा चरति दुर्मतिः ।न हि संतप्यते तेन तथारूपेण कर्मणा ॥ ६ ॥
तां चापि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः ।शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा ॥ ७ ॥
स हि त्यागेन राज्यस्य न शमं समुपेष्यति ।अन्तरेण वधात्पार्थ सानुबन्धः सुयोधनः ॥ ८ ॥
न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट् ।याच्यमानस्तु राज्यं स न प्रदास्यति दुर्मतिः ॥ ९ ॥
न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशासनम् ।उक्तं प्रयोजनं तत्र धर्मराजेन भारत ॥ १० ॥
तथा पापस्तु तत्सर्वं न करिष्यति कौरवः ।तस्मिंश्चाक्रियमाणेऽसौ लोकवध्यो भविष्यति ॥ ११ ॥
मम चापि स वध्यो वै जगतश्चापि भारत ।येन कौमारके यूयं सर्वे विप्रकृतास्तथा ॥ १२ ॥
विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना ।न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे ॥ १३ ॥
असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः ।न मया तद्गृहीतं च पापं तस्य चिकीर्षितम् ॥ १४ ॥
जानासि हि महाबाहो त्वमप्यस्य परं मतम् ।प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि ॥ १५ ॥
स जानंस्तस्य चात्मानं मम चैव परं मतम् ।अजानन्निव चाकस्मादर्जुनाद्याभिशङ्कसे ॥ १६ ॥
यच्चापि परमं दिव्यं तच्चाप्यवगतं त्वया ।विधानविहितं पार्थ कथं शर्म भवेत्परैः ॥ १७ ॥
यत्तु वाचा मया शक्यं कर्मणा चापि पाण्डव ।करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः ॥ १८ ॥
कथं गोहरणे ब्रूयादिच्छञ्शर्म तथाविधम् ।याच्यमानोऽपि भीष्मेण संवत्सरगतेऽध्वनि ॥ १९ ॥
तदैव ते पराभूता यदा संकल्पितास्त्वया ।लवशः क्षणशश्चापि न च तुष्टः सुयोधनः ॥ २० ॥
सर्वथा तु मया कार्यं धर्मराजस्य शासनम् ।विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः ॥ २१ ॥
« »