Click on words to see what they mean.

वैशंपायन उवाच ।संजये प्रतियाते तु धर्मराजो युधिष्ठिरः ।अभ्यभाषत दाशार्हमृषभं सर्वसात्वताम् ॥ १ ॥
अयं स कालः संप्राप्तो मित्राणां मे जनार्दन ।न च त्वदन्यं पश्यामि यो न आपत्सु तारयेत् ॥ २ ॥
त्वां हि माधव संश्रित्य निर्भया मोहदर्पितम् ।धार्तराष्ट्रं सहामात्यं स्वमंशमनुयुञ्ज्महे ॥ ३ ॥
यथा हि सर्वास्वापत्सु पासि वृष्णीनरिंदम ।तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो भयात् ॥ ४ ॥
भगवानुवाच ।अयमस्मि महाबाहो ब्रूहि यत्ते विवक्षितम् ।करिष्यामि हि तत्सर्वं यत्त्वं वक्ष्यसि भारत ॥ ५ ॥
युधिष्ठिर उवाच ।श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम् ।एतद्धि सकलं कृष्ण संजयो मां यदब्रवीत् ॥ ६ ॥
तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः ।यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा ब्रुवन् ॥ ७ ॥
अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति ।लुब्धः पापेन मनसा चरन्नसममात्मनः ॥ ८ ॥
यत्तद्द्वादश वर्षाणि वने निर्व्युषिता वयम् ।छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात् ॥ ९ ॥
स्थाता नः समये तस्मिन्धृतराष्ट्र इति प्रभो ।नाहास्म समयं कृष्ण तद्धि नो ब्राह्मणा विदुः ॥ १० ॥
वृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति ।पश्यन्वा पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनम् ॥ ११ ॥
सुयोधनमते तिष्ठन्राजास्मासु जनार्दन ।मिथ्या चरति लुब्धः संश्चरन्प्रियमिवात्मनः ॥ १२ ॥
इतो दुःखतरं किं नु यत्राहं मातरं ततः ।संविधातुं न शक्नोमि मित्राणां वा जनार्दन ॥ १३ ॥
काशिभिश्चेदिपाञ्चालैर्मत्स्यैश्च मधुसूदन ।भवता चैव नाथेन पञ्च ग्रामा वृता मया ॥ १४ ॥
कुशस्थलं वृकस्थलमासन्दी वारणावतम् ।अवसानं च गोविन्द किंचिदेवात्र पञ्चमम् ॥ १५ ॥
पञ्च नस्तात दीयन्तां ग्रामा वा नगराणि वा ।वसेम सहिता येषु मा च नो भरता नशन् ॥ १६ ॥
न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते ।स्वाम्यमात्मनि मत्वासावतो दुःखतरं नु किम् ॥ १७ ॥
कुले जातस्य वृद्धस्य परवित्तेषु गृध्यतः ।लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियम् ॥ १८ ॥
ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम् ।श्रीर्हता पुरुषं हन्ति पुरुषस्यास्वता वधः ॥ १९ ॥
अस्वतो हि निवर्तन्ते ज्ञातयः सुहृदर्त्विजः ।अपुष्पादफलाद्वृक्षाद्यथा तात पतत्रिणः ॥ २० ॥
एतच्च मरणं तात यदस्मात्पतितादिव ।ज्ञातयो विनिवर्तन्ते प्रेतसत्त्वादिवासवः ॥ २१ ॥
नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत् ।यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते ॥ २२ ॥
धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम् ।जीवन्ति धनिनो लोके मृता ये त्वधना नराः ॥ २३ ॥
ये धनादपकर्षन्ति नरं स्वबलमाश्रिताः ।ते धर्ममर्थं कामं च प्रमथ्नन्ति नरं च तम् ॥ २४ ॥
एतामवस्थां प्राप्यैके मरणं वव्रिरे जनाः ।ग्रामायैके वनायैके नाशायैके प्रवव्रजुः ॥ २५ ॥
उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम् ।दास्यमेके निगच्छन्ति परेषामर्थहेतुना ॥ २६ ॥
आपदेवास्य मरणात्पुरुषस्य गरीयसी ।श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः ॥ २७ ॥
यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्म तत् ।समन्तात्सर्वभूतानां न तदत्येति कश्चन ॥ २८ ॥
न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः ।यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः ॥ २९ ॥
स तदात्मापराधेन संप्राप्तो व्यसनं महत् ।सेन्द्रान्गर्हयते देवान्नात्मानं च कथंचन ॥ ३० ॥
न चास्मिन्सर्वशास्त्राणि प्रतरन्ति निगर्हणाम् ।सोऽभिक्रुध्यति भृत्यानां सुहृदश्चाभ्यसूयति ॥ ३१ ॥
तं तदा मन्युरेवैति स भूयः संप्रमुह्यति ।स मोहवशमापन्नः क्रूरं कर्म निषेवते ॥ ३२ ॥
पापकर्मात्ययायैव संकरं तेन पुष्यति ।संकरो नरकायैव सा काष्ठा पापकर्मणाम् ॥ ३३ ॥
न चेत्प्रबुध्यते कृष्ण नरकायैव गच्छति ।तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुर्न रिष्यति ॥ ३४ ॥
प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते ।शास्त्रनित्यः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम् ॥ ३५ ॥
ह्रीमान्हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते ।श्रीमान्स यावद्भवति तावद्भवति पूरुषः ॥ ३६ ॥
धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा ।नाधर्मे कुरुते बुद्धिं न च पापेषु वर्तते ॥ ३७ ॥
अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान् ।नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः ॥ ३८ ॥
ह्रीमानवति देवांश्च पितॄनात्मानमेव च ।तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम् ॥ ३९ ॥
तदिदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन ।यथा राज्यात्परिभ्रष्टो वसामि वसतीरिमाः ॥ ४० ॥
ते वयं न श्रियं हातुमलं न्यायेन केनचित् ।अत्र नो यतमानानां वधश्चेदपि साधु तत् ॥ ४१ ॥
तत्र नः प्रथमः कल्पो यद्वयं ते च माधव ।प्रशान्ताः समभूताश्च श्रियं तामश्नुवीमहि ॥ ४२ ॥
तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया ।यद्वयं कौरवान्हत्वा तानि राष्ट्राण्यशीमहि ॥ ४३ ॥
ये पुनः स्युरसंबद्धा अनार्याः कृष्ण शत्रवः ।तेषामप्यवधः कार्यः किं पुनर्ये स्युरीदृशाः ॥ ४४ ॥
ज्ञातयश्च हि भूयिष्ठाः सहाया गुरवश्च नः ।तेषां वधोऽतिपापीयान्किं नु युद्धेऽस्ति शोभनम् ॥ ४५ ॥
पापः क्षत्रियधर्मोऽयं वयं च क्षत्रबान्धवाः ।स नः स्वधर्मोऽधर्मो वा वृत्तिरन्या विगर्हिता ॥ ४६ ॥
शूद्रः करोति शुश्रूषां वैश्या विपणिजीविनः ।वयं वधेन जीवामः कपालं ब्राह्मणैर्वृतम् ॥ ४७ ॥
क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति ।श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः ॥ ४८ ॥
युद्धे कृष्ण कलिर्नित्यं प्राणाः सीदन्ति संयुगे ।बलं तु नीतिमात्राय हठे जयपराजयौ ॥ ४९ ॥
नात्मच्छन्देन भूतानां जीवितं मरणं तथा ।नाप्यकाले सुखं प्राप्यं दुःखं वापि यदूत्तम ॥ ५० ॥
एको ह्यपि बहून्हन्ति घ्नन्त्येकं बहवोऽप्युत ।शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम् ॥ ५१ ॥
जयश्चैवोभयोर्दृष्ट उभयोश्च पराजयः ।तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ ॥ ५२ ॥
सर्वथा वृजिनं युद्धं को घ्नन्न प्रतिहन्यते ।हतस्य च हृषीकेश समौ जयपराजयौ ॥ ५३ ॥
पराजयश्च मरणान्मन्ये नैव विशिष्यते ।यस्य स्याद्विजयः कृष्ण तस्याप्यपचयो ध्रुवम् ॥ ५४ ॥
अन्ततो दयितं घ्नन्ति केचिदप्यपरे जनाः ।तस्याङ्ग बलहीनस्य पुत्रान्भ्रातॄनपश्यतः ।निर्वेदो जीविते कृष्ण सर्वतश्चोपजायते ॥ ५५ ॥
ये ह्येव वीरा ह्रीमन्त आर्याः करुणवेदिनः ।त एव युद्धे हन्यन्ते यवीयान्मुच्यते जनः ॥ ५६ ॥
हत्वाप्यनुशयो नित्यं परानपि जनार्दन ।अनुबन्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते ॥ ५७ ॥
शेषो हि बलमासाद्य न शेषमवशेषयेत् ।सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया ॥ ५८ ॥
जयो वैरं प्रसृजति दुःखमास्ते पराजितः ।सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ ॥ ५९ ॥
जातवैरश्च पुरुषो दुःखं स्वपिति नित्यदा ।अनिर्वृतेन मनसा ससर्प इव वेश्मनि ॥ ६० ॥
उत्सादयति यः सर्वं यशसा स वियुज्यते ।अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति ॥ ६१ ॥
न हि वैराणि शाम्यन्ति दीर्घकालकृतान्यपि ।आख्यातारश्च विद्यन्ते पुमांश्चोत्पद्यते कुले ॥ ६२ ॥
न चापि वैरं वैरेण केशव व्युपशाम्यति ।हविषाग्निर्यथा कृष्ण भूय एवाभिवर्धते ॥ ६३ ॥
अतोऽन्यथा नास्ति शान्तिर्नित्यमन्तरमन्ततः ।अन्तरं लिप्समानानामयं दोषो निरन्तरः ॥ ६४ ॥
पौरुषेयो हि बलवानाधिर्हृदयबाधनः ।तस्य त्यागेन वा शान्तिर्निवृत्त्या मनसोऽपि वा ॥ ६५ ॥
अथ वा मूलघातेन द्विषतां मधुसूदन ।फलनिर्वृत्तिरिद्धा स्यात्तन्नृशंसतरं भवेत् ॥ ६६ ॥
या तु त्यागेन शान्तिः स्यात्तदृते वध एव सः ।संशयाच्च समुच्छेदाद्द्विषतामात्मनस्तथा ॥ ६७ ॥
न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम् ।अत्र या प्रणिपातेन शान्तिः सैव गरीयसी ॥ ६८ ॥
सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम् ।सान्त्वे प्रतिहते युद्धं प्रसिद्धमपराक्रमम् ॥ ६९ ॥
प्रतिघातेन सान्त्वस्य दारुणं संप्रवर्तते ।तच्छुनामिव गोपादे पण्डितैरुपलक्षितम् ॥ ७० ॥
लाङ्गूलचालनं क्ष्वेडः प्रतिरावो विवर्तनम् ।दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते ॥ ७१ ॥
तत्र यो बलवान्कृष्ण जित्वा सोऽत्ति तदामिषम् ।एवमेव मनुष्येषु विशेषो नास्ति कश्चन ॥ ७२ ॥
सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम् ।अनादरो विरोधश्च प्रणिपाती हि दुर्बलः ॥ ७३ ॥
पिता राजा च वृद्धश्च सर्वथा मानमर्हति ।तस्मान्मान्यश्च पूज्यश्च धृतराष्ट्रो जनार्दन ॥ ७४ ॥
पुत्रस्नेहस्तु बलवान्धृतराष्ट्रस्य माधव ।स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति ॥ ७५ ॥
तत्र किं मन्यसे कृष्ण प्राप्तकालमनन्तरम् ।कथमर्थाच्च धर्माच्च न हीयेमहि माधव ॥ ७६ ॥
ईदृशे ह्यर्थकृच्छ्रेऽस्मिन्कमन्यं मधुसूदन ।उपसंप्रष्टुमर्हामि त्वामृते पुरुषोत्तम ॥ ७७ ॥
प्रियश्च प्रियकामश्च गतिज्ञः सर्वकर्मणाम् ।को हि कृष्णास्ति नस्त्वादृक्सर्वनिश्चयवित्सुहृत् ॥ ७८ ॥
वैशंपायन उवाच ।एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः ।उभयोरेव वामर्थे यास्यामि कुरुसंसदम् ॥ ७९ ॥
शमं तत्र लभेयं चेद्युष्मदर्थमहापयन् ।पुण्यं मे सुमहद्राजंश्चरितं स्यान्महाफलम् ॥ ८० ॥
मोचयेयं मृत्युपाशात्संरब्धान्कुरुसृञ्जयान् ।पाण्डवान्धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम् ॥ ८१ ॥
युधिष्ठिर उवाच ।न ममैतन्मतं कृष्ण यत्त्वं यायाः कुरून्प्रति ।सुयोधनः सूक्तमपि न करिष्यति ते वचः ॥ ८२ ॥
समेतं पार्थिवं क्षत्रं सुयोधनवशानुगम् ।तेषां मध्यावतरणं तव कृष्ण न रोचये ॥ ८३ ॥
न हि नः प्रीणयेद्द्रव्यं न देवत्वं कुतः सुखम् ।न च सर्वामरैश्वर्यं तव रोधेन माधव ॥ ८४ ॥
भगवानुवाच ।जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम् ।अवाच्यास्तु भविष्यामः सर्वलोके महीक्षिताम् ॥ ८५ ॥
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः ।क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः ॥ ८६ ॥
अथ चेत्ते प्रवर्तेरन्मयि किंचिदसांप्रतम् ।निर्दहेयं कुरून्सर्वानिति मे धीयते मतिः ॥ ८७ ॥
न जातु गमनं तत्र भवेत्पार्थ निरर्थकम् ।अर्थप्राप्तिः कदाचित्स्यादन्ततो वाप्यवाच्यता ॥ ८८ ॥
युधिष्ठिर उवाच ।यत्तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान् ।कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ॥ ८९ ॥
विष्वक्सेन कुरून्गत्वा भारताञ्शमयेः प्रभो ।यथा सर्वे सुमनसः सह स्यामः सुचेतसः ॥ ९० ॥
भ्राता चासि सखा चासि बीभत्सोर्मम च प्रियः ।सौहृदेनाविशङ्क्योऽसि स्वस्ति प्राप्नुहि भूतये ॥ ९१ ॥
अस्मान्वेत्थ परान्वेत्थ वेत्थार्थं वेत्थ भाषितम् ।यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यः सुयोधनः ॥ ९२ ॥
यद्यद्धर्मेण संयुक्तमुपपद्येद्धितं वचः ।तत्तत्केशव भाषेथाः सान्त्वं वा यदि वेतरत् ॥ ९३ ॥
« »