Click on words to see what they mean.

भगवानुवाच ।संजयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया ।सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः ॥ १ ॥
तव धर्माश्रिता बुद्धिस्तेषां वैराश्रिता मतिः ।यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत् ॥ २ ॥
न च तन्नैष्ठिकं कर्म क्षत्रियस्य विशां पते ।आहुराश्रमिणः सर्वे यद्भैक्षं क्षत्रियश्चरेत् ॥ ३ ॥
जयो वधो वा संग्रामे धात्रा दिष्टः सनातनः ।स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते ॥ ४ ॥
न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर ।विक्रमस्व महाबाहो जहि शत्रूनरिंदम ॥ ५ ॥
अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः ।कृतमित्राः कृतबला धार्तराष्ट्राः परंतप ॥ ६ ॥
न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशां पते ।बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः ॥ ७ ॥
यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि ।तावदेते हरिष्यन्ति तव राज्यमरिंदम ॥ ८ ॥
नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात् ।अलं कर्तुं धार्तराष्ट्रास्तव काममरिंदम ॥ ९ ॥
एतदेव निमित्तं ते पाण्डवास्तु यथा त्वयि ।नान्वतप्यन्त कौपीनं तावत्कृत्वापि दुष्करम् ॥ १० ॥
पितामहस्य द्रोणस्य विदुरस्य च धीमतः ।पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः ॥ ११ ॥
दानशीलं मृदुं दान्तं धर्मकाममनुव्रतम् ।यत्त्वामुपधिना राजन्द्यूतेनावञ्चयत्तदा ।न चापत्रपते पापो नृशंसस्तेन कर्मणा ॥ १२ ॥
तथाशीलसमाचारे राजन्मा प्रणयं कृथाः ।वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत ॥ १३ ॥
वाग्भिस्त्वप्रतिरूपाभिरतुदत्सकनीयसम् ।श्लाघमानः प्रहृष्टः सन्भाषते भ्रातृभिः सह ॥ १४ ॥
एतावत्पाण्डवानां हि नास्ति किंचिदिह स्वकम् ।नामधेयं च गोत्रं च तदप्येषां न शिष्यते ॥ १५ ॥
कालेन महता चैषां भविष्यति पराभवः ।प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो जनाः ॥ १६ ॥
एताश्चान्याश्च परुषा वाचः स समुदीरयन् ।श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम् ॥ १७ ॥
ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम् ।अश्रुकण्ठा रुदन्तश्च सभायामासते तदा ॥ १८ ॥
न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह ।सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः ॥ १९ ॥
कुलीनस्य च या निन्दा वधश्चामित्रकर्शन ।महागुणो वधो राजन्न तु निन्दा कुजीविका ॥ २० ॥
तदैव निहतो राजन्यदैव निरपत्रपः ।निन्दितश्च महाराज पृथिव्यां सर्वराजसु ॥ २१ ॥
ईषत्कार्यो वधस्तस्य यस्य चारित्रमीदृशम् ।प्रस्कम्भनप्रतिस्तब्धश्छिन्नमूल इव द्रुमः ॥ २२ ॥
वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः ।जह्येनं त्वममित्रघ्न मा राजन्विचिकित्सिथाः ॥ २३ ॥
सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ ।यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः ॥ २४ ॥
अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम् ।येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति ॥ २५ ॥
मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान् ।तव संकीर्तयिष्यामि ये च तस्य व्यतिक्रमाः ॥ २६ ॥
ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम् ।निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः ॥ २७ ॥
त्वयि संप्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति ।तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत ॥ २८ ॥
गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि ।वृद्धबालानुपादाय चातुर्वर्ण्यसमागमे ॥ २९ ॥
शमं चेद्याचमानस्त्वं न धर्मं तत्र लप्स्यसे ।कुरून्विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः ॥ ३० ॥
तस्मिँल्लोकपरित्यक्ते किं कार्यमवशिष्यते ।हते दुर्योधने राजन्यदन्यत्क्रियतामिति ॥ ३१ ॥
यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापयन् ।यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम् ॥ ३२ ॥
कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम् ।निशाम्य विनिवर्तिष्ये जयाय तव भारत ॥ ३३ ॥
सर्वथा युद्धमेवाहमाशंसामि परैः सह ।निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे ॥ ३४ ॥
मृगाः शकुन्ताश्च वदन्ति घोरं हस्त्यश्वमुख्येषु निशामुखेषु ।घोराणि रूपाणि तथैव चाग्निर्वर्णान्बहून्पुष्यति घोररूपान् ।मनुष्यलोकक्षपणोऽथ घोरो नो चेदनुप्राप्त इहान्तकः स्यात् ॥ ३५ ॥
शस्त्राणि पत्रं कवचान्रथांश्च नागान्ध्वजांश्च प्रतिपादयित्वा ।योधाश्च सर्वे कृतनिश्रमास्ते भवन्तु हस्त्यश्वरथेषु यत्ताः ।सांग्रामिकं ते यदुपार्जनीयं सर्वं समग्रं कुरु तन्नरेन्द्र ॥ ३६ ॥
दुर्योधनो न ह्यलमद्य दातुं जीवंस्तवैतन्नृपते कथंचित् ।यत्ते पुरस्तादभवत्समृद्धं द्यूते हृतं पाण्डवमुख्य राज्यम् ॥ ३७ ॥
« »