Click on words to see what they mean.

सनत्सुजात उवाच ।यत्तच्छुक्रं महज्ज्योतिर्दीप्यमानं महद्यशः ।तद्वै देवा उपासन्ते यस्मादर्को विराजते ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १ ॥
शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते ।तच्छुक्रं ज्योतिषां मध्येऽतप्तं तपति तापनम् ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ २ ॥
आपोऽथ अद्भ्यः सलिलस्य मध्ये उभौ देवौ शिश्रियातेऽन्तरिक्षे ।स सध्रीचीः स विषूचीर्वसाना उभे बिभर्ति पृथिवीं दिवं च ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ३ ॥
उभौ च देवौ पृथिवीं दिवं च दिशश्च शुक्रं भुवनं बिभर्ति ।तस्माद्दिशः सरितश्च स्रवन्ति तस्मात्समुद्रा विहिता महान्तः ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ४ ॥
चक्रे रथस्य तिष्ठन्तं ध्रुवस्याव्ययकर्मणः ।केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५ ॥
न सादृश्ये तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनम् ।मनीषयाथो मनसा हृदा च य एवं विदुरमृतास्ते भवन्ति ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ६ ॥
द्वादशपूगां सरितं देवरक्षितम् ।मधु ईशन्तस्तदा संचरन्ति घोरम् ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ७ ॥
तदर्धमासं पिबति संचित्य भ्रमरो मधु ।ईशानः सर्वभूतेषु हविर्भूतमकल्पयत् ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ८ ॥
हिरण्यपर्णमश्वत्थमभिपत्य अपक्षकाः ।ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ९ ॥
पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे ।हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १० ॥
तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा ।तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः ॥ ११ ॥
सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १२ ॥
अपानं गिरति प्राणः प्राणं गिरति चन्द्रमाः ।आदित्यो गिरते चन्द्रमादित्यं गिरते परः ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १३ ॥
एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन् ।तं चेत्सततमृत्विजं न मृत्युर्नामृतं भवेत् ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १४ ॥
एवं देवो महात्मा स पावकं पुरुषो गिरन् ।यो वै तं पुरुषं वेद तस्येहात्मा न रिष्यते ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १५ ॥
यः सहस्रं सहस्राणां पक्षान्संतत्य संपतेत् ।मध्यमे मध्य आगच्छेदपि चेत्स्यान्मनोजवः ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १६ ॥
न दर्शने तिष्ठति रूपमस्य पश्यन्ति चैनं सुविशुद्धसत्त्वाः ।हितो मनीषी मनसाभिपश्येद्ये तं श्रयेयुरमृतास्ते भवन्ति ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १७ ॥
गूहन्ति सर्पा इव गह्वराणि स्वशिक्षया स्वेन वृत्तेन मर्त्याः ।तेषु प्रमुह्यन्ति जना विमूढा यथाध्वानं मोहयन्ते भयाय ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १८ ॥
सदा सदासत्कृतः स्यान्न मृत्युरमृतं कुतः ।सत्यानृते सत्यसमानबन्धने सतश्च योनिरसतश्चैक एव ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १९ ॥
न साधुना नोत असाधुना वा समानमेतद्दृश्यते मानुषेषु ।समानमेतदमृतस्य विद्यादेवंयुक्तो मधु तद्वै परीप्सेत् ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ २० ॥
नास्यातिवादा हृदयं तापयन्ति नानधीतं नाहुतमग्निहोत्रम् ।मनो ब्राह्मीं लघुतामादधीत प्रज्ञानमस्य नाम धीरा लभन्ते ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ २१ ॥
एवं यः सर्वभूतेषु आत्मानमनुपश्यति ।अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् ॥ २२ ॥
यथोदपाने महति सर्वतः संप्लुतोदके ।एवं सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ २३ ॥
अङ्गुष्ठमात्रः पुरुषो महात्मा न दृश्यतेऽसौ हृदये निविष्टः ।अजश्चरो दिवारात्रमतन्द्रितश्च स तं मत्वा कविरास्ते प्रसन्नः ॥ २४ ॥
अहमेवास्मि वो माता पिता पुत्रोऽस्म्यहं पुनः ।आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च ॥ २५ ॥
पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत ।ममैव यूयमात्मस्था न मे यूयं न वोऽप्यहम् ॥ २६ ॥
आत्मैव स्थानं मम जन्म चात्मा वेदप्रोक्तोऽहमजरप्रतिष्ठः ॥ २७ ॥
अणोरणीयान्सुमनाः सर्वभूतेषु जागृमि ।पितरं सर्वभूतानां पुष्करे निहितं विदुः ॥ २८ ॥
« »