Click on words to see what they mean.

धृतराष्ट्र उवाच ।सनत्सुजात यदिमां परार्थां ब्राह्मीं वाचं प्रवदसि विश्वरूपाम् ।परां हि कामेषु सुदुर्लभां कथां तद्ब्रूहि मे वाक्यमेतत्कुमार ॥ १ ॥
सनत्सुजात उवाच ।नैतद्ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छस्यभिहृष्यस्यतीव ।अव्यक्तविद्यामभिधास्ये पुराणीं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम् ॥ २ ॥
धृतराष्ट्र उवाच ।अव्यक्तविद्यामिति यत्सनातनीं ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम् ।अनारभ्या वसतीहार्य काले कथं ब्राह्मण्यममृतत्वं लभेत ॥ ३ ॥
सनत्सुजात उवाच ।येऽस्मिँल्लोके विजयन्तीह कामान्ब्राह्मीं स्थितिमनुतितिक्षमाणाः ।त आत्मानं निर्हरन्तीह देहान्मुञ्जादिषीकामिव सत्त्वसंस्थाः ॥ ४ ॥
शरीरमेतौ कुरुतः पिता माता च भारत ।आचार्यशास्ता या जातिः सा सत्या साजरामरा ॥ ५ ॥
आचार्ययोनिमिह ये प्रविश्य भूत्वा गर्भं ब्रह्मचर्यं चरन्ति ।इहैव ते शास्त्रकारा भवन्ति प्रहाय देहं परमं यान्ति योगम् ॥ ६ ॥
य आवृणोत्यवितथेन कर्णावृतं कुर्वन्नमृतं संप्रयच्छन् ।तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन् ॥ ७ ॥
गुरुं शिष्यो नित्यमभिमन्यमानः स्वाध्यायमिच्छेच्छुचिरप्रमत्तः ।मानं न कुर्यान्न दधीत रोषमेष प्रथमो ब्रह्मचर्यस्य पादः ॥ ८ ॥
आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि ।कर्मणा मनसा वाचा द्वितीयः पाद उच्यते ॥ ९ ॥
समा गुरौ यथा वृत्तिर्गुरुपत्न्यां तथा भवेत् ।यथोक्तकारी प्रियकृत्तृतीयः पाद उच्यते ॥ १० ॥
नाचार्यायेहोपकृत्वा प्रवादं प्राज्ञः कुर्वीत नैतदहं करोमि ।इतीव मन्येत न भाषयेत स वै चतुर्थो ब्रह्मचर्यस्य पादः ॥ ११ ॥
एवं वसन्तं यदुपप्लवेद्धनमाचार्याय तदनुप्रयच्छेत् ।सतां वृत्तिं बहुगुणामेवमेति गुरोः पुत्रे भवति च वृत्तिरेषा ॥ १२ ॥
एवं वसन्सर्वतो वर्धतीह बहून्पुत्राँल्लभते च प्रतिष्ठाम् ।वर्षन्ति चास्मै प्रदिशो दिशश्च वसन्त्यस्मिन्ब्रह्मचर्ये जनाश्च ॥ १३ ॥
एतेन ब्रह्मचर्येण देवा देवत्वमाप्नुवन् ।ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः ॥ १४ ॥
गन्धर्वाणामनेनैव रूपमप्सरसामभूत् ।एतेन ब्रह्मचर्येण सूर्यो अह्नाय जायते ॥ १५ ॥
य आशयेत्पाटयेच्चापि राजन्सर्वं शरीरं तपसा तप्यमानः ।एतेनासौ बाल्यमत्येति विद्वान्मृत्युं तथा रोधयत्यन्तकाले ॥ १६ ॥
अन्तवन्तः क्षत्रिय ते जयन्ति लोकाञ्जनाः कर्मणा निर्मितेन ।ब्रह्मैव विद्वांस्तेन अभ्येति सर्वं नान्यः पन्था अयनाय विद्यते ॥ १७ ॥
धृतराष्ट्र उवाच ।आभाति शुक्लमिव लोहितमिव अथो कृष्णमथाञ्जनं काद्रवं वा ।तद्ब्राह्मणः पश्यति योऽत्र विद्वान्कथंरूपं तदमृतमक्षरं पदम् ॥ १८ ॥
सनत्सुजात उवाच ।नाभाति शुक्लमिव लोहितमिव अथो कृष्णमायसमर्कवर्णम् ।न पृथिव्यां तिष्ठति नान्तरिक्षे नैतत्समुद्रे सलिलं बिभर्ति ॥ १९ ॥
न तारकासु न च विद्युदाश्रितं न चाभ्रेषु दृश्यते रूपमस्य ।न चापि वायौ न च देवतासु न तच्चन्द्रे दृश्यते नोत सूर्ये ॥ २० ॥
नैवर्क्षु तन्न यजुःषु नाप्यथर्वसु न चैव दृश्यत्यमलेषु सामसु ।रथंतरे बार्हते चापि राजन्महाव्रते नैव दृश्येद्ध्रुवं तत् ॥ २१ ॥
अपारणीयं तमसः परस्तात्तदन्तकोऽप्येति विनाशकाले ।अणीयरूपं क्षुरधारया तन्महच्च रूपं त्वपि पर्वतेभ्यः ॥ २२ ॥
सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः ।भूतानि जज्ञिरे तस्मात्प्रलयं यान्ति तत्र च ॥ २३ ॥
अनामयं तन्महदुद्यतं यशो वाचो विकारान्कवयो वदन्ति ।तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ॥ २४ ॥
« »