Click on words to see what they mean.

युधिष्ठिर उवाच ।उत सन्तमसन्तं च बालं वृद्धं च संजय ।उताबलं बलीयांसं धाता प्रकुरुते वशे ॥ १ ॥
उत बालाय पाण्डित्यं पण्डितायोत बालताम् ।ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥ २ ॥
अलं विज्ञापनाय स्यादाचक्षीथा यथातथम् ।अथो मन्त्रं मन्त्रयित्वा अन्योन्येनातिहृष्टवत् ॥ ३ ॥
गावल्गणे कुरून्गत्वा धृतराष्ट्रं महाबलम् ।अभिवाद्योपसंगृह्य ततः पृच्छेरनामयम् ॥ ४ ॥
ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम् ।तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः ॥ ५ ॥
तव प्रसादाद्बालास्ते प्राप्ता राज्यमरिंदम ।राज्ये तान्स्थापयित्वाग्रे नोपेक्षीर्विनशिष्यतः ॥ ६ ॥
सर्वमप्येतदेकस्य नालं संजय कस्यचित् ।तात संहत्य जीवामो मा द्विषद्भ्यो वशं गमः ॥ ७ ॥
तथा भीष्मं शांतनवं भारतानां पितामहम् ।शिरसाभिवदेथास्त्वं मम नाम प्रकीर्तयन् ॥ ८ ॥
अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः ।भवता शंतनोर्वंशो निमग्नः पुनरुद्धृतः ॥ ९ ॥
स त्वं कुरु तथा तात स्वमतेन पितामह ।यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम् ॥ १० ॥
तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम् ।अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरः ॥ ११ ॥
अथो सुयोधनं ब्रूया राजपुत्रममर्षणम् ।मध्ये कुरूणामासीनमनुनीय पुनः पुनः ॥ १२ ॥
अपश्यन्मामुपेक्षन्तं कृष्णामेकां सभागताम् ।तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ॥ १३ ॥
एवं पूर्वापरान्क्लेशानतितिक्षन्त पाण्डवाः ।यथा बलीयसः सन्तस्तत्सर्वं कुरवो विदुः ॥ १४ ॥
यन्नः प्राव्राजयः सौम्य अजिनैः प्रतिवासितान् ।तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ॥ १५ ॥
यत्तत्सभायामाक्रम्य कृष्णां केशेष्वधर्षयत् ।दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम् ॥ १६ ॥
यथोचितं स्वकं भागं लभेमहि परंतप ।निवर्तय परद्रव्ये बुद्धिं गृद्धां नरर्षभ ॥ १७ ॥
शान्तिरेवं भवेद्राजन्प्रीतिश्चैव परस्परम् ।राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम् ॥ १८ ॥
कुशस्थलं वृकस्थलमासन्दी वारणावतम् ।अवसानं भवेदत्र किंचिदेव तु पञ्चमम् ॥ १९ ॥
भ्रातॄणां देहि पञ्चानां ग्रामान्पञ्च सुयोधन ।शान्तिर्नोऽस्तु महाप्राज्ञ ज्ञातिभिः सह संजय ॥ २० ॥
भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम् ।स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह ॥ २१ ॥
अक्षतान्कुरुपाञ्चालान्पश्येम इति कामये ।सर्वे सुमनसस्तात शाम्याम भरतर्षभ ॥ २२ ॥
अलमेव शमायास्मि तथा युद्धाय संजय ।धर्मार्थयोरलं चाहं मृदवे दारुणाय च ॥ २३ ॥
« »