Click on words to see what they mean.

वैशंपायन उवाच ।अनुज्ञातः पाण्डवेन प्रययौ संजयस्तदा ।शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः ॥ १ ॥
संप्राप्य हास्तिनपुरं शीघ्रं च प्रविवेश ह ।अन्तःपुरमुपस्थाय द्वाःस्थं वचनमब्रवीत् ॥ २ ॥
आचक्ष्व मां धृतराष्ट्राय द्वाःस्थ उपागतं पाण्डवानां सकाशात् ।जागर्ति चेदभिवदेस्त्वं हि क्षत्तः प्रविशेयं विदितो भूमिपस्य ॥ ३ ॥
द्वाःस्थ उवाच ।संजयोऽयं भूमिपते नमस्ते दिदृक्षया द्वारमुपागतस्ते ।प्राप्तो दूतः पाण्डवानां सकाशात्प्रशाधि राजन्किमयं करोतु ॥ ४ ॥
धृतराष्ट्र उवाच ।आचक्ष्व मां सुखिनं काल्यमस्मै प्रवेश्यतां स्वागतं संजयाय ।न चाहमेतस्य भवाम्यकाल्यः स मे कस्माद्द्वारि तिष्ठेत क्षत्तः ॥ ५ ॥
वैशंपायन उवाच ।ततः प्रविश्यानुमते नृपस्य महद्वेश्म प्राज्ञशूरार्यगुप्तम् ।सिंहासनस्थं पार्थिवमाससाद वैचित्रवीर्यं प्राञ्जलिः सूतपुत्रः ॥ ६ ॥
संजय उवाच ।संजयोऽहं भूमिपते नमस्ते प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान् ।अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी युधिष्ठिरः कुशलं चान्वपृच्छत् ॥ ७ ॥
स ते पुत्रान्पृच्छति प्रीयमाणः कच्चित्पुत्रैः प्रीयसे नप्तृभिश्च ।तथा सुहृद्भिः सचिवैश्च राजन्ये चापि त्वामुपजीवन्ति तैश्च ॥ ८ ॥
धृतराष्ट्र उवाच ।अभ्येत्य त्वां तात वदामि संजय अजातशत्रुं च सुखेन पार्थम् ।कच्चित्स राजा कुशली सपुत्रः सहामात्यः सानुजः कौरवाणाम् ॥ ९ ॥
संजय उवाच ।सहामात्यः कुशली पाण्डुपुत्रो भूयश्चातो यच्च तेऽग्रे मनोऽभूत् ।निर्णिक्तधर्मार्थकरो मनस्वी बहुश्रुतो दृष्टिमाञ्शीलवांश्च ॥ १० ॥
परं धर्मात्पाण्डवस्यानृशंस्यं धर्मः परो वित्तचयान्मतोऽस्य ।सुखप्रिये धर्महीने न पार्थोऽनुरुध्यते भारत तस्य विद्धि ॥ ११ ॥
परप्रयुक्तः पुरुषो विचेष्टते सूत्रप्रोता दारुमयीव योषा ।इमं दृष्ट्वा नियमं पाण्डवस्य मन्ये परं कर्म दैवं मनुष्यात् ॥ १२ ॥
इमं च दृष्ट्वा तव कर्मदोषं पादोदर्कं घोरमवर्णरूपम् ।यावन्नरः कामयतेऽतिकाल्यं तावन्नरोऽयं लभते प्रशंसाम् ॥ १३ ॥
अजातशत्रुस्तु विहाय पापं जीर्णां त्वचं सर्प इवासमर्थाम् ।विरोचतेऽहार्यवृत्तेन धीरो युधिष्ठिरस्त्वयि पापं विसृज्य ॥ १४ ॥
अङ्गात्मनः कर्म निबोध राजन्धर्मार्थयुक्तादार्यवृत्तादपेतम् ।उपक्रोशं चेह गतोऽसि राजन्नोहेश्च पापं प्रसजेदमुत्र ॥ १५ ॥
स त्वमर्थं संशयितं विना तैराशंससे पुत्रवशानुगोऽद्य ।अधर्मशब्दश्च महान्पृथिव्यां नेदं कर्म त्वत्समं भारताग्र्य ॥ १६ ॥
हीनप्रज्ञो दौष्कुलेयो नृशंसो दीर्घवैरी क्षत्रविद्यास्वधीरः ।एवंधर्मा नापदः संतितीर्षेद्धीनवीर्यो यश्च भवेदशिष्टः ॥ १७ ॥
कुले जातो धर्मवान्यो यशस्वी बहुश्रुतः सुखजीवी यतात्मा ।धर्मार्थयोर्ग्रथितयोर्बिभर्ति नान्यत्र दिष्टस्य वशादुपैति ॥ १८ ॥
कथं हि मन्त्राग्र्यधरो मनीषी धर्मार्थयोरापदि संप्रणेता ।एवंयुक्तः सर्वमन्त्रैरहीनो अनानृशंस्यं कर्म कुर्यादमूढः ॥ १९ ॥
तवापीमे मन्त्रविदः समेत्य समासते कर्मसु नित्ययुक्ताः ।तेषामयं बलवान्निश्चयश्च कुरुक्षयार्थे निरयो व्यपादि ॥ २० ॥
अकालिकं कुरवो नाभविष्यन्पापेन चेत्पापमजातशत्रुः ।इच्छेज्जातु त्वयि पापं विसृज्य निन्दा चेयं तव लोकेऽभविष्यत् ॥ २१ ॥
किमन्यत्र विषयादीश्वराणां यत्र पार्थः परलोकं ददर्श ।अत्यक्रामत्स तथा संमतः स्यान्न संशयो नास्ति मनुष्यकारः ॥ २२ ॥
एतान्गुणान्कर्मकृतानवेक्ष्य भावाभावौ वर्तमानावनित्यौ ।बलिर्हि राजा पारमविन्दमानो नान्यत्कालात्कारणं तत्र मेने ॥ २३ ॥
चक्षुः श्रोत्रे नासिका त्वक्च जिह्वा ज्ञानस्यैतान्यायतनानि जन्तोः ।तानि प्रीतान्येव तृष्णाक्षयान्ते तान्यव्यथो दुःखहीनः प्रणुद्यात् ॥ २४ ॥
न त्वेव मन्ये पुरुषस्य कर्म संवर्तते सुप्रयुक्तं यथावत् ।मातुः पितुः कर्मणाभिप्रसूतः संवर्धते विधिवद्भोजनेन ॥ २५ ॥
प्रियाप्रिये सुखदुःखे च राजन्निन्दाप्रशंसे च भजेत एनम् ।परस्त्वेनं गर्हयतेऽपराधे प्रशंसते साधुवृत्तं तमेव ॥ २६ ॥
स त्वा गर्हे भारतानां विरोधादन्तो नूनं भवितायं प्रजानाम् ।नो चेदिदं तव कर्मापराधात्कुरून्दहेत्कृष्णवर्त्मेव कक्षम् ॥ २७ ॥
त्वमेवैको जातपुत्रेषु राजन्वशं गन्ता सर्वलोके नरेन्द्र ।कामात्मनां श्लाघसे द्यूतकाले नान्यच्छमात्पश्य विपाकमस्य ॥ २८ ॥
अनाप्तानां प्रग्रहात्त्वं नरेन्द्र तथाप्तानां निग्रहाच्चैव राजन् ।भूमिं स्फीतां दुर्बलत्वादनन्तां न शक्तस्त्वं रक्षितुं कौरवेय ॥ २९ ॥
अनुज्ञातो रथवेगावधूतः श्रान्तो निपद्ये शयनं नृसिंह ।प्रातः श्रोतारः कुरवः सभायामजातशत्रोर्वचनं समेताः ॥ ३० ॥
« »