Click on words to see what they mean.

वैशंपायन उवाच ।श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि ।प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम् ॥ १ ॥
प्रसमीक्ष्य भवानेतद्वक्तुमर्हति केशव ।मामेव हि विशेषेण विभाष्य परिगर्हसे ॥ २ ॥
भक्तिवादेन पार्थानामकस्मान्मधुसूदन ।भवान्गर्हयते नित्यं किं समीक्ष्य बलाबलम् ॥ ३ ॥
भवान्क्षत्ता च राजा च आचार्यो वा पितामहः ।मामेव परिगर्हन्ते नान्यं कंचन पार्थिवम् ॥ ४ ॥
न चाहं लक्षये कंचिद्व्यभिचारमिहात्मनः ।अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः ॥ ५ ॥
न चाहं कंचिदत्यर्थमपराधमरिंदम ।विचिन्तयन्प्रपश्यामि सुसूक्ष्ममपि केशव ॥ ६ ॥
प्रियाभ्युपगते द्यूते पाण्डवा मधुसूदन ।जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम् ॥ ७ ॥
यत्पुनर्द्रविणं किंचित्तत्राजीयन्त पाण्डवाः ।तेभ्य एवाभ्यनुज्ञातं तत्तदा मधुसूदन ॥ ८ ॥
अपराधो न चास्माकं यत्ते ह्यक्षपराजिताः ।अजेया जयतां श्रेष्ठ पार्थाः प्रव्राजिता वनम् ॥ ९ ॥
केन चाप्यपवादेन विरुध्यन्तेऽरिभिः सह ।अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत् ॥ १० ॥
किमस्माभिः कृतं तेषां कस्मिन्वा पुनरागसि ।धार्तराष्ट्राञ्जिघांसन्ति पाण्डवाः सृञ्जयैः सह ॥ ११ ॥
न चापि वयमुग्रेण कर्मणा वचनेन वा ।वित्रस्ताः प्रणमामेह भयादपि शतक्रतोः ॥ १२ ॥
न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम् ।उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण ॥ १३ ॥
न हि भीष्मकृपद्रोणाः सगणा मधुसूदन ।देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः ॥ १४ ॥
स्वधर्ममनुतिष्ठन्तो यदि माधव संयुगे ।शस्त्रेण निधनं काले प्राप्स्यामः स्वर्गमेव तत् ॥ १५ ॥
मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन ।यच्छयीमहि संग्रामे शरतल्पगता वयम् ॥ १६ ॥
ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे ।अप्रणम्यैव शत्रूणां न नस्तप्स्यति माधव ॥ १७ ॥
कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन् ।भयाद्वृत्तिं समीक्ष्यैवं प्रणमेदिह कस्यचित् ॥ १८ ॥
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् ।अप्यपर्वणि भज्येत न नमेदिह कस्यचित् ॥ १९ ॥
इति मातङ्गवचनं परीप्सन्ति हितेप्सवः ।धर्माय चैव प्रणमेद्ब्राह्मणेभ्यश्च मद्विधः ॥ २० ॥
अचिन्तयन्कंचिदन्यं यावज्जीवं तथाचरेत् ।एष धर्मः क्षत्रियाणां मतमेतच्च मे सदा ॥ २१ ॥
राज्यांशश्चाभ्यनुज्ञातो यो मे पित्रा पुराभवत् ।न स लभ्यः पुनर्जातु मयि जीवति केशव ॥ २२ ॥
यावच्च राजा ध्रियते धृतराष्ट्रो जनार्दन ।न्यस्तशस्त्रा वयं ते वाप्युपजीवाम माधव ॥ २३ ॥
यद्यदेयं पुरा दत्तं राज्यं परवतो मम ।अज्ञानाद्वा भयाद्वापि मयि बाले जनार्दन ॥ २४ ॥
न तदद्य पुनर्लभ्यं पाण्डवैर्वृष्णिनन्दन ।ध्रियमाणे महाबाहो मयि संप्रति केशव ॥ २५ ॥
यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण माधव ।तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति ॥ २६ ॥
« »