Click on words to see what they mean.

वैशंपायन उवाच ।धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समर्थ्य तौ ।दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ॥ १ ॥
यावत्कृष्णावसंनद्धौ यावत्तिष्ठति गाण्डिवम् ।यावद्धौम्यो न सेनाग्नौ जुहोतीह द्विषद्बलम् ॥ २ ॥
यावन्न प्रेक्षते क्रुद्धः सेनां तव युधिष्ठिरः ।ह्रीनिषेधो महेष्वासस्तावच्छाम्यतु वैशसम् ॥ ३ ॥
यावन्न दृश्यते पार्थः स्वेष्वनीकेष्ववस्थितः ।भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम् ॥ ४ ॥
यावन्न चरते मार्गान्पृतनामभिहर्षयन् ।यावन्न शातयत्याजौ शिरांसि गजयोधिनाम् ॥ ५ ॥
गदया वीरघातिन्या फलानीव वनस्पतेः ।कालेन परिपक्वानि तावच्छाम्यतु वैशसम् ॥ ६ ॥
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ।विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः ॥ ७ ॥
यावन्न प्रविशन्त्येते नक्रा इव महार्णवम् ।कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम् ॥ ८ ॥
यावन्न सुकुमारेषु शरीरेषु महीक्षिताम् ।गार्ध्रपत्राः पतन्त्युग्रास्तावच्छाम्यतु वैशसम् ॥ ९ ॥
चन्दनागरुदिग्धेषु हारनिष्कधरेषु च ।नोरःसु यावद्योधानां महेष्वासैर्महेषवः ॥ १० ॥
कृतास्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः ।अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम् ॥ ११ ॥
अभिवादयमानं त्वां शिरसा राजकुञ्जरः ।पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः ॥ १२ ॥
ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः ।स्कन्धे निक्षिपतां बाहुं शान्तये भरतर्षभ ॥ १३ ॥
रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च ।उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु ॥ १४ ॥
शालस्कन्धो महाबाहुस्त्वां स्वजानो वृकोदरः ।साम्नाभिवदतां चापि शान्तये भरतर्षभ ॥ १५ ॥
अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः ।मूर्ध्नि तान्समुपाघ्राय प्रेम्णाभिवद पार्थिव ॥ १६ ॥
दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिः सह संगतम् ।यावदानन्दजाश्रूणि प्रमुञ्चन्तु नराधिपाः ॥ १७ ॥
घुष्यतां राजधानीषु सर्वसंपन्महीक्षिताम् ।पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव ॥ १८ ॥
« »