Click on words to see what they mean.

वैशंपायन उवाच ।ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः ।दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥ १ ॥
लप्स्यसे वीरशयनं काममेतदवाप्स्यसि ।स्थिरो भव सहामात्यो विमर्दो भविता महान् ॥ २ ॥
यच्चैवं मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः ।पाण्डवेष्विति तत्सर्वं निबोधत नराधिपाः ॥ ३ ॥
श्रिया संतप्यमानेन पाण्डवानां महात्मनाम् ।त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत ॥ ४ ॥
कथं च ज्ञातयस्तात श्रेयांसः साधुसंमताः ।तथान्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः ॥ ५ ॥
अक्षद्यूतं महाप्राज्ञ सतामरतिनाशनम् ।असतां तत्र जायन्ते भेदाश्च व्यसनानि च ॥ ६ ॥
तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम् ।असमीक्ष्य सदाचारैः सार्धं पापानुबन्धनैः ॥ ७ ॥
कश्चान्यो ज्ञातिभार्यां वै विप्रकर्तुं तथार्हति ।आनीय च सभां वक्तुं यथोक्ता द्रौपदी त्वया ॥ ८ ॥
कुलीना शीलसंपन्ना प्राणेभ्योऽपि गरीयसी ।महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया ॥ ९ ॥
जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि ।दुःशासनेन कौन्तेयाः प्रव्रजन्तः परंतपाः ॥ १० ॥
सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु ।स्वेषु बन्धुषु कः साधुश्चरेदेवमसांप्रतम् ॥ ११ ॥
नृशंसानामनार्याणां परुषाणां च भाषणम् ।कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम् ॥ १२ ॥
सह मात्रा प्रदग्धुं तान्बालकान्वारणावते ।आस्थितः परमं यत्नं न समृद्धं च तत्तव ॥ १३ ॥
ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा ।मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ॥ १४ ॥
विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया ।सर्वोपायैर्विनाशाय न समृद्धं च तत्तव ॥ १५ ॥
एवंबुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान् ।कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु ॥ १६ ॥
कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत् ।मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे ॥ १७ ॥
मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च ।शाम्येति मुहुरुक्तोऽसि न च शाम्यसि पार्थिव ॥ १८ ॥
शमे हि सुमहानर्थस्तव पार्थस्य चोभयोः ।न च रोचयसे राजन्किमन्यद्बुद्धिलाघवात् ॥ १९ ॥
न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः ।अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया ॥ २० ॥
एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम् ।दुःशासन इदं वाक्यमब्रवीत्कुरुसंसदि ॥ २१ ॥
न चेत्संधास्यसे राजन्स्वेन कामेन पाण्डवैः ।बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः ॥ २२ ॥
वैकर्तनं त्वां च मां च त्रीनेतान्मनुजर्षभ ।पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते ॥ २३ ॥
भ्रातुरेतद्वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः ।क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन् ॥ २४ ॥
विदुरं धृतराष्ट्रं च महाराजं च बाह्लिकम् ।कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम् ॥ २५ ॥
सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः ।अशिष्टवदमर्यादो मानी मान्यावमानिता ॥ २६ ॥
तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम् ।अनुजग्मुः सहामात्या राजानश्चापि सर्वशः ॥ २७ ॥
सभायामुत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह ।दुर्योधनमभिप्रेक्ष्य भीष्मः शांतनवोऽब्रवीत् ॥ २८ ॥
धर्मार्थावभिसंत्यज्य संरम्भं योऽनुमन्यते ।हसन्ति व्यसने तस्य दुर्हृदो नचिरादिव ॥ २९ ॥
दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायवित् ।मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः ॥ ३० ॥
कालपक्वमिदं मन्ये सर्वक्षत्रं जनार्दन ।सर्वे ह्यनुसृता मोहात्पार्थिवाः सह मन्त्रिभिः ॥ ३१ ॥
भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः ।भीष्मद्रोणमुखान्सर्वानभ्यभाषत वीर्यवान् ॥ ३२ ॥
सर्वेषां कुरुवृद्धानां महानयमतिक्रमः ।प्रसह्य मन्दमैश्वर्ये न नियच्छत यन्नृपम् ॥ ३३ ॥
तत्र कार्यमहं मन्ये प्राप्तकालमरिंदमाः ।क्रियमाणे भवेच्छ्रेयस्तत्सर्वं शृणुतानघाः ॥ ३४ ॥
प्रत्यक्षमेतद्भवतां यद्वक्ष्यामि हितं वचः ।भवतामानुकूल्येन यदि रोचेत भारताः ॥ ३५ ॥
भोजराजस्य वृद्धस्य दुराचारो ह्यनात्मवान् ।जीवतः पितुरैश्वर्यं हृत्वा मन्युवशं गतः ॥ ३६ ॥
उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः ।ज्ञातीनां हितकामेन मया शस्तो महामृधे ॥ ३७ ॥
आहुकः पुनरस्माभिर्ज्ञातिभिश्चापि सत्कृतः ।उग्रसेनः कृतो राजा भोजराजन्यवर्धनः ॥ ३८ ॥
कंसमेकं परित्यज्य कुलार्थे सर्वयादवाः ।संभूय सुखमेधन्ते भारतान्धकवृष्णयः ॥ ३९ ॥
अपि चाप्यवदद्राजन्परमेष्ठी प्रजापतिः ।व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च ॥ ४० ॥
द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत ।अब्रवीत्सृष्टिमान्देवो भगवाँल्लोकभावनः ॥ ४१ ॥
पराभविष्यन्त्यसुरा दैतेया दानवैः सह ।आदित्या वसवो रुद्रा भविष्यन्ति दिवौकसः ॥ ४२ ॥
देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः ।अस्मिन्युद्धे सुसंयत्ता हनिष्यन्ति परस्परम् ॥ ४३ ॥
इति मत्वाब्रवीद्धर्मं परमेष्ठी प्रजापतिः ।वरुणाय प्रयच्छैतान्बद्ध्वा दैतेयदानवान् ॥ ४४ ॥
एवमुक्तस्ततो धर्मो नियोगात्परमेष्ठिनः ।वरुणाय ददौ सर्वान्बद्ध्वा दैतेयदानवान् ॥ ४५ ॥
तान्बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः ।वरुणः सागरे यत्तो नित्यं रक्षति दानवान् ॥ ४६ ॥
तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम् ।बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत ॥ ४७ ॥
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् ।ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ ४८ ॥
राजन्दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः ।त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ ॥ ४९ ॥
« »