Click on words to see what they mean.

नारद उवाच ।प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुंगवः ।ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः ॥ १ ॥
दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः ।दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा ॥ २ ॥
ततो वसुमनाः पूर्वमुच्चैरुच्चारयन्वचः ।ख्यातो दानपतिर्लोके व्याजहार नृपं तदा ॥ ३ ॥
प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया ।तदप्यथ च दास्यामि तेन संयुज्यतां भवान् ॥ ४ ॥
यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम् ।यच्च मे फलमाधाने तेन संयुज्यतां भवान् ॥ ५ ॥
ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुंगवः ।यथा धर्मरतिर्नित्यं नित्यं युद्धपरायणः ॥ ६ ॥
प्राप्तवानस्मि यल्लोके क्षत्रधर्मोद्भवं यशः ।वीरशब्दफलं चैव तेन संयुज्यतां भवान् ॥ ७ ॥
शिबिरौशीनरो धीमानुवाच मधुरां गिरम् ।यथा बालेषु नारीषु वैहार्येषु तथैव च ॥ ८ ॥
संगरेषु निपातेषु तथापद्व्यसनेषु च ।अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज ॥ ९ ॥
यथा प्राणांश्च राज्यं च राजन्कर्म सुखानि च ।त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज ॥ १० ॥
यथा सत्येन मे धर्मो यथा सत्येन पावकः ।प्रीतः शक्रश्च सत्येन तेन सत्येन खं व्रज ॥ ११ ॥
अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः ।अनेकशतयज्वानं वचनं प्राह धर्मवित् ॥ १२ ॥
शतशः पुण्डरीका मे गोसवाश्च चिताः प्रभो ।क्रतवो वाजपेयाश्च तेषां फलमवाप्नुहि ॥ १३ ॥
न मे रत्नानि न धनं न तथान्ये परिच्छदाः ।क्रतुष्वनुपयुक्तानि तेन सत्येन खं व्रज ॥ १४ ॥
यथा यथा हि जल्पन्ति दौहित्रास्तं नराधिपम् ।तथा तथा वसुमतीं त्यक्त्वा राजा दिवं ययौ ॥ १५ ॥
एवं सर्वे समस्तास्ते राजानः सुकृतैस्तदा ।ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा ॥ १६ ॥
दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै ।चतुर्षु राजवंशेषु संभूताः कुलवर्धनाः ।मातामहं महाप्राज्ञं दिवमारोपयन्ति ते ॥ १७ ॥
राजान ऊचुः ।राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः ।दौहित्रास्ते वयं राजन्दिवमारोह पार्थिवः ॥ १८ ॥
« »