Click on words to see what they mean.

नारद उवाच ।अथ प्रचलितः स्थानादासनाच्च परिच्युतः ।कम्पितेनैव मनसा धर्षितः शोकवह्निना ॥ १ ॥
म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः ।विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः ॥ २ ॥
अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः ।शून्यः शून्येन मनसा प्रपतिष्यन्महीतलम् ॥ ३ ॥
किं मया मनसा ध्यातमशुभं धर्मदूषणम् ।येनाहं चलितः स्थानादिति राजा व्यचिन्तयत् ॥ ४ ॥
ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा ।अपश्यन्त निरालम्बं ययातिं तं परिच्युतम् ॥ ५ ॥
अथैत्य पुरुषः कश्चित्क्षीणपुण्यनिपातकः ।ययातिमब्रवीद्राजन्देवराजस्य शासनात् ॥ ६ ॥
अतीव मदमत्तस्त्वं न कंचिन्नावमन्यसे ।मानेन भ्रष्टः स्वर्गस्ते नार्हस्त्वं पार्थिवात्मज ।न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत् ॥ ७ ॥
पतेयं सत्स्विति वचस्त्रिरुक्त्वा नहुषात्मजः ।पतिष्यंश्चिन्तयामास गतिं गतिमतां वरः ॥ ८ ॥
एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान् ।चतुरोऽपश्यत नृपस्तेषां मध्ये पपात सः ॥ ९ ॥
प्रतर्दनो वसुमनाः शिबिरौशीनरोऽष्टकः ।वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम् ॥ १० ॥
तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम् ।ययातिरुपजिघ्रन्वै निपपात महीं प्रति ॥ ११ ॥
भूमौ स्वर्गे च संबद्धां नदीं धूममयीं नृपः ।स गङ्गामिव गच्छन्तीमालम्ब्य जगतीपतिः ॥ १२ ॥
श्रीमत्स्ववभृथाग्र्येषु चतुर्षु प्रतिबन्धुषु ।मध्ये निपतितो राजा लोकपालोपमेषु च ॥ १३ ॥
चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु ।पपात मध्ये राजर्षिर्ययातिः पुण्यसंक्षये ॥ १४ ॥
तमाहुः पार्थिवाः सर्वे प्रतिमानमिव श्रियः ।को भवान्कस्य वा बन्धुर्देशस्य नगरस्य वा ॥ १५ ॥
यक्षो वाप्यथ वा देवो गन्धर्वो राक्षसोऽपि वा ।न हि मानुषरूपोऽसि को वार्थः काङ्क्षितस्त्वया ॥ १६ ॥
ययातिरुवाच ।ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः ।पतेयं सत्स्विति ध्यायन्भवत्सु पतितस्ततः ॥ १७ ॥
राजान ऊचुः ।सत्यमेतद्भवतु ते काङ्क्षितं पुरुषर्षभ ।सर्वेषां नः क्रतुफलं धर्मश्च प्रतिगृह्यताम् ॥ १८ ॥
ययातिरुवाच ।नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियो ह्यहम् ।न च मे प्रवणा बुद्धिः परपुण्यविनाशने ॥ १९ ॥
नारद उवाच ।एतस्मिन्नेव काले तु मृगचर्याक्रमागताम् ।माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमब्रुवन् ॥ २० ॥
किमागमनकृत्यं ते किं कुर्मः शासनं तव ।आज्ञाप्या हि वयं सर्वे तव पुत्रास्तपोधने ॥ २१ ॥
तेषां तद्भाषितं श्रुत्वा माधवी परया मुदा ।पितरं समुपागच्छद्ययातिं सा ववन्द च ॥ २२ ॥
दृष्ट्वा मूर्ध्ना नतान्पुत्रांस्तापसी वाक्यमब्रवीत् ।दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः ।इमे त्वां तारयिष्यन्ति दिष्टमेतत्पुरातनम् ॥ २३ ॥
अहं ते दुहिता राजन्माधवी मृगचारिणी ।मयाप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम् ॥ २४ ॥
यस्माद्राजन्नराः सर्वे अपत्यफलभागिनः ।तस्मादिच्छन्ति दौहित्रान्यथा त्वं वसुधाधिप ॥ २५ ॥
ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा ।अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन् ॥ २६ ॥
उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम् ।मातामहं नृपतयस्तारयन्तो दिवश्च्युतम् ॥ २७ ॥
अथ तस्मादुपगतो गालवोऽप्याह पार्थिवम् ।तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान् ॥ २८ ॥
« »