Click on words to see what they mean.

नारद उवाच ।सद्भिरारोपितः स्वर्गं पार्थिवैर्भूरिदक्षिणैः ।अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः ॥ १ ॥
अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना ।परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना ॥ २ ॥
अचलं स्थानमारुह्य दौहित्रफलनिर्जितम् ।कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया ॥ ३ ॥
उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः ।प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिस्वनैः ॥ ४ ॥
अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः ।अर्चितश्चोत्तमार्घेण दैवतैरभिनन्दितः ॥ ५ ॥
प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः ।निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव ॥ ६ ॥
चतुष्पादस्त्वया धर्मश्चितो लोक्येन कर्मणा ।अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि ।पुनस्तवाद्य राजर्षे सुकृतेनेह कर्मणा ॥ ७ ॥
आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम् ।येन त्वां नाभिजानन्ति ततोऽज्ञात्वासि पातितः ॥ ८ ॥
प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः ।स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम् ।अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम् ॥ ९ ॥
ययातिरुवाच ।भगवन्संशयो मेऽस्ति कश्चित्तं छेत्तुमर्हसि ।न ह्यन्यमहमर्हामि प्रष्टुं लोकपितामह ॥ १० ॥
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् ।अनेकक्रतुदानौघैरर्जितं मे महत्फलम् ॥ ११ ॥
कथं तदल्पकालेन क्षीणं येनास्मि पातितः ।भगवन्वेत्थ लोकांश्च शाश्वतान्मम निर्जितान् ॥ १२ ॥
पितामह उवाच ।बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् ।अनेकक्रतुदानौघैर्यत्त्वयोपार्जितं फलम् ॥ १३ ॥
तदनेनैव दोषेण क्षीणं येनासि पातितः ।अभिमानेन राजेन्द्र धिक्कृतः स्वर्गवासिभिः ॥ १४ ॥
नायं मानेन राजर्षे न बलेन न हिंसया ।न शाठ्येन न मायाभिर्लोको भवति शाश्वतः ॥ १५ ॥
नावमान्यास्त्वया राजन्नवरोत्कृष्टमध्यमाः ।न हि मानप्रदग्धानां कश्चिदस्ति समः क्वचित् ॥ १६ ॥
पतनारोहणमिदं कथयिष्यन्ति ये नराः ।विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः ॥ १७ ॥
नारद उवाच ।एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना ।निर्बन्धतश्चातिमात्रं गालवेन महीपते ॥ १८ ॥
श्रोतव्यं हितकामानां सुहृदां भूतिमिच्छताम् ।न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः ॥ १९ ॥
तस्मात्त्वमपि गान्धारे मानं क्रोधं च वर्जय ।संधत्स्व पाण्डवैर्वीर संरम्भं त्यज पार्थिव ॥ २० ॥
ददाति यत्पार्थिव यत्करोति यद्वा तपस्तप्यति यज्जुहोति ।न तस्य नाशोऽस्ति न चापकर्षो नान्यस्तदश्नाति स एव कर्ता ॥ २१ ॥
इदं महाख्यानमनुत्तमं मतं बहुश्रुतानां गतरोषरागिणाम् ।समीक्ष्य लोके बहुधा प्रधाविता त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते ॥ २२ ॥
« »