Click on words to see what they mean.

कण्व उवाच ।गरुडस्तत्तु शुश्राव यथावृत्तं महाबलः ।आयुःप्रदानं शक्रेण कृतं नागस्य भारत ॥ १ ॥
पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः ।सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत् ॥ २ ॥
गरुड उवाच ।भगवन्किमवज्ञानात्क्षुधां प्रति भये मम ।कामकारवरं दत्त्वा पुनश्चलितवानसि ॥ ३ ॥
निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे ।आहारो विहितो धात्रा किमर्थं वार्यते त्वया ॥ ४ ॥
वृतश्चैष महानागः स्थापितः समयश्च मे ।अनेन च मया देव भर्तव्यः प्रसवो महान् ॥ ५ ॥
एतस्मिंस्त्वन्यथाभूते नान्यं हिंसितुमुत्सहे ।क्रीडसे कामकारेण देवराज यथेच्छकम् ॥ ६ ॥
सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम ।ये च भृत्या मम गृहे प्रीतिमान्भव वासव ॥ ७ ॥
एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन् ।त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः ॥ ८ ॥
त्वयि तिष्ठति देवेश न विष्णुः कारणं मम ।त्रैलोक्यराज राज्यं हि त्वयि वासव शाश्वतम् ॥ ९ ॥
ममापि दक्षस्य सुता जननी कश्यपः पिता ।अहमप्युत्सहे लोकान्समस्तान्वोढुमञ्जसा ॥ १० ॥
असह्यं सर्वभूतानां ममापि विपुलं बलम् ।मयापि सुमहत्कर्म कृतं दैतेयविग्रहे ॥ ११ ॥
श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः ।प्रसभः कालकाक्षश्च मयापि दितिजा हताः ॥ १२ ॥
यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम् ।वहामि चैवानुजं ते तेन मामवमन्यसे ॥ १३ ॥
कोऽन्यो भारसहो ह्यस्ति कोऽन्योऽस्ति बलवत्तरः ।मया योऽहं विशिष्टः सन्वहामीमं सबान्धवम् ॥ १४ ॥
अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः ।तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव ॥ १५ ॥
अदित्यां य इमे जाता बलविक्रमशालिनः ।त्वमेषां किल सर्वेषां विशेषाद्बलवत्तरः ॥ १६ ॥
सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः ।विमृश त्वं शनैस्तात को न्वत्र बलवानिति ॥ १७ ॥
कण्व उवाच ।तस्य तद्वचनं श्रुत्वा खगस्योदर्कदारुणम् ।अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत् ॥ १८ ॥
गरुत्मन्मन्यसेऽऽत्मानं बलवन्तं सुदुर्बलम् ।अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज ॥ १९ ॥
त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे ।अहमेवात्मनात्मानं वहामि त्वां च धारये ॥ २० ॥
इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह ।यद्येनं धारयस्येकं सफलं ते विकत्थितम् ॥ २१ ॥
ततः स भगवांस्तस्य स्कन्धे बाहुं समासजत् ।निपपात स भारार्तो विह्वलो नष्टचेतनः ॥ २२ ॥
यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह ।एकस्या देहशाखायास्तावद्भारममन्यत ॥ २३ ॥
न त्वेनं पीडयामास बलेन बलवत्तरः ।ततो हि जीवितं तस्य न व्यनीनशदच्युतः ॥ २४ ॥
विपक्षः स्रस्तकायश्च विचेता विह्वलः खगः ।मुमोच पत्राणि तदा गुरुभारप्रपीडितः ॥ २५ ॥
स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः ।विचेता विह्वलो दीनः किंचिद्वचनमब्रवीत् ॥ २६ ॥
भगवँल्लोकसारस्य सदृशेन वपुष्मता ।भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले ॥ २७ ॥
क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः ।बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः ॥ २८ ॥
न विज्ञातं बलं देव मया ते परमं विभो ।तेन मन्याम्यहं वीर्यमात्मनोऽसदृशं परैः ॥ २९ ॥
ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः ।मैवं भूय इति स्नेहात्तदा चैनमुवाच ह ॥ ३० ॥
तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे ।नासादयसि तान्वीरांस्तावज्जीवसि पुत्रक ॥ ३१ ॥
भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः ।धनंजयश्चेन्द्रसुतो न हन्यातां तु कं रणे ॥ ३२ ॥
विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ ।एते देवास्त्वया केन हेतुना शक्यमीक्षितुम् ॥ ३३ ॥
तदलं ते विरोधेन शमं गच्छ नृपात्मज ।वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि ॥ ३४ ॥
प्रत्यक्षो ह्यस्य सर्वस्य नारदोऽयं महातपाः ।माहात्म्यं यत्तदा विष्णोर्योऽयं चक्रगदाधरः ॥ ३५ ॥
वैशंपायन उवाच ।दुर्योधनस्तु तच्छ्रुत्वा निःश्वसन्भृकुटीमुखः ।राधेयमभिसंप्रेक्ष्य जहास स्वनवत्तदा ॥ ३६ ॥
कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः ।ऊरुं गजकराकारं ताडयन्निदमब्रवीत् ॥ ३७ ॥
यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः ।तथा महर्षे वर्तामि किं प्रलापः करिष्यति ॥ ३८ ॥
« »