Click on words to see what they mean.

जनमेजय उवाच ।अनर्थे जातनिर्बन्धं परार्थे लोभमोहितम् ।अनार्यकेष्वभिरतं मरणे कृतनिश्चयम् ॥ १ ॥
ज्ञातीनां दुःखकर्तारं बन्धूनां शोकवर्धनम् ।सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम् ॥ २ ॥
कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः ।सौहृदाद्वा सुहृत्स्निग्धो भगवान्वा पितामहः ॥ ३ ॥
वैशंपायन उवाच ।उक्तं भगवता वाक्यमुक्तं भीष्मेण यत्क्षमम् ।उक्तं बहुविधं चैव नारदेनापि तच्छृणु ॥ ४ ॥
नारद उवाच ।दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् ।तिष्ठते हि सुहृद्यत्र न बन्धुस्तत्र तिष्ठति ॥ ५ ॥
श्रोतव्यमपि पश्यामि सुहृदां कुरुनन्दन ।न कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः ॥ ६ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।यथा निर्बन्धतः प्राप्तो गालवेन पराजयः ॥ ७ ॥
विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा ।अभ्यगच्छत्स्वयं भूत्वा वसिष्ठो भगवानृषिः ॥ ८ ॥
सप्तर्षीणामन्यतमं वेषमास्थाय भारत ।बुभुक्षुः क्षुधितो राजन्नाश्रमं कौशिकस्य ह ॥ ९ ॥
विश्वामित्रोऽथ संभ्रान्तः श्रपयामास वै चरुम् ।परमान्नस्य यत्नेन न च स प्रत्यपालयत् ॥ १० ॥
अन्नं तेन यदा भुक्तमन्यैर्दत्तं तपस्विभिः ।अथ गृह्यान्नमत्युष्णं विश्वामित्रोऽभ्युपागमत् ॥ ११ ॥
भुक्तं मे तिष्ठ तावत्त्वमित्युक्त्वा भगवान्ययौ ।विश्वामित्रस्ततो राजन्स्थित एव महाद्युतिः ॥ १२ ॥
भक्तं प्रगृह्य मूर्ध्ना तद्बाहुभ्यां पार्श्वतोऽगमत् ।स्थितः स्थाणुरिवाभ्याशे निश्चेष्टो मारुताशनः ॥ १३ ॥
तस्य शुश्रूषणे यत्नमकरोद्गालवो मुनिः ।गौरवाद्बहुमानाच्च हार्देन प्रियकाम्यया ॥ १४ ॥
अथ वर्षशते पूर्णे धर्मः पुनरुपागमत् ।वासिष्ठं वेषमास्थाय कौशिकं भोजनेप्सया ॥ १५ ॥
स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा ।तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता ॥ १६ ॥
प्रतिगृह्य ततो धर्मस्तथैवोष्णं तथा नवम् ।भुक्त्वा प्रीतोऽस्मि विप्रर्षे तमुक्त्वा स मुनिर्गतः ॥ १७ ॥
क्षत्रभावादपगतो ब्राह्मणत्वमुपागतः ।धर्मस्य वचनात्प्रीतो विश्वामित्रस्तदाभवत् ॥ १८ ॥
विश्वामित्रस्तु शिष्यस्य गालवस्य तपस्विनः ।शुश्रूषया च भक्त्या च प्रीतिमानित्युवाच तम् ।अनुज्ञातो मया वत्स यथेष्टं गच्छ गालव ॥ १९ ॥
इत्युक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम् ।प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम् ॥ २० ॥
दक्षिणां कां प्रयच्छामि भवते गुरुकर्मणि ।दक्षिणाभिरुपेतं हि कर्म सिध्यति मानवम् ॥ २१ ॥
दक्षिणानां हि सृष्टानामपवर्गेण भुज्यते ।स्वर्गे क्रतुफलं सद्भिर्दक्षिणा शान्तिरुच्यते ।किमाहरामि गुर्वर्थं ब्रवीतु भगवानिति ॥ २२ ॥
जानमानस्तु भगवाञ्जितः शुश्रूषणेन च ।विश्वामित्रस्तमसकृद्गच्छ गच्छेत्यचोदयत् ॥ २३ ॥
असकृद्गच्छ गच्छेति विश्वामित्रेण भाषितः ।किं ददानीति बहुशो गालवः प्रत्यभाषत ॥ २४ ॥
निर्बन्धतस्तु बहुशो गालवस्य तपस्विनः ।किंचिदागतसंरम्भो विश्वामित्रोऽब्रवीदिदम् ॥ २५ ॥
एकतःश्यामकर्णानां शतान्यष्टौ ददस्व मे ।हयानां चन्द्रशुभ्राणां गच्छ गालव माचिरम् ॥ २६ ॥
« »