Click on words to see what they mean.

वैशंपायन उवाच ।अथ दुर्योधनो राजा समरे भीष्ममब्रवीत् ।द्रोणं च रथशार्दूलं कृपं च सुमहारथम् ॥ १ ॥
उक्तोऽयमर्थ आचार्यो मया कर्णेन चासकृत् ।पुनरेव च वक्ष्यामि न हि तृप्यामि तं ब्रुवन् ॥ २ ॥
पराजितैर्हि वस्तव्यं तैश्च द्वादश वत्सरान् ।वने जनपदेऽज्ञातैरेष एव पणो हि नः ॥ ३ ॥
तेषां न तावन्निर्वृत्तं वर्तते तु त्रयोदशम् ।अज्ञातवासं बीभत्सुरथास्माभिः समागतः ॥ ४ ॥
अनिवृत्ते तु निर्वासे यदि बीभत्सुरागतः ।पुनर्द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः ॥ ५ ॥
लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत् ।हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति ॥ ६ ॥
अर्थानां तु पुनर्द्वैधे नित्यं भवति संशयः ।अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा ॥ ७ ॥
उत्तरं मार्गमाणानां मत्स्यसेनां युयुत्सताम् ।यदि बीभत्सुरायातस्तेषां कः स्यात्पराङ्मुखः ॥ ८ ॥
त्रिगर्तानां वयं हेतोर्मत्स्यान्योद्धुमिहागताः ।मत्स्यानां विप्रकारांस्ते बहूनस्मानकीर्तयन् ॥ ९ ॥
तेषां भयाभिपन्नानां तदस्माभिः प्रतिश्रुतम् ।प्रथमं तैर्ग्रहीतव्यं मत्स्यानां गोधनं महत् ॥ १० ॥
सप्तमीमपराह्णे वै तथा नस्तैः समाहितम् ।अष्टम्यां पुनरस्माभिरादित्यस्योदयं प्रति ॥ ११ ॥
ते वा गावो न पश्यन्ति यदि व स्युः पराजिताः ।अस्मान्वाप्यतिसंधाय कुर्युर्मत्स्येन संगतम् ॥ १२ ॥
अथ वा तानुपायातो मत्स्यो जानपदैः सह ।सर्वया सेनया सार्धमस्मान्योद्धुमुपागतः ॥ १३ ॥
तेषामेव महावीर्यः कश्चिदेव पुरःसरः ।अस्माञ्जेतुमिहायातो मत्स्यो वापि स्वयं भवेत् ॥ १४ ॥
यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः ।सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः ॥ १५ ॥
अथ कस्मात्स्थिता ह्येते रथेषु रथसत्तमाः ।भीष्मो द्रोणः कृपश्चैव विकर्णो द्रौणिरेव च ॥ १६ ॥
संभ्रान्तमनसः सर्वे काले ह्यस्मिन्महारथाः ।नान्यत्र युद्धाच्छ्रेयोऽस्ति तथात्मा प्रणिधीयताम् ॥ १७ ॥
आच्छिन्ने गोधनेऽस्माकमपि देवेन वज्रिणा ।यमेन वापि संग्रामे को हास्तिनपुरं व्रजेत् ॥ १८ ॥
शरैरभिप्रणुन्नानां भग्नानां गहने वने ।को हि जीवेत्पदातीनां भवेदश्वेषु संशयः ।आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् ॥ १९ ॥
जानाति हि मतं तेषामतस्त्रासयतीव नः ।अर्जुनेनास्य संप्रीतिमधिकामुपलक्षये ॥ २० ॥
तथा हि दृष्ट्वा बीभत्सुमुपायान्तं प्रशंसति ।यथा सेना न भज्येत तथा नीतिर्विधीयताम् ॥ २१ ॥
अदेशिका महारण्ये ग्रीष्मे शत्रुवशं गता ।यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् ॥ २२ ॥
अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे ।स्थाने वापि व्रजन्तो वा सदा हेषन्ति वाजिनः ॥ २३ ॥
सदा च वायवो वान्ति नित्यं वर्षति वासवः ।स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा ॥ २४ ॥
किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते ।अन्यत्र कामाद्द्वेषाद्वा रोषाद्वास्मासु केवलात् ॥ २५ ॥
आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः ।नैते महाभये प्राप्ते संप्रष्टव्याः कथंचन ॥ २६ ॥
प्रासादेषु विचित्रेषु गोष्ठीष्वावसथेषु च ।कथा विचित्राः कुर्वाणाः पण्डितास्तत्र शोभनाः ॥ २७ ॥
बहून्याश्चर्यरूपाणि कुर्वन्तो जनसंसदि ।इष्वस्त्रे चारुसंधाने पण्डितास्तत्र शोभनाः ॥ २८ ॥
परेषां विवरज्ञाने मनुष्याचरितेषु च ।अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः ॥ २९ ॥
पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः ।विधीयतां तथा नीतिर्यथा वध्येत वै परः ॥ ३० ॥
गावश्चैव प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम् ।आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परान् ॥ ३१ ॥
« »