Click on words to see what they mean.

वैशंपायन उवाच ।उत्तरं सारथिं कृत्वा शमीं कृत्वा प्रदक्षिणम् ।आयुधं सर्वमादाय ततः प्रायाद्धनंजयः ॥ १ ॥
ध्वजं सिंहं रथात्तस्मादपनीय महारथः ।प्रणिधाय शमीमूले प्रायादुत्तरसारथिः ॥ २ ॥
दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा ।काञ्चनं सिंहलाङ्गूलं ध्वजं वानरलक्षणम् ॥ ३ ॥
मनसा चिन्तयामास प्रसादं पावकस्य च ।स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्यचोदयत् ॥ ४ ॥
सपताकं विचित्राङ्गं सोपासङ्गं महारथः ।रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः ॥ ५ ॥
बद्धासिः सतनुत्राणः प्रगृहीतशरासनः ।ततः प्रायादुदीचीं स कपिप्रवरकेतनः ॥ ६ ॥
स्वनवन्तं महाशङ्खं बलवानरिमर्दनः ।प्राधमद्बलमास्थाय द्विषतां लोमहर्षणम् ॥ ७ ॥
ततस्ते जवना धुर्या जानुभ्यामगमन्महीम् ।उत्तरश्चापि संत्रस्तो रथोपस्थ उपाविशत् ॥ ८ ॥
संस्थाप्य चाश्वान्कौन्तेयः समुद्यम्य च रश्मिभिः ।उत्तरं च परिष्वज्य समाश्वासयदर्जुनः ॥ ९ ॥
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परंतप ।कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ॥ १० ॥
श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः ।कुञ्जराणां च नदतां व्यूढानीकेषु तिष्ठताम् ॥ ११ ॥
स त्वं कथमिहानेन शङ्खशब्देन भीषितः ।विषण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा ॥ १२ ॥
उत्तर उवाच ।श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः ।कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठताम् ॥ १३ ॥
नैवंविधः शङ्खशब्दः पुरा जातु मया श्रुतः ।ध्वजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम् ।धनुषश्चैव निर्घोषः श्रुतपूर्वो न मे क्वचित् ॥ १४ ॥
अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च ।रथस्य च निनादेन मनो मुह्यति मे भृशम् ॥ १५ ॥
व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव मे ।ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे ।गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ ॥ १६ ॥
अर्जुन उवाच ।एकान्ते रथमास्थाय पद्भ्यां त्वमवपीडय ।दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः ॥ १७ ॥
वैशंपायन उवाच ।तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च ।गाण्डीवस्य च घोषेण पृथिवी समकम्पत ॥ १८ ॥
द्रोण उवाच ।यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते ।कम्पते च यथा भूमिर्नैषोऽन्यः सव्यसाचिनः ॥ १९ ॥
शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाजिनः ।अग्नयश्च न भासन्ते समिद्धास्तन्न शोभनम् ॥ २० ॥
प्रत्यादित्यं च नः सर्वे मृगा घोरप्रवादिनः ।ध्वजेषु च निलीयन्ते वायसास्तन्न शोभनम् ।शकुनाश्चापसव्या नो वेदयन्ति महद्भयम् ॥ २१ ॥
गोमायुरेष सेनाया रुवन्मध्येऽनुधावति ।अनाहतश्च निष्क्रान्तो महद्वेदयते भयम् ।भवतां रोमकूपाणि प्रहृष्टान्युपलक्षये ॥ २२ ॥
पराभूता च वः सेना न कश्चिद्योद्धुमिच्छति ।विवर्णमुखभूयिष्ठाः सर्वे योधा विचेतसः ।गाः संप्रस्थाप्य तिष्ठामो व्यूढानीकाः प्रहारिणः ॥ २३ ॥
« »