Click on words to see what they mean.

वैशंपायन उवाच ।तस्मिन्काले समागम्य सर्वे तत्रास्य बान्धवाः ।रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः ॥ १ ॥
सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम् ।तथा सर्वाङ्गसंभुग्नं कूर्मं स्थल इवोद्धृतम् ॥ २ ॥
पोथितं भीमसेनेन तमिन्द्रेणेव दानवम् ।संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ॥ ३ ॥
ददृशुस्ते ततः कृष्णां सूतपुत्राः समागताः ।अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ॥ ४ ॥
समवेतेषु सूतेषु तानुवाचोपकीचकः ।हन्यतां शीघ्रमसती यत्कृते कीचको हतः ॥ ५ ॥
अथ वा नेह हन्तव्या दह्यतां कामिना सह ।मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा ॥ ६ ॥
ततो विराटमूचुस्ते कीचकोऽस्याः कृते हतः ।सहाद्यानेन दह्येत तदनुज्ञातुमर्हसि ॥ ७ ॥
पराक्रमं तु सूतानां मत्वा राजान्वमोदत ।सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते ॥ ८ ॥
तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम् ।मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम् ॥ ९ ॥
ततस्तु तां समारोप्य निबध्य च सुमध्यमाम् ।जग्मुरुद्यम्य ते सर्वे श्मशानमभितस्तदा ॥ १० ॥
ह्रियमाणा तु सा राजन्सूतपुत्रैरनिन्दिता ।प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ॥ ११ ॥
द्रौपद्युवाच ।जयो जयन्तो विजयो जयत्सेनो जयद्बलः ।ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ १२ ॥
येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः ।व्यश्रूयत महायुद्धे भीमघोषस्तरस्विनाम् ॥ १३ ॥
रथघोषश्च बलवान्गन्धर्वाणां यशस्विनाम् ।ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ १४ ॥
वैशंपायन उवाच ।तस्यास्ताः कृपणा वाचः कृष्णायाः परिदेविताः ।श्रुत्वैवाभ्यपतद्भीमः शयनादविचारयन् ॥ १५ ॥
भीमसेन उवाच ।अहं शृणोमि ते वाचं त्वया सैरन्ध्रि भाषिताम् ।तस्मात्ते सूतपुत्रेभ्यो न भयं भीरु विद्यते ॥ १६ ॥
वैशंपायन उवाच ।इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया ।ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च ।अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ॥ १७ ॥
स भीमसेनः प्राकारादारुज्य तरसा द्रुमम् ।श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः ॥ १८ ॥
स तं वृक्षं दशव्यामं सस्कन्धविटपं बली ।प्रगृह्याभ्यद्रवत्सूतान्दण्डपाणिरिवान्तकः ॥ १९ ॥
ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः ।भूमौ निपतिता वृक्षाः संघशस्तत्र शेरते ॥ २० ॥
तं सिंहमिव संक्रुद्धं दृष्ट्वा गन्धर्वमागतम् ।वित्रेसुः सर्वतः सूता विषादभयकम्पिताः ॥ २१ ॥
तमन्तकमिवायान्तं गन्धर्वं प्रेक्ष्य ते तदा ।दिधक्षन्तस्तदा ज्येष्ठं भ्रातरं ह्युपकीचकाः ।परस्परमथोचुस्ते विषादभयकम्पिताः ॥ २२ ॥
गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम् ।सैरन्ध्री मुच्यतां शीघ्रं महन्नो भयमागतम् ॥ २३ ॥
ते तु दृष्ट्वा तमाविद्धं भीमसेनेन पादपम् ।विमुच्य द्रौपदीं तत्र प्राद्रवन्नगरं प्रति ॥ २४ ॥
द्रवतस्तांस्तु संप्रेक्ष्य स वज्री दानवानिव ।शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् ॥ २५ ॥
तत आश्वासयत्कृष्णां प्रविमुच्य विशां पते ।उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम् ।अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः ॥ २६ ॥
एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्यनागसम् ।प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव ।अन्येनाहं गमिष्यामि विराटस्य महानसम् ॥ २७ ॥
पञ्चाधिकं शतं तच्च निहतं तत्र भारत ।महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ॥ २८ ॥
एवं ते निहता राजञ्शतं पञ्च च कीचकाः ।स च सेनापतिः पूर्वमित्येतत्सूतषट्शतम् ॥ २९ ॥
तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च संगताः ।विस्मयं परमं गत्वा नोचुः किंचन भारत ॥ ३० ॥
« »