Click on words to see what they mean.

भीमसेन उवाच ।तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।अद्य तं सूदयिष्यामि कीचकं सहबान्धवम् ॥ १ ॥
अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संगमम् ।दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते ॥ २ ॥
यैषा नर्तनशाला वै मत्स्यराजेन कारिता ।दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ॥ ३ ॥
तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम् ।तत्रास्य दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ॥ ४ ॥
यथा च त्वां न पश्येयुः कुर्वाणां तेन संविदम् ।कुर्यास्तथा त्वं कल्याणि यथा संनिहितो भवेत् ॥ ५ ॥
वैशंपायन उवाच ।तथा तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ ।रात्रिशेषं तदत्युग्रं धारयामासतुर्हृदा ॥ ६ ॥
तस्यां रात्र्यां व्यतीतायां प्रातरुत्थाय कीचकः ।गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् ॥ ७ ॥
सभायां पश्यतो राज्ञः पातयित्वा पदाहनम् ।न चैवालभथास्त्राणमभिपन्ना बलीयसा ॥ ८ ॥
प्रवादेन हि मत्स्यानां राजा नाम्नायमुच्यते ।अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः ॥ ९ ॥
सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते ।अह्नाय तव सुश्रोणि शतं निष्कान्ददाम्यहम् ॥ १० ॥
दासीशतं च ते दद्यां दासानामपि चापरम् ।रथं चाश्वतरीयुक्तमस्तु नौ भीरु संगमः ॥ ११ ॥
द्रौपद्युवाच ।एकं मे समयं त्वद्य प्रतिपद्यस्व कीचक ।न त्वां सखा वा भ्राता वा जानीयात्संगतं मया ॥ १२ ॥
अवबोधाद्धि भीतास्मि गन्धर्वाणां यशस्विनाम् ।एवं मे प्रतिजानीहि ततोऽहं वशगा तव ॥ १३ ॥
कीचक उवाच ।एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे ।एको भद्रे गमिष्यामि शून्यमावसथं तव ॥ १४ ॥
समागमार्थं रम्भोरु त्वया मदनमोहितः ।यथा त्वां नावभोत्स्यन्ति गन्धर्वाः सूर्यवर्चसः ॥ १५ ॥
द्रौपद्युवाच ।यदिदं नर्तनागारं मत्स्यराजेन कारितम् ।दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ॥ १६ ॥
तमिस्रे तत्र गच्छेथा गन्धर्वास्तन्न जानते ।तत्र दोषः परिहृतो भविष्यति न संशयः ॥ १७ ॥
वैशंपायन उवाच ।तमर्थं प्रतिजल्पन्त्याः कृष्णायाः कीचकेन ह ।दिवसार्धं समभवन्मासेनैव समं नृप ॥ १८ ॥
कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः ।सैरन्ध्रीरूपिणं मूढो मृत्युं तं नावबुद्धवान् ॥ १९ ॥
गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः ।अलंचकार सोऽऽत्मानं सत्वरः काममोहितः ॥ २० ॥
तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत् ।अनुचिन्तयतश्चापि तामेवायतलोचनाम् ॥ २१ ॥
आसीदभ्यधिका चास्य श्रीः श्रियं प्रमुमुक्षतः ।निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः ॥ २२ ॥
कृतसंप्रत्ययस्तत्र कीचकः काममोहितः ।नाजानाद्दिवसं यान्तं चिन्तयानः समागमम् ॥ २३ ॥
ततस्तु द्रौपदी गत्वा तदा भीमं महानसे ।उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् ॥ २४ ॥
तमुवाच सुकेशान्ता कीचकस्य मया कृतः ।संगमो नर्तनागारे यथावोचः परंतप ॥ २५ ॥
शून्यं स नर्तनागारमागमिष्यति कीचकः ।एको निशि महाबाहो कीचकं तं निषूदय ॥ २६ ॥
तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम् ।गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव ॥ २७ ॥
दर्पाच्च सूतपुत्रोऽसौ गन्धर्वानवमन्यते ।तं त्वं प्रहरतां श्रेष्ठ नडं नाग इवोद्धर ॥ २८ ॥
अश्रु दुःखाभिभूताया मम मार्जस्व भारत ।आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ॥ २९ ॥
भीमसेन उवाच ।स्वागतं ते वरारोहे यन्मा वेदयसे प्रियम् ।न ह्यस्य कंचिदिच्छामि सहायं वरवर्णिनि ॥ ३० ॥
या मे प्रीतिस्त्वयाख्याता कीचकस्य समागमे ।हत्वा हिडिम्बं सा प्रीतिर्ममासीद्वरवर्णिनि ॥ ३१ ॥
सत्यं भ्रातॄंश्च धर्मं च पुरस्कृत्य ब्रवीमि ते ।कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ॥ ३२ ॥
तं गह्वरे प्रकाशे वा पोथयिष्यामि कीचकम् ।अथ चेदवभोत्स्यन्ति हंस्ये मत्स्यानपि ध्रुवम् ॥ ३३ ॥
ततो दुर्योधनं हत्वा प्रतिपत्स्ये वसुंधराम् ।कामं मत्स्यमुपास्तां हि कुन्तीपुत्रो युधिष्ठिरः ॥ ३४ ॥
द्रौपद्युवाच ।यथा न संत्यजेथास्त्वं सत्यं वै मत्कृते विभो ।निगूढस्त्वं तथा वीर कीचकं विनिपातय ॥ ३५ ॥
भीमसेन उवाच ।एवमेतत्करिष्यामि यथा त्वं भीरु भाषसे ।अदृश्यमानस्तस्याद्य तमस्विन्यामनिन्दिते ॥ ३६ ॥
नागो बिल्वमिवाक्रम्य पोथयिष्याम्यहं शिरः ।अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ॥ ३७ ॥
वैशंपायन उवाच ।भीमोऽथ प्रथमं गत्वा रात्रौ छन्न उपाविशत् ।मृगं हरिरिवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् ॥ ३८ ॥
कीचकश्चाप्यलंकृत्य यथाकाममुपाव्रजत् ।तां वेलां नर्तनागारे पाञ्चालीसंगमाशया ॥ ३९ ॥
मन्यमानः स संकेतमागारं प्राविशच्च तम् ।प्रविश्य च स तद्वेश्म तमसा संवृतं महत् ॥ ४० ॥
पूर्वागतं ततस्तत्र भीममप्रतिमौजसम् ।एकान्तमास्थितं चैनमाससाद सुदुर्मतिः ॥ ४१ ॥
शयानं शयने तत्र मृत्युं सूतः परामृशत् ।जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह ॥ ४२ ॥
उपसंगम्य चैवैनं कीचकः काममोहितः ।हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत ॥ ४३ ॥
प्रापितं ते मया वित्तं बहुरूपमनन्तकम् ।तत्सर्वं त्वां समुद्दिश्य सहसा समुपागतः ॥ ४४ ॥
नाकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः ।सुवासा दर्शनीयश्च नान्योऽस्ति त्वादृशः पुमान् ॥ ४५ ॥
भीमसेन उवाच ।दिष्ट्या त्वं दर्शनीयोऽसि दिष्ट्यात्मानं प्रशंससि ।ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् ॥ ४६ ॥
वैशंपायन उवाच ।इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः ।समुत्पत्य च कौन्तेयः प्रहस्य च नराधमम् ।भीमो जग्राह केशेषु माल्यवत्सु सुगन्धिषु ॥ ४७ ॥
स केशेषु परामृष्टो बलेन बलिनां वरः ।आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् ॥ ४८ ॥
बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः ।वसन्ते वाशिताहेतोर्बलवद्गजयोरिव ॥ ४९ ॥
ईषदागलितं चापि क्रोधाच्चलपदं स्थितम् ।कीचको बलवान्भीमं जानुभ्यामाक्षिपद्भुवि ॥ ५० ॥
पातितो भुवि भीमस्तु कीचकेन बलीयसा ।उत्पपाताथ वेगेन दण्डाहत इवोरगः ॥ ५१ ॥
स्पर्धया च बलोन्मत्तौ तावुभौ सूतपाण्डवौ ।निशीथे पर्यकर्षेतां बलिनौ निशि निर्जने ॥ ५२ ॥
ततस्तद्भवनश्रेष्ठं प्राकम्पत मुहुर्मुहुः ।बलवच्चापि संक्रुद्धावन्योन्यं तावगर्जताम् ॥ ५३ ॥
तलाभ्यां तु स भीमेन वक्षस्यभिहतो बली ।कीचको रोषसंतप्तः पदान्न चलितः पदम् ॥ ५४ ॥
मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम् ।बलादहीयत तदा सूतो भीमबलार्दितः ॥ ५५ ॥
तं हीयमानं विज्ञाय भीमसेनो महाबलः ।वक्षस्यानीय वेगेन ममन्थैनं विचेतसम् ॥ ५६ ॥
क्रोधाविष्टो विनिःश्वस्य पुनश्चैनं वृकोदरः ।जग्राह जयतां श्रेष्ठः केशेष्वेव तदा भृशम् ॥ ५७ ॥
गृहीत्वा कीचकं भीमो विरुराव महाबलः ।शार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम् ॥ ५८ ॥
तस्य पादौ च पाणी च शिरो ग्रीवां च सर्वशः ।काये प्रवेशयामास पशोरिव पिनाकधृक् ॥ ५९ ॥
तं संमथितसर्वाङ्गं मांसपिण्डोपमं कृतम् ।कृष्णायै दर्शयामास भीमसेनो महाबलः ॥ ६० ॥
उवाच च महातेजा द्रौपदीं पाण्डुनन्दनः ।पश्यैनमेहि पाञ्चालि कामुकोऽयं यथा कृतः ॥ ६१ ॥
तथा स कीचकं हत्वा गत्वा रोषस्य वै शमम् ।आमन्त्र्य द्रौपदीं कृष्णां क्षिप्रमायान्महानसम् ॥ ६२ ॥
कीचकं घातयित्वा तु द्रौपदी योषितां वरा ।प्रहृष्टा गतसंतापा सभापालानुवाच ह ॥ ६३ ॥
कीचकोऽयं हतः शेते गन्धर्वैः पतिभिर्मम ।परस्त्रीकामसंमत्तः समागच्छत पश्यत ॥ ६४ ॥
तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः ।सहसैव समाजग्मुरादायोल्काः सहस्रशः ॥ ६५ ॥
ततो गत्वाथ तद्वेश्म कीचकं विनिपातितम् ।गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् ॥ ६६ ॥
क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरस्तथा ।इति स्म तं परीक्षन्ते गन्धर्वेण हतं तदा ॥ ६७ ॥
« »