Click on words to see what they mean.

वैशंपायन उवाच ।ते दृष्ट्वा निहतान्सूतान्राज्ञे गत्वा न्यवेदयन् ।गन्धर्वैर्निहता राजन्सूतपुत्राः परःशताः ॥ १ ॥
यथा वज्रेण वै दीर्णं पर्वतस्य महच्छिरः ।विनिकीर्णं प्रदृश्येत तथा सूता महीतले ॥ २ ॥
सैरन्ध्री च विमुक्तासौ पुनरायाति ते गृहम् ।सर्वं संशयितं राजन्नगरं ते भविष्यति ॥ ३ ॥
तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः ।पुंसामिष्टश्च विषयो मैथुनाय न संशयः ॥ ४ ॥
यथा सैरन्ध्रिवेषेण न ते राजन्निदं पुरम् ।विनाशमेति वै क्षिप्रं तथा नीतिर्विधीयताम् ॥ ५ ॥
तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः ।अब्रवीत्क्रियतामेषां सूतानां परमक्रिया ॥ ६ ॥
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने ।दह्यन्तां कीचकाः शीघ्रं रत्नैर्गन्धैश्च सर्वशः ॥ ७ ॥
सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः ।सैरन्ध्रीमागतां ब्रूया ममैव वचनादिदम् ॥ ८ ॥
गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराबले ।बिभेति राजा सुश्रोणि गन्धर्वेभ्यः पराभवात् ॥ ९ ॥
न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् ।स्त्रियस्त्वदोषास्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् ॥ १० ॥
अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च ।मोक्षिता भीमसेनेन जगाम नगरं प्रति ॥ ११ ॥
त्रासितेव मृगी बाला शार्दूलेन मनस्विनी ।गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा ॥ १२ ॥
तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश ।गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टीर्न्यमीलयन् ॥ १३ ॥
ततो महानसद्वारि भीमसेनमवस्थितम् ।ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम् ॥ १४ ॥
तं विस्मयन्ती शनकैः संज्ञाभिरिदमब्रवीत् ।गन्धर्वराजाय नमो येनास्मि परिमोचिता ॥ १५ ॥
भीमसेन उवाच ।ये यस्या विचरन्तीह पुरुषा वशवर्तिनः ।तस्यास्ते वचनं श्रुत्वा अनृणा विचरन्त्युत ॥ १६ ॥
वैशंपायन उवाच ।ततः सा नर्तनागारे धनंजयमपश्यत ।राज्ञः कन्या विराटस्य नर्तयानं महाभुजम् ॥ १७ ॥
ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः ।कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम् ॥ १८ ॥
कन्या ऊचुः ।दिष्ट्या सैरन्ध्रि मुक्तासि दिष्ट्यासि पुनरागता ।दिष्ट्या विनिहताः सूता ये त्वां क्लिश्यन्त्यनागसम् ॥ १९ ॥
बृहन्नडोवाच ।कथं सैरन्ध्रि मुक्तासि कथं पापाश्च ते हताः ।इच्छामि वै तव श्रोतुं सर्वमेव यथातथम् ॥ २० ॥
सैरन्ध्र्युवाच ।बृहन्नडे किं नु तव सैरन्ध्र्या कार्यमद्य वै ।या त्वं वससि कल्याणि सदा कन्यापुरे सुखम् ॥ २१ ॥
न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्नुते ।तेन मां दुःखितामेवं पृच्छसे प्रहसन्निव ॥ २२ ॥
बृहन्नडोवाच ।बृहन्नडापि कल्याणि दुःखमाप्नोत्यनुत्तमम् ।तिर्यग्योनिगता बाले न चैनामवबुध्यसे ॥ २३ ॥
वैशंपायन उवाच ।ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत् ।प्रविवेश सुदेष्णायाः समीपमपलायिनी ॥ २४ ॥
तामब्रवीद्राजपुत्री विराटवचनादिदम् ।सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् ॥ २५ ॥
राजा बिभेति भद्रं ते गन्धर्वेभ्यः पराभवात् ।त्वं चापि तरुणी सुभ्रु रूपेणाप्रतिमा भुवि ॥ २६ ॥
सैरन्ध्र्युवाच ।त्रयोदशाहमात्रं मे राजा क्षमतु भामिनि ।कृतकृत्या भविष्यन्ति गन्धर्वास्ते न संशयः ॥ २७ ॥
ततो मां तेऽपनेष्यन्ति करिष्यन्ति च ते प्रियम् ।ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः ॥ २८ ॥
« »