Click on words to see what they mean.

भीमसेन उवाच ।धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च ।यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणावुभौ ॥ १ ॥
सभायां स्म विराटस्य करोमि कदनं महत् ।तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत् ।तदहं तस्य विज्ञाय स्थित एवास्मि भामिनि ॥ २ ॥
यच्च राष्ट्रात्प्रच्यवनं कुरूणामवधश्च यः ।सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च ॥ ३ ॥
दुःशासनस्य पापस्य यन्मया न हृतं शिरः ।तन्मे दहति कल्याणि हृदि शल्यमिवार्पितम् ।मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते ॥ ४ ॥
इमं च समुपालम्भं त्वत्तो राजा युधिष्ठिरः ।शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितम् ॥ ५ ॥
धनंजयो वा सुश्रोणि यमौ वा तनुमध्यमे ।लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् ॥ ६ ॥
सुकन्या नाम शार्याती भार्गवं च्यवनं वने ।वल्मीकभूतं शाम्यन्तमन्वपद्यत भामिनी ॥ ७ ॥
नाडायनी चेन्द्रसेना रूपेण यदि ते श्रुता ।पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् ॥ ८ ॥
दुहिता जनकस्यापि वैदेही यदि ते श्रुता ।पतिमन्वचरत्सीता महारण्यनिवासिनम् ॥ ९ ॥
रक्षसा निग्रहं प्राप्य रामस्य महिषी प्रिया ।क्लिश्यमानापि सुश्रोणी राममेवान्वपद्यत ॥ १० ॥
लोपामुद्रा तथा भीरु वयोरूपसमन्विता ।अगस्त्यमन्वयाद्धित्वा कामान्सर्वानमानुषान् ॥ ११ ॥
यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः ।तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः ॥ १२ ॥
मादीर्घं क्षम कालं त्वं मासमध्यर्धसंमितम् ।पूर्णे त्रयोदशे वर्षे राज्ञो राज्ञी भविष्यसि ॥ १३ ॥
द्रौपद्युवाच ।आर्तयैतन्मया भीम कृतं बाष्पविमोक्षणम् ।अपारयन्त्या दुःखानि न राजानमुपालभे ॥ १४ ॥
विमुक्तेन व्यतीतेन भीमसेन महाबल ।प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव ॥ १५ ॥
ममेह भीम कैकेयी रूपाभिभवशङ्कया ।नित्यमुद्विजते राजा कथं नेयादिमामिति ॥ १६ ॥
तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः ।कीचकोऽयं सुदुष्टात्मा सदा प्रार्थयते हि माम् ॥ १७ ॥
तमहं कुपिता भीम पुनः कोपं नियम्य च ।अब्रुवं कामसंमूढमात्मानं रक्ष कीचक ॥ १८ ॥
गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया ।ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः ॥ १९ ॥
एवमुक्तः स दुष्टात्मा कीचकः प्रत्युवाच ह ।नाहं बिभेमि सैरन्ध्रि गन्धर्वाणां शुचिस्मिते ॥ २० ॥
शतं सहस्रमपि वा गन्धर्वाणामहं रणे ।समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् ॥ २१ ॥
इत्युक्ते चाब्रुवं सूतं कामातुरमहं पुनः ।न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् ॥ २२ ॥
धर्मे स्थितास्मि सततं कुलशीलसमन्विता ।नेच्छामि कंचिद्वध्यन्तं तेन जीवसि कीचक ॥ २३ ॥
एवमुक्तः स दुष्टात्मा प्रहस्य स्वनवत्तदा ।न तिष्ठति स्म सन्मार्गे न च धर्मं बुभूषति ॥ २४ ॥
पापात्मा पापभावश्च कामरागवशानुगः ।अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः ।दर्शने दर्शने हन्यात्तथा जह्यां च जीवितम् ॥ २५ ॥
तद्धर्मे यतमानानां महान्धर्मो नशिष्यति ।समयं रक्षमाणानां भार्या वो न भविष्यति ॥ २६ ॥
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता ।प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥ २७ ॥
वदतां वर्णधर्मांश्च ब्राह्मणानां हि मे श्रुतम् ।क्षत्रियस्य सदा धर्मो नान्यः शत्रुनिबर्हणात् ॥ २८ ॥
पश्यतो धर्मराजस्य कीचको मां पदावधीत् ।तव चैव समक्षं वै भीमसेन महाबल ॥ २९ ॥
त्वया ह्यहं परित्राता तस्माद्घोराज्जटासुरात् ।जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह ॥ ३० ॥
जहीममपि पापं त्वं योऽयं मामवमन्यते ।कीचको राजवाल्लभ्याच्छोककृन्मम भारत ॥ ३१ ॥
तमेवं कामसंमत्तं भिन्धि कुम्भमिवाश्मनि ।यो निमित्तमनर्थानां बहूनां मम भारत ॥ ३२ ॥
तं चेज्जीवन्तमादित्यः प्रातरभ्युदयिष्यति ।विषमालोड्य पास्यामि मा कीचकवशं गमम् ।श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः ॥ ३३ ॥
वैशंपायन उवाच ।इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरः समाश्रिता ।भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च ।कीचकं मनसागच्छत्सृक्किणी परिसंलिहन् ॥ ३४ ॥
« »