Click on words to see what they mean.

लोमश उवाच ।इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान् ।उपस्थितान्सहामात्यो विषयान्तेऽभ्यपूजयत् ॥ १ ॥
तेषां ततोऽसुरश्रेष्ठ आतिथ्यमकरोत्तदा ।स संस्कृतेन कौरव्य भ्रात्रा वातापिना किल ॥ २ ॥
ततो राजर्षयः सर्वे विषण्णा गतचेतसः ।वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् ॥ ३ ॥
अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः ।विषादो वो न कर्तव्यो अहं भोक्ष्ये महासुरम् ॥ ४ ॥
धुर्यासनमथासाद्य निषसाद महामुनिः ।तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव ॥ ५ ॥
अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः ।भुक्तवत्यसुरोऽऽह्वानमकरोत्तस्य इल्वलः ॥ ६ ॥
ततो वायुः प्रादुरभूदगस्त्यस्य महात्मनः ।इल्वलश्च विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम् ॥ ७ ॥
प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत् ।किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः ॥ ८ ॥
प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा ।ईशं ह्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम् ॥ ९ ॥
इमे च नातिधनिनो धनार्थश्च महान्मम ।यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः ॥ १० ॥
ततोऽभिवाद्य तमृषिमिल्वलो वाक्यमब्रवीत् ।दित्सितं यदि वेत्सि त्वं ततो दास्यामि ते वसु ॥ ११ ॥
अगस्त्य उवाच ।गवां दश सहस्राणि राज्ञामेकैकशोऽसुर ।तावदेव सुवर्णस्य दित्सितं ते महासुर ॥ १२ ॥
मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः ।मनोजवौ वाजिनौ च दित्सितं ते महासुर ।जिज्ञास्यतां रथः सद्यो व्यक्तमेष हिरण्मयः ॥ १३ ॥
लोमश उवाच ।जिज्ञास्यमानः स रथः कौन्तेयासीद्धिरण्मयः ।ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु ॥ १४ ॥
विवाजश्च सुवाजश्च तस्मिन्युक्तौ रथे हयौ ।ऊहतुस्तौ वसून्याशु तान्यगस्त्याश्रमं प्रति ।सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत ॥ १५ ॥
अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा ।कृतवांश्च मुनिः सर्वं लोपामुद्राचिकीर्षितम् ॥ १६ ॥
लोपामुद्रोवाच ।कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम् ।उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम् ॥ १७ ॥
अगस्त्य उवाच ।तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने ।विचारणामपत्ये तु तव वक्ष्यामि तां शृणु ॥ १८ ॥
सहस्रं तेऽस्तु पुत्राणां शतं वा दशसंमितम् ।दश वा शततुल्याः स्युरेको वापि सहस्रवत् ॥ १९ ॥
लोपामुद्रोवाच ।सहस्रसंमितः पुत्र एको मेऽस्तु तपोधन ।एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः ॥ २० ॥
लोमश उवाच ।स तथेति प्रतिज्ञाय तया समभवन्मुनिः ।समये समशीलिन्या श्रद्धावाञ्श्रद्दधानया ॥ २१ ॥
तत आधाय गर्भं तमगमद्वनमेव सः ।तस्मिन्वनगते गर्भो ववृधे सप्त शारदान् ॥ २२ ॥
सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः ।ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत ।साङ्गोपनिषदान्वेदाञ्जपन्नेव महायशाः ॥ २३ ॥
तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः ।स बाल एव तेजस्वी पितुस्तस्य निवेशने ।इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत् ॥ २४ ॥
तथायुक्तं च तं दृष्ट्वा मुमुदे स मुनिस्तदा ।लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान् ॥ २५ ॥
अगस्त्यस्याश्रमः ख्यातः सर्वर्तुकुसुमान्वितः ।प्राह्रादिरेवं वातापिरगस्त्येन विनाशितः ॥ २६ ॥
तस्यायमाश्रमो राजन्रमणीयो गुणैर्युतः ।एषा भागीरथी पुण्या यथेष्टमवगाह्यताम् ॥ २७ ॥
« »